इषीका
iṣīkāस्त्री · fem.In 12 kośas: 16 synonym verses, 3 as a nānārtha head word.
genderस्त्रीfem.
घासस्तु यवसः प्रोक्तो बर्हिर्दर्भः कुथः कुशः ।उलपो वल्वजः प्रोक्त इषीका काश उच्यते ।हरिताली भवेद्दूर्वा शरो मुञ्ज इति स्मृतः ॥ १९१ ॥
अनुष्टुप्
genderस्त्रीfem.
कटकोप्यथ कुम्भ्यक्षिकूटे स्यादिषीकेषिका ।अवग्रहो ललाट स्याद्विदुः पुंस्युभयान्तरम् ॥ १६६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 षी (wrong syllable)
genderस्त्रीfem.
स्यादल्लूकेष्टकेषीकोल्कोर्मिका कुञ्जिकेन्धिका ।कनीनिका च कलिका कणिकापि च कूचिका ॥ १२ ॥
अनुष्टुप्
genderस्त्रीfem.
आरक्षोऽस्त्री शिरोमर्म गण्डस्तु करटः कटः ।[112b]अक्षिकूटमिषीका स्यादिषिका च भवेत्स्त्रियाम् ॥ ९७ ॥
अनुष्टुप्
genderस्त्रीfem.
कले जङ्घापृष्ठगते इषीके तु तदन्तरे ।तयोरधः पुरोभागो(गे) पलिहस्तः प्रकीर्तितः ॥ ५० ॥
अनुष्टुप्
genderस्त्रीfem.
व्रश्चनः पत्रपरशुरिषीका तूलिकेषिके ।इषीकतूलं द्वंद्वे स्यादिषीकातूलयोरपि ॥ १९ ॥
अनुष्टुप्
genderस्त्रीfem.
पुण्ड्रकान्तारमुख्याः स्युस्तन्मूलं मोरटं स्मृतम् ।इषीकाकाश इत्येवमर्जुनं यवसं तृणम् ॥ ११३ ॥
अनुष्टुप्
genderस्त्रीfem.
जलौका केणिका वालुकेषीका च विहङ्गिका ।इषिका तु शलाका च परिखा विशिखा शिखा ॥ ४६ ॥
अनुष्टुप्
genderस्त्रीfem.
चित्रकाद्युपसामग्र्यामिषीका तूलिका मता ।चर्मप्रसेचका(वको?) भस्त्रा भस्त्रिका भस्त्रिरित्यपि ॥ ६०८ ॥
अनुष्टुप्
genderस्त्रीfem.
ईक्षोर्मूलस्य नामात्र मोरटं मन्यते बुधैः ।काशः कासमिषीका च तृणभेदोऽपि कथ्यते ॥ २१५६ ॥
अनुष्टुप्
genderस्त्रीfem.
अथ हस्तिललाटे स्यादवग्रह उपग्रहः ।इषीका त्वीषिका चाक्षिकूटकं नेत्रगोलके ॥
अनुष्टुप्
genderस्त्रीfem.
कासस्तालव्यदन्त्यान्त ईषीका स्यादिषीकया ।यवासं यवसंघातेऽर्जुने तु द्वे तृण-त्रिणे ॥ २७५ ॥
अनुष्टुप्
genderस्त्रीfem.
ईषिका स्यादिषीकेवेभगण्डे करटः कटः ।गजपश्चिमभागे त्वपरावदऽवरोदिता ॥ २९४ ॥
अनुष्टुप्
genderस्त्रीfem.
गुन्द्रः शरस्तेजनः स्यादिषीका कूलिका समे ।छत्राकश्छत्रपालघ्नौ पुंसि भूम्नि च बल्बजाः ॥ ६७२ ॥
अनुष्टुप्
genderस्त्रीfem.
पुञ्जीलस्तु तृणस्तंब इषीका तूलिका समे ।शष्पं बालतृणं शादः सर्वं तु तृणमर्जुनम् ॥ २३५ ॥
अनुष्टुप्
genderस्त्रीfem.
इत्वरं गत्वरे त्रिः स्यात् पुंश्चल्यां त्वित्वरी स्त्रियाम् ।इषीकास्तु नृभूम्नि स्युर्दक्षिणापथवर्तिनि ॥ २२७ ॥
अनुष्टुप्
meaningsदक्षिणापथवर्तिन्