कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

शारि

śāriस्त्री · fem.

In 14 kośas: 15 synonym verses, 9 as a nānārtha head word, 1 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.192 · p. 22
अष्टापदः शारिफलं शारः शारिश्च खेलनी ।
अनुष्टुप्
genderस्त्रीfem.
इषिका स्यादीषिका च ईषीका च निगद्यते ।शारिः शारी वेधनिका वेधनी च निगद्यते ॥ २५४ ॥
अनुष्टुप्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव शूद्रादिप्रकाण्डः Kalpadrukośa 1.8.104 · p. 213
शारिर्द्वयोः स्त्रियां शारी शारोना पाशकः पुनः ।अक्षविन्दुत्रिकद्वन्द्वे दुन्दुभी दुन्दुभिः स्त्रियौ ॥ १०४ ॥
अनुष्टुप्
genderपुंस्त्रीm. f.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ शूद्रवर्गः Koṣakalpataru 2.4.70 · p. 301
बिन्दुत्रिकद्वये तु स्यादक्षाणां दुन्दुभिः स्त्रियाम् ।आकर्षो ना शारिफलाष्टापदे च न योषिति ।शारिः[148a] पुमान्द्वयोः शारा खेलन्यासां समन्ततः ॥ ७० ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ स्त्रीलिङ्गाधिकारः Koṣakalpataru 4.2.65 · p. 102
genderस्त्रीfem.
निघण्टुशेष Nighaṇṭuśeṣa · हेमचन्द्र वृक्षकाण्डः Nighaṇṭuśeṣa 1.99 · p. 55
आरोग्यशिम्बिका कर्णी स्वर्णशेफालिकेत्यपि ।बीजके प्रियकः शारिर्गौरो बन्धुकपुष्पकः ॥ ९९ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.150 · p. 120
पणोऽथ पाशकः प्रोक्तः प्रासकः परिभावितः ।अष्टापदः शारिफलं खेलनी शारिरुच्यते ॥ १५० ॥
अनुष्टुप्
genderस्त्रीfem.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास स्त्रीलिङ्गसंग्रहः Paramānandīyanāmamālā 6.2.61 · p. 218
तूलिर्विष्टिर्गृष्टिवृष्टी शरारि-र्भेरिः पुञ्जिर्मरिर्वल्लरिश्च ।आतिः शारिः फालिगाली मुषुण्ढि-र्माढिश्चारिः काकनिः कानिहानी ॥ ६१ ॥
शालिनीmetre not read in every linenearly शालिनी
genderस्त्रीfem.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.754 · p. 107
शारिश्च खेलनी शारः कथ्यन्ते शारसंज्ञकाः ॥ ७५४ ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश शूद्रवर्गप्रक्लाशः Śabdaratnāvalī 3.8.78 · p. 158
सारिः शारिः सारशारौ पाशा इत्यपि कुत्रचित् ।नयने सर्वमारीणां परिणायस्तु सर्वतः ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि तृतीयः काण्डः Śabdaratnākara 3.100 · p. 196
फलकोऽष्टापदे शारिः शारः खेलनिकोच्यते ।व्यालग्राह्यहितुण्डिक आहितुण्डिक इत्यपि ॥ १०० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 ण्डि (wrong syllable)
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण चतुष्पदाध्यायः Śabdaratnākara 2.4.713 · p. 91
प्रवेणी तु परिस्तोमो वर्णः शारिः कुथो द्वयोः ।वप्रक्रिया परिणतिः कल्पना सज्जना समे ॥ ७१३ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण स्त्रीपुंसप्रकरणम् Śabdaratnākara 7.3.2325 · p. 283
स्त्रीपुंसमुच्यते लिङ्गे शारिः श्रे[णिः] सृणिर्मणिः ।दशाटोटः पटो वाटो वटः पेठो मठः पटः ॥ २३२५ ॥
अनुष्टुप्
genderपुंस्त्रीm. f.
वैजयन्ती Vaijayantī · यादवप्रकाश खगाध्यायः Vaijayantī 2.3.20 · p. 27
श्येनायां प्राचिका चित्रपक्षे शरुकपिंजलौ ।वाचाला मुखरा शारिः कोयष्टिः शिखरी समौ ॥ २० ॥
अनुष्टुप्
genderस्त्रीfem.
वैजयन्ती Vaijayantī · यादवप्रकाश शूद्राध्यायः Vaijayantī 3.9.60 · p. 141
समाधिश्च समंगश्च परिवी रंजनं च तत् ।पणो ग्लहो देवनस्तु पाशकोऽक्षोऽथ शारयः ॥ ६० ॥
अनुष्टुप्
genderपुंmasc.
धरणिकोश Dharaṇikośa · धरणिदास रश्लोकः Dharaṇikośa 26.3.21 · p. 182
द्यूतोपलक्षणं शारिः शारिः शकुनिकान्तरम् ।हस्तिपर्याणकं शारिः शारिः कपट इष्यते ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ रान्ताः Koṣakalpataru 6.27.72 · p. 313
तोये स्त्रियां वाग्गजबन्धभूमी-घटीषु शारिस्तु पुमान्प्रदिष्टः ।द्यूतार्थमूर्त्तिष्वथ योषिति स्या-च्चित्रेक्षणायां(?) व्यवहारभेदे ॥ ७२ ॥
उपजातिः
कोषकल्पतरु Koṣakalpataru · विश्वनाथ रान्ताः Koṣakalpataru 6.27.73 · p. 313
साङ्ग्रामिके[50b]पल्ल्ययने गजानांकारिः क्रियायां गदिता स्त्रियां च ।विशेष्यवच्छिल्पिनि सा प्रदिष्टाहारिः स्त्रियां पान्थवनौ( ? )च भङ्गे ॥ ७३ ॥
उपजातिःmetre not read in every line
doubtful
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.1356 · p. 158
द्यूतशारौ वराटेऽपि शबरस्वाम्यवोचत ।शारिः स्त्री शारिकासंज्ञविहङ्गे नृस्त्रियोः पुनः ॥ १३५६ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.1357 · p. 158
पर्याणभेदे द्यूतस्य गुडे शारयतौ तु ना ।शालुः कषाये ना त्रिस्तु तद्वति द्वे तु दर्दुरे ॥ १३५७ ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश रेफान्ताः Śabdaratnāvalī 7.27.45 · p. 268
वेरं कामे पुमान् क्लीबं वार्त्ताकौ कुङ्कुमेऽपि च ।शारिर्नाक्षोपकरणे व्यवहारान्तरेऽपि च ।युद्धार्थगजपर्याणभागे शकुनिके स्त्रियाम् ॥
अनुष्टुप्
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण अनेकार्थाधिकाराध्यायः Śabdaratnākara 4.1.2016 · p. 245
शारिर्द्वयोः कुथे द्यूते पर्याणे ना खगे स्त्रियाम् ।शंसनेऽस्त्रायसोः शस्त्रं श्यामा युवतिकन्ययोः ॥ २०१६ ॥
अनुष्टुप्
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव नानार्थवर्गः Trikāṇḍaśeṣa 3.3.374 · p. 223
(२२३ ) अथ व्यतिकरः पुंसि व्यसनव्यतिषङ्गयोः ।पर्याणेऽक्षोपकरणे शारिः शकुनिकान्तरे ॥ ३७४ ॥
अनुष्टुप्
वैजयन्ती Vaijayantī · यादवप्रकाश नानालिङ्गाध्यायः Vaijayantī 6.5.88 · p. 237
माल्याक्षतादिदाने स्त्री ना नागेशाप्रधानयोः ।ना पर्याणे विहंगे स्त्री शारिर्द्यूते गुडे नषण् ॥ ८८ ॥
अनुष्टुप्

शारि as a meaning in nānārtha verses