कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

शाण

śāṇaपुं · masc.

In 15 kośas: 21 synonym verses, 7 as a nānārtha head word, 3 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.768 · p. 36
आस्फोटिनी वेधनिका शाणस्तु निकषः कषः ।
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह शूद्रवर्गः Amarakośa 2.10.54
नाराची स्यादेषणिका शाणस्तु निकषः कषः ।
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव नरादिप्रकाण्डः Kalpadrukośa 1.4.275 · p. 50
अथैतेषां प्रभेदाः स्युस्तत्र वल्कलजान्यपि ।क्षौमाण्यस्त्री पवित्राणि शाणान्यावपनानि तु ॥ २७५ ॥
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव शूद्रादिप्रकाण्डः Kalpadrukośa 1.8.70 · p. 209
स्यादीषीका तूलिकापि शाणस्तु निकषः कषः ।पिञ्जनं स्याद्विहननं धूननं तूलशोधनम् ॥ ७० ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव वनौषधिप्रकाण्डः Kalpadrukośa 1.11.478 · p. 302
कटुतिक्तस्तु चमनो माल्यपुष्पो निशाचरः ।स्याद्दीर्घात्पल्लवः शाखस्त्वक्सारः शाण इत्यथ ॥ ४७८ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव स्त्र्यादिलिङ्गप्रकाण्डः Kalpadrukośa 3.5.118 · p. 474
फडचुडगुडानां च तथैव फणशाणयोः ।वारिपर्णस्य गर्तस्य रथाजमोदयोरपि ॥ ११८ ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 3 चु (wrong syllable); pāda 4, syllable 3 ज (wrong syllable)
genderपुंस्त्रीm. f.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.5 · p. 292
धान्यको हेममाषोऽस्त्री स्यात्तत्र हेम नपुंसके ।द्वे कृष्णले रूप्यमाषस्तथा धान्यकणा दश ॥कैश्चित्तु सप्तगुञ्जाभिर्माषकः परिकीर्त्यते ।चतुर्माषस्तु धरणः शाणष्टङ्कश्च न स्त्रियाम् ॥निष्कोऽपि न स्त्री गद्याणो माषकैः षड्भिरीरितः ।क्षुद्रको द्रङ्क्षणः कोलो वटक*[ स्त्व? ]ष्टयुग्मकम् ॥ ५ ॥
metre not recognisednearly अनुष्टुप्
genderपुंक्लीm. n.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ शूद्रवर्गः Koṣakalpataru 2.4.21 · p. 296
आकषो हेमलं शाणो द्वंद्वे स्यान्निकषोपलः ।आकषे कुशलो भेद्यलिङ्ग आकषकः स्मृतः ॥ २१ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ स्त्रीपुंसलिङ्गाधिकारः Koṣakalpataru 4.4.23 · p. 109
वारिपर्ण-फण-शाण-पार्ष्णयःस्यात्सृणिर्द्रुभिदि वाण ईरितः ।स्यात्स्फुलिङ्गलववाचकः कणः ।स्यात्करेणुरिभयोर्हरेणुवत् ॥ २३ ॥
रथोद्धता
genderपुंस्त्रीm. f.
निघादयःशब्दाः पुंसि भवन्ति । अयं निघः पर्वतः । अयं सङ्घः समूहः । अयमुद्घः प्रशस्तः । अयमुपघ्न आश्रयः पर्वतश्च । अयमोघो नदीवेगः पुरुषारम्भश्च । विघ्नः कर्मनिघातः । घर्मो निदाघः । अर्घः पूजा मूल्यविशेषः । वर्णो हरितपीतादिः ब्राह्मणादिः अकारादीनि चाक्षराणि ।पणगुणगणकणशोणाः किणफणघुणशाणबाणचूर्णाश्च ।नित्यं हि पुंसि पन्था बाष्पोष्माध्वानश्च विज्ञेयाः ॥ २६ ॥
metre not recognised
genderपुंmasc.
पणादयः शब्दाः पुंसि भवन्ति । अयं पणो विंशतिगण्डकः । अयं गुणः सङ्ख्याख्यः शुक्लादिः[दि] पाटलादिश्च । अयं गणः सङ्घातः । अयं कणः परमाणुः । शोणो नदः । किणो निकषः । फणो भुजङ्गः । घुणः कीटविशेषः । शाणः पाषाणविकारः । बाणः शरः असुरः घृष्टिका च । अयं चूर्णः शकलः खण्ड इत्यर्थः । अयं पन्था मार्गः । अयं बाष्पोऽश्रु । अयमूष्मा घर्मः । अयमध्वा मार्गः । नित्यग्रहणं विभाषानिवृत्त्यर्थम् ।नपुंसके श्वभ्रतृणरणार्णानि ।वीणातूणाघोणाघृणास्तु नियतं स्त्रियां विद्यात् ॥ २७ ॥
metre not recognised
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.422 · p. 154
चर्मप्रसेविका भस्त्रा विशिष्यैव विभाव्यताम् ।वेधिन्यास्फोटिनी तुल्ये शाणे तु निकषः कषः ॥ ४२२ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास पुंस्त्रीलिङ्गसंग्रहः Paramānandīyanāmamālā 6.4.111 · p. 225
genderपुंस्त्रीm. f.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.607 · p. 104
शाणोपले तु शाणः स्यान्निकाषो निकषः कषः ।व्रश्चनः परशुश्चैव स्वर्णभेदकभेदके ॥ ६०७ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.1532 · p. 243
निकषस्तु कषः शाणः कषपाषाण उच्यते ।कङ्कमुखश्च संदंशः संदंशस्य हि कथ्यते ॥ १५३२ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 मु (wrong syllable)
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश शूद्रवर्गप्रक्लाशः Śabdaratnāvalī 3.8.56 · p. 157
स्यात् पुंसि निकषः शासा आकषः कष इत्यपि ।व्रश्चनः पत्रपरशुः स्यात् पत्रपर्शुरित्यपि ।ईषिका तूलिका च स्यादेषिका च भवेत् स्त्रियाम् ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 त्र (wrong syllable)
genderपुंmasc.doubtful
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि तृतीयः काण्डः Śabdaratnākara 3.339 · p. 216
मूषा मूषी शाणे शाणा शाणीर्निकषवत्कषः ।कृपाण्यां कर्तरिः प्रोक्ता कर्तरी चापि, सेवनी ॥ ३३९ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 शा (wrong syllable)
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण शूद्राध्यायः Śabdaratnākara 3.5.1527 · p. 185
नाराची स्यादेषणिका शौल्बिकस्ताम्रकुटकः ।मणिकारो वैघटिकः शाणस्तु निकषः कषः ॥ १५२७ ॥
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 6 कु (wrong syllable); pāda 3, syllable 5 वै (wrong syllable)
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश शूद्राध्यायः Vaijayantī 3.9.19 · p. 137
नाराची स्यादेषणिका शाणस्तु निकषः कषः ।रोषाणस्तु घृषिर्वृष्वो हेमादिनिकषाश्मनि ॥ १९ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश गणाध्यायः Vaijayantī 5.1.47 · p. 189
तौ द्वौ माषावर्णिका स्याल्लोहितीकं त्रिमाषकम् ।शाणो मण्डः पिचूलं च माषाः स्युश्चतुरादयः ॥ ४७ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश गणाध्यायः Vaijayantī 5.1.63 · p. 191
माषशाणस्तलं मुष्टिरंजलिः प्रस्थ आढकः ।द्रोणो गोणी च खारी च क्रमादेतच्चतुर्गुणम् ॥ ६३ ॥
अनुष्टुप्
genderपुंmasc.
धरणिकोश Dharaṇikośa · धरणिदास णपादः Dharaṇikośa 14.1.4 · p. 49
स्थाणुः शिवे [स्थि]रे कीले वृष्णिर्यादवमेषयोः ।रणः स्यात्संयुगे क्काणे शाणः कषमाषचतुष्कयोः ॥
अनुष्टुप्
धरणिकोश Dharaṇikośa · धरणिदास णार्धश्लोकः Dharaṇikośa 14.2.2 · p. 50
शाणः ? कम्बललोम्नि स्याच्छाणी प्रावरणान्तरम् ।वेणी स्यात्पयसां मध्ये बन्धमेदे शिरोरुहाम् ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ णान्ताः Koṣakalpataru 6.15.4 · p. 194
झिण्ट्यां तु द्वितये द्वयोस्तु निकषे शाणः प्रदिष्टो बुधैःकर्षांशे करपत्रके नरि मतः शाणी तु वस्त्रान्तरे ।त्रायन्त्यामवनेऽन्तिमेऽथ परवत्त्राणं भवेद्रक्षितेप्राणो हृत्पवने शिशौ च कवितासारे बले चानिले ॥ ४ ॥
शार्दूलविक्रीडितम्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.1344 · p. 157
नानाजातीयशाकानां समाहार इतीतरे ।शाणस्तु निकषे पुंसि स्यादुन्मानान्तरे तथा ॥ १३४४ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.1345 · p. 157
चतुष्टये स माषाणां दाने शाणी तु सा स्त्रियाम् ।गोणीसमाख्यावपने त्रि तु स्याच्छणयोगिनि ॥ १३४५ ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश णान्ताः Śabdaratnāvalī 7.15.18 · p. 208
वेणुनृपान्तरे वंशे वाद्यभेदेऽपि पुंस्ययम् ।शाणो माषचतुष्के स्यान्निकषे लोहवस्तुनः ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 नृ (wrong syllable)
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव नानार्थवर्गः Trikāṇḍaśeṣa 3.3.140 · p. 139
कषे मासचतुष्के च शाणः शोणो नदेऽरुणे ।पक्के श्राणं यवाग्वां स्त्री श्रीपर्णं गणिकारिका ॥ १४० ॥
अनुष्टुप्

शाण as a meaning in nānārtha verses

  • कोषकल्पतरु वागरशुण्ठीमुस्तकयोस्तु नागरमिदं सम्भोगबन्धान्तरे पौरे स्याच्चतुरेऽन्यवद्गतरुजि स्याद्वागरो वारके । शाणे निर्नरके मुमुक्षुबुधयोः स्याद्भ्रामरं प्रस्तरे क्षौद्रे चाप्यथ पामरस्त्रिषु खले नीचे तथा कीर्त्तितः ॥ ३८ ॥ Koṣakalpataru 6.27.38
  • शब्दरत्नाकर भ्रमिद्यूते दरोदरः संधिः श्लेषे शाणे भ्रमिर्भ्रमः । स्फूर्च्छा तु विस्मृतौ मूर्च्छा व्याप्तिरूर्जा त्वरुंधती ॥ १७२७ ॥ Śabdaratnākara 3.7.1727
  • वैजयन्ती पट्टपट्टो नेत्रेऽपि शाणे स्यात् पिण्डिः कल्केऽपि तैलजे । पणो मूल्ये ग्लहे माने कार्षिकव्यवहारयोः ॥ ३४ ॥ Vaijayantī 6.1.34