कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

काश

kāśaपुं · masc.

In 19 kośas: 24 synonym verses, 6 as a nānārtha head word, 28 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य वनस्पतिकायः Abhidhānacintāmaṇi 4.5.132 · p. 46
काशस्त्विषीका घासस्तु यवसं तृणमर्जुनम् ।
अनुष्टुप्
genderपुंmasc.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य सामान्यकाण्डः Abhidhānacintāmaṇi 6.1462 · p. 55
स्युरुत्तरपदे प्रख्यः प्रकारः प्रतिमो निभः ।भूतरूपोपमाः काशः संनीप्रप्रतीतः परः ॥ १४६२ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 ती (wrong syllable)
genderविadj.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह वनौषधिवर्गः Amarakośa 2.4.236
नडस्तु धमनः पोटगलोऽथो काशमस्त्रियाम् ॥ १६२ ॥इक्षुगन्धा पोटगलः पुंसि भूम्नि तु बल्वजाः ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 पो (wrong syllable)
genderपुंक्लीm. n.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.191 · p. 24
घासस्तु यवसः प्रोक्तो बर्हिर्दर्भः कुथः कुशः ।उलपो वल्वजः प्रोक्त इषीका काश उच्यते ।हरिताली भवेद्दूर्वा शरो मुञ्ज इति स्मृतः ॥ १९१ ॥
अनुष्टुप्
genderपुंmasc.
ईर्ममीर्म च तुल्यं स्यात् कासः काशश्च कथ्यते ।दर्द्रुर्दर्द्रूस्तथा दद्रुर्दद्रूरपि निगद्यते ॥ १६९ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव नरादिप्रकाण्डः Kalpadrukośa 1.4.317 · p. 55
उन्नेयमथ काशः स्यात् क्षुतं क्लीबे क्षवः पुमान् ।स्त्रियां क्षुत् क्षवथुः पुंसि प्रतिश्यायः प्रतिश्ययः ॥ ३१७ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव वैश्यादिप्रकाण्डः Kalpadrukośa 1.7.367 · p. 173
कर्चूरो द्राविडः काशो जटालो गन्धमूलकः ।वेधमुख्यो गन्धसारस्तवक्षीरं तु तालजम् ॥ ३६७ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव स्त्र्यादिलिङ्गप्रकाण्डः Kalpadrukośa 3.5.189 · p. 482
कुलिशाकाशकोशानां तथा कणिशकाशयोः ।पाशाङ्कुशोष्णीषवेषाम्बरीषाणां विषस्य च ॥ १८९ ॥
अनुष्टुप्
genderपुंक्लीm. n.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.12 · p. 185
शराह्व इत्कटोऽन्यस्तु भद्रमुञ्जो दृढत्वचः ।स्याद्ब्रह्ममेखलश्चाथ काशोऽस्त्री श्वेतचामरः ॥ १२ ॥
अनुष्टुप्
genderपुंक्लीm. n.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.13 · p. 185
इक्षुपुष्पः स्वादुकन्दो दुषिका चेक्षुबालिका ।बल्वजो ना भूम्नि* स्यादुलपश्च प्रकीर्तितः ॥इक्षुः शालिः कुशः काशः शरः स्यात्तृणपञ्चकम् ।रौहिषं रोबलं(?) पूति भूतीकं कतृणं तृणम् ॥ १३ ॥
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 4 ना (syllables merged)
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ आतङ्कवर्गः Koṣakalpataru 3.3.26 · p. 308
काशस्तु कासः क्षवथुः पीनसः स्यादपीनसः ।प्रतिश्यायः प्रतिश्या स्त्री क्षुत्क्षवः क्षुतमन्तिमे ॥ २६ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ पुंनपुंसकलिङ्गाधिकारः Koṣakalpataru 4.5.70 · p. 115
भावारावशरावपल्लवशवक्लीवा अपूर्वं तथानिष्ठीवं च सदैवमर्थविषये स्वं सत्त्वमङ्गिन्यपि ।नल्वः स्याल्लवणे च सैन्धवमधो लोके तथा वाडवःपाशः कर्कशकोशवच्च कुलिशं चाकाश-काशाङ्कुशाः ॥ ७० ॥
शार्दूलविक्रीडितम्
genderपुंक्लीm. n.
निघण्टुशेष Nighaṇṭuśeṣa · हेमचन्द्र तृणकाण्डः Nighaṇṭuśeṣa 5.372 · p. 199
काशे स्यादिक्षुगन्धेक्षुकाण्डश्यामलपुष्पकाः ।वायसेक्षुः पोटगलः कासेक्षुः कोकिलाक्षकः ॥ ३७२ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 पो (wrong syllable)
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.113 · p. 66
पुण्ड्रकान्तारमुख्याः स्युस्तन्मूलं मोरटं स्मृतम् ।इषीकाकाश इत्येवमर्जुनं यवसं तृणम् ॥ ११३ ॥
अनुष्टुप्
genderपुंmasc.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट ऊर्ध्वलोकसर्गः Paryāyaśabdaratna 1.89 · p. 13
भित्तिर्हेतिः प्रभा भानुश्चरणं किरणं द्युतिः ।उमा जिह्वा दशा कीलः कोशः काशः प्रकाशनम् ॥ ८९ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि वनस्पतिकायनामानि Suśīlanāmamālā 5.5.2156 · p. 354
ईक्षोर्मूलस्य नामात्र मोरटं मन्यते बुधैः ।काशः कासमिषीका च तृणभेदोऽपि कथ्यते ॥ २१५६ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश वनौषधिवर्गप्रकाशः Śabdaratnāvalī 3.4.304 · p. 79
अस्त्री काशः पोटगलो दर्भश्चामरपुष्पकम् ।ईषिका चेक्षुगन्धा च काशको वनहासकः ॥वारणीकास्तु वनजा पुंसि भूभ्रि तु वल्वजाः ।इक्षुर्मधुर्मधुतृणं गुडदारुगुडतृणम् ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 6 ड (wrong syllable)
genderपुंक्लीm. n.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश सिंहादिवर्गप्रकाशः Śabdaratnāvalī 3.5.223 · p. 98
क्षवथुः काशकासौ च श्वयथुः शोथशोफकौ ।स्फुटी विपादिका पादस्फोटश्च स्फुटिरित्यपि ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि तृतीयः काण्डः Śabdaratnākara 3.87 · p. 195
क्षवथौ काशः कासोऽपि, खसे पामा तु पामया ।कच्छूः कच्छुः स्त्रियां सर्वे, खर्ज्वां कण्डूयनं मतम् ॥ ८७ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 शः (wrong syllable)
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि चतुर्थः काण्डः Śabdaratnākara 4.275 · p. 240
कासस्तालव्यदन्त्यान्त ईषीका स्यादिषीकया ।यवासं यवसंघातेऽर्जुने तु द्वे तृण-त्रिणे ॥ २७५ ॥
अनुष्टुप्
genderपुंmasc.doubtful
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण वनाध्यायः Śabdaratnākara 2.3.669 · p. 85
अश्ववालस्तु दर्भः स्यात् काशोऽस्त्री स्त्रीक्षुगन्धिका ।समाः काशः शरो मुञ्जो दर्भभेदे खरच्छदः ॥ ६६९ ॥
अनुष्टुप्
genderपुंक्लीm. n.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण वैश्याध्यायः Śabdaratnākara 3.4.1469 · p. 177
तृणाद्यं मूलकं दर्भकाशेक्षुशरशालिभिः ।जीरकद्वितयं हिङ्गु साजमोदं ससैन्धवम् ॥ १४६९ ॥
अनुष्टुप्
genderपुंmasc.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव वनौषधिवर्गः Trikāṇḍaśeṣa 2.4.39 · p. 42
दृक्कटो बहुमूलः स्यात्करीरे वेणुकर्करः ।काशोऽश्ववालः काकेक्षुर्वनहासश्च जन्तुला ॥ ३९ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश वनाध्यायः Vaijayantī 3.3.227 · p. 63
दर्भोऽश्ववालः काशिर्ना काशोऽस्त्री स्त्रीक्षुगन्धिका ।कुशे मुनिः कुथो दर्भो वीनाहो यज्ञजागरः ॥ २२७ ॥
अनुष्टुप्
genderपुंक्लीm. n.
धरणिकोश Dharaṇikośa · धरणिदास शार्धश्लोकः Dharaṇikośa 29.2.4 · p. 212
काशास्तृणविशेषे स्युः काशी वाराणसी पुरी ।वेशो गृहे प्रवेशे च वेश्यावासे च भूषणे ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ शान्ताः Koṣakalpataru 6.30.7 · p. 365
काशस्तृणे योषिति[ नाथ ]वा[81a]रा-णस्यां स्त्रियां स्याद्वरुणे तु केशः ।ह्रीबेरबालासुरभित्सु कीशःशाखामृगे पुंसि दिगम्बरे च ॥ ७ ॥
इन्द्रवज्राmetre not read in every line
meaningsतृण
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.193 · p. 59
बन्धने नृस्त्रियोः काशस्त्विक्षुगन्धाख्यवीरुधि ।अस्त्री स्त्रीपुंसयोः काशा दीप्तौ काशी तु सा स्त्रियाम् ॥ १९३ ॥
अनुष्टुप्
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास ककारादयः Paramānandīyanāmamālā 5.7.92 · p. 173
कल्यं मद्ये प्रभातेऽपि सावधाने निरामये ।केशोऽब्जे वरुणे वाले काशः स्यात्तृणरोगयोः ॥ ९२ ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश शान्ताः Śabdaratnāvalī 7.30.2 · p. 288
अंशुः प्रभायां किरणे आशा तृष्णादिशोः स्त्रियाम् ।आशीर्हिताशंसवे स्त्री सर्पदत्ते विषान्तरे ॥आशुर्धान्यान्तरे पुंसि शीघ्रेऽपि च नपुंसकम् ।ईशः प्रभौ महादेवे ईशा लाङ्गलदण्डके ॥काशः कासे क्षते पुंसि वाराणस्यामपि स्त्रियाम् ।अस्त्रियां तृणभेदेऽपि कण्ठकण्डूयणेऽपि च ॥
अनुष्टुप्
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण अनेकार्थाधिकाराध्यायः Śabdaratnākara 4.1.1880 · p. 229
कालः शनैश्चरेऽनेहस्यन्तकेऽत्ययवर्णयोः ।शिक्ये दृग्रुचि मृद्भेदे काचः काशः शरे त्विषि ॥ १८८० ॥
अनुष्टुप्

काश as a meaning in nānārtha verses