कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

कञ्जार

kañjāraपुं · masc.

In 3 kośas: 2 synonym verses, 3 as a nānārtha head word.

कोषकल्पतरु Koṣakalpataru · विश्वनाथ व्योमवर्गः Koṣakalpataru 1.3.33 · p. 30
पपीर्जिष्णुर्जगत्साक्षी गभस्तिर्गगनध्वजः ।मन्देहारिर्दृशान[?]श्च कञ्जारो गगनाध्वगः ॥ ३३ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.11 · p. 199
सितपत्रः सितापाङ्गो नीलकण्ठो भुजङ्गभुक् ।कञ्जार-शिखि-मेनाद-मेघनादानुलासिनः ॥ ११ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ रान्ताः Koṣakalpataru 6.27.52 · p. 325
[57b] सोपाने च तथैव हस्तिनखके शालारमुक्तं बुधैःकञ्जारो रविधातृहस्तिषु मुनौ कुक्षौ मयूरेऽपि च ।कोषाम्भोनिधिपारगैस्तु कनकालौ पुंसि विज्ञैर्मतोभृङ्गारोऽप्यथ स स्त्रियां निगदितो ज्ञैर्झिल्लिकायामपि ॥ ५२ ॥
शार्दूलविक्रीडितम्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.361 · p. 77
कञ्जारो ना गृहे गूढे मणौ कश्चिदथ त्रिषु ।अशोभनेऽथ कवटं क्लीबमुच्छिष्टमिः सयोः ॥ ३६१ ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश रेफान्ताः Śabdaratnāvalī 7.27.60 · p. 269
शबले वाच्यलिङ्गं स्यात्कृष्णवृन्तासु स्त्रियाम् ।कर्परः स्यात्कटाहे च कपालशस्त्रभेदयोः ॥कन्धरः स्याज्जलधरे ग्रीवायां कन्धरा स्त्रियाम् ।कञ्जारो भास्करे कुक्षौ मुनौ वेधसि वारणे ॥करीरो ना घटे वृक्षे तथा वंशाङ्कुरेऽस्त्रियाम् ।करीरा चीरिकायां स्त्री दन्तमूले च हस्तिनाम् ॥
metre not recognisednearly अनुष्टुप्: pāda 4, syllable 3 ल (wrong syllable)