कुक्षि
kukṣiपुं · masc.In 19 kośas: 19 synonym verses, 3 as a nānārtha head word, 25 as a meaning of another word.
तुन्दं तुन्दिर्गर्भकुक्षी पिचण्डो जठरोदरे ।
अनुष्टुप्
genderपुंmasc.
पिचण्डकुक्षी जठरोदरं तुन्दं स्तनौ कुचौ ।
अनुष्टुप्
genderपुंmasc.
जानुः स्यादष्ठीवान् प्रसृता जङ्घा च घुण्टको गुल्फः ।ऊरुः सक्थि पिचण्डं जठरोदरतुन्दकुक्षिगर्भाः स्युः ॥ ५१५ ॥
गीतिः
genderपुंmasc.
नरि वा चूचुकं चाथो तुन्दिस्तुन्दा पिचण्डकः ।स्त्रियां कुक्षी द्वयोः कुक्षिः पिचिण्डो जठरोऽस्त्रियाम् ॥ १९५ ॥
अनुष्टुप्
genderपुंस्त्रीm. f.
उदरं चापि तुन्दश्च मलुकश्च पुमानयम् ।त्रिषु लोमलताधारः कुक्षी उदरपार्श्वगे ॥ १९६ ॥
अनुष्टुप्
genderपुंस्त्रीm. f.
रोमावली रोमलता शिखरिण्युदरं पुनः ।उदलं जाठरं तुन्दं कुक्षि-कुक्षौ च गर्भकः ॥पिचण्डं जठरो न स्त्री तुन्दिः स्यात्तत्र च स्त्रियाम् ।कृपीटं कालखण्डं तु कालखञ्जं च कालकम् ॥यकृत्कालेयकमथ तिलकं क्लोम दक्षिणे ॥ ७० ॥
अनुष्टुप्
genderपुंmasc.
ऊर्मिश्च ध्वनिश्च अञ्जलिश्च ऊर्म्मिध्वन्यञ्जलयः । एते शब्दाः पुंसि भवन्ति । अयमूर्म्मिस्तरङ्गः । अयं ध्वनिः शब्दः ।अयमञ्जलिः करपुटः । ओष्ठकपोलगुल्फसञ्ज्ञाश्च । सञ्ज्ञाशब्दः प्रत्येकमभिसम्बध्यते । ओष्ठश्च कपोलश्च गुल्फश्च ओष्ठकपोलगुल्फाः । एतेषां सञ्ज्ञाः पर्यायास्ते पुंसि भवन्ति । अयमोष्ठः अधरः दन्तच्छदः । अयं कपोलः गण्ड इत्येवमादयः । अयं गुल्फः पादग्रन्थिः घुठः घूंठ इत्येवमादयः । घञ्च एरच्च ऋदोरप्च । "पदरुजवेगस्पृशो घञि"त्येवमादिना प्रकरणे घञो विहित इति । "येन विधिस्तदन्तस्ये"ति घञ्प्रत्ययान्ताः शब्दाः पुंसि भवन्ति । तद्यथा । पादः रोगः वेगः स्पर्शः पाकः त्यागः योगः प्रसादः भेदः छेदः दाहः दोषः प्रकारविकार इत्येवमादयः । "एरजि"ति । एरजीवर्णान्तादच्प्रत्ययः स्यात् । अयं जयः नयः । तथा "ऋदोरप्" । ऋवर्णान्तादुवर्णान्ताच्च धातोरप्प्रत्ययः स्यात् । तत्र ऋवर्णान्तात् । अयं करः वरः भरः शरः नरः । इत्येवमादयः । उवर्णान्तात् । अयं प्लवः पवः भवः इत्येवमादयः । घञन्तादन्धकारशब्दस्यापि नित्यं पुंस्त्वं स्यादित्याह । बहुलमन्धकारश्च । अन्धकारो बहुलं पुंलिङ्गे भवति । विभाषा भवतीत्यर्थः । इदं अन्धकारम् । अयं अन्धकारः । तथा चोक्तम् । "नेहागमोऽस्ति शलभस्य न मारुतस्य स्नेहक्षयोऽपि न भवेत्प्रथमे प्रदोषे । अव्यक्तवस्तुपुरुषप्रतिबोधितेन पारावतेन पतता कृतमन्धकारम् ।"प्राण्यङ्गमिदन्तं वस्तिकुक्षिपाणीन्विमुच्य सर्वं स्त्री ।जङ्घा शिरा स्नुषा नासिका चूडा वसा चैव ॥ १७ ॥
वसन्ततिलकाmetre not read in every line
ऊर्मिपुंतरङ्गपुंध्वनिपुंशब्दपुंअञ्जलिपुंकरपुटपुंओष्ठपुंअधरपुंदन्तच्छदपुंकपोलपुंगण्डपुंगुल्फपुंपादग्रन्थिपुंघुठपुंघूंठपुंपादपुंरोगपुंवेगपुंस्पर्शपुंपाकपुंत्यागपुंयोगपुंप्रसादपुंभेदपुंछेदपुंदाहपुंदोषपुंप्रकारपुंविकारपुंजयपुंनयपुंकरपुंवरपुंभरपुंशरपुंनरपुंप्लवपुंपवपुंभवपुंअन्धकारपुंक्लीवस्तिपुंकुक्षिपुंपाणिपुंजङ्घास्त्रीशिरास्त्रीस्नुषास्त्रीनासिकास्त्रीचूडास्त्रीवसास्त्री
genderपुंmasc.
प्राणो नाम वायुः सोऽस्यास्तीति प्राणी तस्याङ्गं प्राण्यङ्ग इकारः अन्ते यस्य तदिदन्तम् । तत्सर्वं स्त्रीलिङ्गं भवति । तद्यथा । इयं कटिः श्रोणिः अङ्गुलिः पङ्क्तिरित्यादि वस्तिकुक्षिपाणीनामपीदन्तत्वाच्च स्त्रीत्वे प्राप्ते बाधः क्रियते । एतान्विमुच्य वर्जयित्वेत्यर्थः । पुंसीत्यधिकारात्तेषां पुंस्त्वमेव भवति । अयं वस्तिः नाभेरधः । अयं कुक्षिरुदरस्थानम् । अयं पाणिर्हस्त इति । जङ्घादयः शब्दाः स्त्रियां भवन्ति । इयं जङ्घा जानुनोरधस्तात् । पादस्योपरिस्था च । इयं शिरा देहधारिणी । इयं स्नुषा पुत्रवधूः ।इयं नासिका गन्धहारिणी । इयं चूडा शिखा । इयं वसा शोणितविकारः स्नेहश्च ।स्रक्स्रुक्स्फिक्त्वग्वाग्योषितो हि विद्यात्स्त्रियां द्युनावौ च ।दीधितिमेकां[का] मुक्त्वा रश्म्यभिधानं तु पुंस्येव ॥ १८ ॥
metre not recognised
genderपुंmasc.
नासा घ्राणम् उरो वक्षः कुक्षिः स्याज्जठरोदरम् ।स्तनः पयोधरकुचौ वक्षोज इति वर्णितः ॥ १०२ ॥
अनुष्टुप्
genderपुंmasc.
जठरं पिट्टकुक्षी चोदरं ? तुन्दं समं मतम् ।पिचण्डो गर्भतुन्दी तु कालखञ्जं तु कालकम् ॥ २६३ ॥
अनुष्टुप्
genderपुंmasc.
कुल्माषमाधवौ पक्षराशिदुन्दुभिरालयः ।निष्कुहः कलहो ज्ञातिपाणिवृष्ण्यविकुक्ष्यः ॥ २७ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderपुंmasc.
रोमावली रोमराजी रोमसृक् त्रिवलिर्वलिः ।जठरं कुक्षिरुदरं पार्श्वमुभयपक्षकम् ॥ ८९ ॥
metre not recognisednearly अनुष्टुप्: pāda 4, syllable 2 र्श्व (wrong syllable)
genderपुंmasc.
स्तनौ कुचावुरोजौ च वक्षोजौ च पयोधरौ ।उदरं जठरं तुन्दं पिचण्डः कुक्षिरेव च ॥ ३८ ॥
अनुष्टुप्
genderपुंmasc.
पिचण्डो मलुकः कुक्षिः गर्भश्च जठरोदरे ।तुन्दं रोमलताधारः तुन्दिश्च कथ्यते बुधैः ॥ ९७३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 श्च (wrong syllable)
genderपुंmasc.
मेरुदण्डः पृष्ठवंशस्तस्यैवाधो भवेत्त्रिकम् ।उदरं जठरं कुक्षिपिचिण्डौ तुन्दमित्यपि ॥
अनुष्टुप्
genderपुंmasc.
तुन्दं तुन्दिः कुक्ष-कुक्षी, यक्नि कालेय-कालके ।कालखण्डं कालखञ्जं, गुल्मे प्लीहा प्लिहा तथा ॥ १७९ ॥
अनुष्टुप्
genderपुंmasc.
चरमं वपुषः पृष्ठं पिचण्डजठरोदरम् ।तुन्दं कुक्षिर्न ना क्रोडं वत्सो वक्ष उरः समे ॥ १०६८ ॥
अनुष्टुप्
genderपुंmasc.
कुक्षिस्तु जठराधारे ॥ १४८ ॥
genderपुंmasc.
पुंस्त्वे हाहा हूहू-र्ग्रन्थिः पाणिः कलिर्दृतिर्मौलि ।अञ्जलिङ्घ्रिः कुक्षिर्लावकलोकोत्तरासङ्गाः ॥ २ ॥
metre not recognised
genderपुंmasc.
कुक्षिस्तुन्देऽन्तरुदरपार्श्वयोरपि दृश्यते ।इक्ष्वाकोः पूर्वराजस्य पुत्रे कस्मिंश्चिदप्यसौ ॥ ३४ ॥
अनुष्टुप्
त्रिष्वन्तःकुक्षि कोष्ठोऽस्त्री कुसूलेऽन्तर्गृहे पदे ।कूर्चमस्त्री कुशे पीठे भ्रूमध्यश्मश्रुणोरपि ॥ १८९९ ॥
अनुष्टुप्
meaningsअन्तर्
कुक्षि as a meaning in nānārtha verses
- नामलिङ्गानुशासनम् गर्भकुक्षिभ्रूणार्भका गर्भा विस्रम्भः प्रणयेऽपि च ॥ १३५ ॥ Amarakośa 3.3.135
- धरणिकोश कोष्ठकोष्ठं कुक्षौ कुशूले च कोष्ठमभ्यन्तरेऽपि च । पृष्ठश्चरममात्रे स्याच्छरीरावयवान्तरे ॥ Dharaṇikośa 11.2.2
- कोषकल्पतरु कोष्ठपृष्ठं तु चरममात्रे स्तोमविशेषे च देहाङ्गे । अथ मध्येगृहकुक्ष्योः कोष्ठः स्वीये कुसूले च ॥ ५५ ॥ Koṣakalpataru 6.11.55
- कोषकल्पतरु रत्नज्ञाने स्थिते विन्नमुशन्ति लब्धे रत्नं तु कुक्षौ सलिले द्वयोनम् । सर्वार्थकं तत्त्रिषु वाच्यवत्तु छिन्नं च भिन्नेऽथ सुधालतायाम् ॥ ९६ ॥ Koṣakalpataru 6.21.96
- कोषकल्पतरु जठरत्रय्यां कठोरे पिठरस्तु दण्डे मन्थोखयोः स्यात्त्रिषु मुस्तके च । कुक्षौ तु न स्त्री जठरोऽन्यवत्तु बद्धे कठोरे च बुधैः प्रदिष्टः ॥ ९३ ॥ Koṣakalpataru 6.27.93
- कोषकल्पतरु उदरमल्लीविभेदे द्वितयेऽथ युद्धे कुक्षौ तथान्त्येऽप्युदरं वदन्ति । जवे प्रणीतौ प्रसरश्च युद्धे ऽथो मत्सरत्वे रुषि मत्सरः स्यात् ॥ १ ॥ Koṣakalpataru 6.27.1
- कोषकल्पतरु कञ्जार[57b] सोपाने च तथैव हस्तिनखके शालारमुक्तं बुधैः कञ्जारो रविधातृहस्तिषु मुनौ कुक्षौ मयूरेऽपि च । कोषाम्भोनिधिपारगैस्तु कनकालौ पुंसि विज्ञैर्मतो भृङ्गारोऽप्यथ स स्त्रियां निगदितो ज्ञैर्झिल्लिकायामपि ॥ ५२ ॥ Koṣakalpataru 6.27.52
- नानार्थार्णवसंक्षेप क्षयक्षवस्तु राजिकासंज्ञसर्षपे क्षवथावपि । क्षयस्त्वपचये कुक्षौ कल्पान्ते राजयक्ष्मणि ॥ २१ ॥ Nānārthārṇavasaṃkṣepa 2.2.21
- नानार्थार्णवसंक्षेप गर्भरश्मौ तुरङ्गमस्याथ गर्भोऽपवरकालये । अन्नेऽग्नौ कुक्षिकुक्षिस्थजन्त्वोः पनसकण्टके ॥ ३९ ॥ Nānārthārṇavasaṃkṣepa 2.2.39
- नानार्थार्णवसंक्षेप शुष्णअल्पे स्त्रीपुंसयोस्तु स्याच्छोषणे शुष्णवाक् तु ना । अर्के कश्चित्तु रश्मौ च ब्रूते कुक्षिनिदाघयोः ॥ १३९३ ॥ Nānārthārṇavasaṃkṣepa 2.5.1393
- नानार्थार्णवसंक्षेप जठरजठरः कठिने जीर्णे कुक्षौ च ज्वलितं पुनः । दीप्ते च ज्वलिते चाथ डिङ्गरो क्षेप्यगङ्गरौ ॥ २३ ॥ Nānārthārṇavasaṃkṣepa 3.4.23
- परमानन्दीयनाममाला कोष्ठकोष्ठं कुशूलके कुक्षौ कूलं सैन्ये तटेऽपि च । केतुर्दीप्तौ पताकायां कलङ्के च ग्रहान्तरे ॥ १०७ ॥ Paramānandīyanāmamālā 5.7.107
- परमानन्दीयनाममाला गर्भगर्भः कुक्षौ बले संधौ ग्रामः संवसथे स्वरे । गणः सैन्यान्तरे पूगे संख्यायां प्रथमे तथा ॥ १५८ ॥ Paramānandīyanāmamālā 5.9.158
- परमानन्दीयनाममाला जठरफेरौ पाशिन्यथाख्यातो जीमूतो गिरिमेघयोः । जठरं तु कठोरे स्याच्चित्ते कुक्षौ दुमान्तरे ॥ २०७ ॥ Paramānandīyanāmamālā 5.13.207
- शब्दरत्नावली कबन्धजले क्लीबं पुंसि कुक्षौ राहौ च राक्षसान्तरे । दुर्विधः पिशुने मूर्खे दुर्गते वाच्यलिङ्गकः ॥ Śabdaratnāvalī 7.19.27
- शब्दरत्नावली कृत्स्नअग्निश्चिताख्यकोषध्यां वीतिहोत्रे भवेत्पुमान् । अन्नं भक्ते च भुक्ते स्यादिनः सूर्ये नृपे प्रिये । उन्नञ्च सुरते क्लिन्ने कृत्स्नं सर्वाम्बुकुक्षिषु ॥ Śabdaratnāvalī 7.20.2
- शब्दरत्नावली गर्भगर्भः कुक्षौ शिशौ सन्धौ भ्रूणे पनसकन्टके । जम्भो दन्तशठे दन्ते दैत्यभेदे च भक्षणे ॥ Śabdaratnāvalī 7.24.5
- शब्दरत्नावली कञ्जारशबले वाच्यलिङ्गं स्यात्कृष्णवृन्तासु स्त्रियाम् । कर्परः स्यात्कटाहे च कपालशस्त्रभेदयोः ॥ कन्धरः स्याज्जलधरे ग्रीवायां कन्धरा स्त्रियाम् । कञ्जारो भास्करे कुक्षौ मुनौ वेधसि वारणे ॥ करीरो ना घटे वृक्षे तथा वंशाङ्कुरेऽस्त्रियाम् । करीरा चीरिकायां स्त्री दन्तमूले च हस्तिनाम् ॥ Śabdaratnāvalī 7.27.60
- शब्दरत्नावली जठरजठरोऽस्त्री भवेत्कुक्षौ त्रिषु बद्धे च कक्खटे । जर्जरं शैवले शक्रध्वजे त्रिषु जरातुरे ॥ Śabdaratnāvalī 7.27.74
- शब्दरत्नाकर क्रोडवराहे वक्षसि क्रोडः क्रोडमुत्सङ्गकुक्षिणोः । कल्पान्तेऽपचये वासे करिपादांशके क्षयः ॥ १८९० ॥ Śabdaratnākara 4.1.1890
- शब्दरत्नाकर गर्भशास्त्रे श्लोके श्रुतौ ग्रन्थो ग्रन्थिः परुषि बन्धने । गर्भस्तु कुक्षौ कुक्षिस्थजन्तौ पनसकण्टके ॥ १९०९ ॥ Śabdaratnākara 4.1.1909
- शब्दार्णव गर्भगर्भोऽपवरकेऽन्तस्थे गर्भोऽग्नौ कुक्षिणोऽर्भके ॥ २१५ ॥ Śabdārṇava 215
- वैजयन्ती क्षयक्रतू अध्वरसंकल्पौ कल्पान्तेऽपचये क्षयः । कुक्षौ वासे च कच्छस्तु पार्श्वे गुह्यांबरे तटे ॥ १४ ॥ Vaijayantī 6.1.14
- वैजयन्ती गर्भकुक्षौ कुक्षिस्थजन्तौ च गंधो लेशे महीगुणे । घृणिर्ज्वालांशुवीचीषु चरुः स्थाल्यां हविष्यपि ॥ २२ ॥ Vaijayantī 6.1.22
- वैजयन्ती पिचण्डरुग्भङ्गबाणाः प्रदराः श्रेष्ठोक्षाणौ तु पुङ्गवौ । पिशाचौ सत्त्वमार्जारौ पिचण्डः कुक्षिशय्ययोः ॥ ५७ ॥ Vaijayantī 7.1.57