गृह
gṛhaक्ली · neut.In 20 kośas: 36 synonym verses, 8 as a nānārtha head word, 92 as a meaning of another word.
सुवासिनी वधूटी स्याच्चिरिण्ट्यथ सधर्मिणी ।पत्नी सहचरी पाणिगृहीती गृहिणी गृहाः ॥ ५१२ ॥दारा क्षेत्रं वधूर्भार्या जनी जाया परिग्रहः ।द्वितीयोढा कलत्रं च पुरंध्री तु कुटुम्बिनी ॥ ५१३ ॥
अनुष्टुप्
genderपुंmasc.
गेहभूर्वास्तु गेहे तु गृहं वेश्म निकेतनम् ॥ ९८९ ॥मन्दिरं सदनं सद्म निकाय्यो भवनं कुटः ।आलयो निलयः शाला सभोदवसितं कुलम् ॥ ९९० ॥धिष्ण्यमावसथं स्थानं पस्त्यं संस्त्याय आश्रयः ।ओको निवास आवासो वसतिः शरणं क्षयः ॥ ९९१ ॥धामागारं निशान्तं च कुट्टिमं त्वस्य बद्धभूः ।
अनुष्टुप्
genderक्लीneut.
गृहं गेहोदवसितं वेश्म सद्म निकेतनम् ॥ ४ ॥निशान्तवस्त्यसदनं भवनागारमन्दिरम् ।गृहाः पुंसि च भूम्न्येव निकाय्यनिलयालयाः ॥ ५ ॥
अनुष्टुप्
genderपुंक्लीm. n.
आवासावसथं गृहं च भवनं स्थानं निशान्तं कुलं,संस्त्यायो निलयो निकाय्यमुटजं गेहं कुटं मन्दिरम् ।धिष्ण्यं धाम निकेतनं च सदनं पस्त्यं च वास्तु क्षयःशाला वेश्म निवेशनोदवसिते प्रोक्ते च सद्मौकसी ॥ २९१ ॥
शार्दूलविक्रीडितम्
genderक्लीneut.
दाराः क्षेत्रं कलत्रं च भार्या सहचरी वधूः ।सधर्मचारिणी पत्नी जाया च गृहिणी गृहाः ॥ ४९४ ॥
अनुष्टुप्
genderपुंmasc.
आगारं स्यादगारं च बस्त्यं पस्त्यमुभे समे ।ओकः सान्तमदन्तोऽपि ओको गेहं गृहं भवेत् ॥ ८१ ॥
अनुष्टुप्
genderक्लीneut.
आलयं भुवनं गेहं गृहं क्षेत्रं च मन्दिरम् ॥ ५२ ॥
genderक्लीneut.
गृहं निकेतं निलयमालयं पुन्नपुंसकम् ।द्वयोः कुटी कुटीरो ना वेश आवसथः क्षयः ॥ ३७ ॥
अनुष्टुप्
genderपुंक्लीm. n.
तिला नागस्तथा दासी रथः पृथ्वी गृहा अपि ।कन्या धेनुश्च कपिला दानान्येतानि वै दश ॥ १०५ ॥
अनुष्टुप्
genderपुंmasc.
निर्यासांसोपवासानां मांसवीतंसयोरपि ।चमसांसयोश्च गेहस्य निवहस्य गृहस्य च ॥ १९२ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderपुंक्लीm. n.
वासो निवासो निलयो निवेशःक्षयो निकाय्यावसथाश्रयाश्च ।प्राणन्त(?) आवास इहा[9a]लयः स्यात्संस्त्याय उक्तोऽत्र गृहा नृभूम्नि ॥ ३२ ॥
उपजातिःmetre not read in every line
genderपुंmasc.
आगारं स्यादुदवसितमगारं गृहं चोक्तमोकोवस्त्यं पस्त्यं सदन-शरणे सादनं धाम धामम् ।धिष्ण्यं धर्त्रं विशिपकुलयुक् समवाश्रं च (?) घरं स्याद्--वेश्याथास्मिन्मणिविरचिते न स्त्रियां कुट्टिमः स्यात् ॥ ३४ ॥
metre not recognisednearly मन्दाक्रान्ता
genderक्लीneut.
भार्या जाया च गृहिणी द्वितीयोढा जनी वधूः ।क्षेत्रं परिग्रहो भूम्नि दाराः पुंसि गृहा गृहम् ॥ १३ ॥
अनुष्टुप्
genderपुंक्लीm. n.
बर्हिर्दर्भेऽथ तमो राहौ वीर्ये सहो धनुश्चापे ।स्नेहो गेहो लोहो *हो बर्हो गृहं पटहः ॥ ७४ ॥
metre not recognised
genderपुंक्लीm. n.
भार्या जाया जनिः कुल्या कलत्रं गेहिनी गृहम् ।महिला मानिनी पत्नी तथा दाराः पुरन्ध्रयः ॥ ३२ ॥
अनुष्टुप्
genderक्लीneut.
सदनं सद्म भवनं धिष्ण्यं वेश्माथ मन्दिरम् ।गेहं निकेतनागारं निशान्तं निवृतं गृहम् ॥ १३२ ॥
अनुष्टुप्
genderक्लीneut.
मार्गत्रयं च शृङ्गाटं चत्वरं बहुपथं स्मृतम् ।मन्दिरं सदनं गेहं गृहं सद्म निकेतनम् ॥ २७० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderक्लीneut.
अगारं शरणं पस्त्यं संस्त्यायावसथावपि ।स्थानौकसी गृहा भूम्नि क्षयकूटौ तथा कुलम् ॥ २७२ ॥
अनुष्टुप्
genderपुंmasc.
वधूटी च चिरण्टी स्यात्सुवासिन्यपि कथ्यते ।पत्नी पाणिग्रहीत्री तु गृहा दाराश्च भूमनि ॥ १७८ ॥
अनुष्टुप्
genderपुंmasc.
वीतंसमासं चमसांसकांसाःकर्पासमाकाशमथोपवासः ।बुसेत्थुसेचिक्कसगेहचाटुतनूरुहं देहगृहेऽथ बर्हः ॥ १६३ ॥
उपजातिः
genderपुंक्लीm. n.
फलं च फलकश्चर्म संगृही संग्रहोऽपि च ।गृहश्च संगृहश्चापि चर्ममुष्टौ प्रकीर्तितौ ॥ ३६५ ॥
अनुष्टुप्
genderपुंmasc.
आपणो विपणिः पण्यवीथिका हट्टकोऽट्टकः ।पल्लीग्रामो गृहं गेहं वेश्म सद्म निकेतनम् ॥ ७ ॥
अनुष्टुप्
genderक्लीneut.
वामा तनूदरी श्यामा योषित् पत्नी प्रियाऽबला ।महिला मानिनी भार्य्या बाला प्रणयिनी गृहम् ॥ ३८ ॥
अनुष्टुप्
genderक्लीneut.
भार्या सहचरी पत्नी वल्लभा प्रेयसी प्रिया ।कान्ता जाया जनी जानिर्गृहं दाराः परिग्रहः ॥ ८ ॥
अनुष्टुप्
genderक्लीneut.
मन्दिरं सदनं सद्म निलयो भवनं गृहम् ।ओको निवास आवासो धिष्ण्यं धाम निकेतनम् ॥ ६८ ॥
अनुष्टुप्
genderक्लीneut.
अगारञ्च गृहं गेहं सदनं सद्म मन्दिरम् ॥ १६९६ ॥
अनुष्टुप्
genderक्लीneut.
गृहं सदनमागारमगारञ्च निकेतनम् ।गेहोदवसितं वस्त्यं निशान्तं वेश्म केतनम् ॥
अनुष्टुप्
genderक्लीneut.
स्यान्निकाय्यो निवसनं केतो भवनमन्दिरम् ।आलयश्च गृहाः पुंसि भूम्नि कूटो द्वयोः सभा ॥
अनुष्टुप्
genderपुंmasc.
गृहं गेहं धाम धामं मन्दिरं मन्दिरा कुटिः ।कुटः कुट्योकः सान्तं षण् पुंस्योकोऽदन्त उच्यते ॥ ३४ ॥
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 5 कः (wrong syllable)
genderक्लीneut.
पूर्द्वाःकूटं हस्तिनखः पुरद्वारं तु गोपुरम् ।गृहमुदवसितं निकेतमोकः शरणमगोरनिशान्तधाम वस्त्यम् ॥ ८४१ ॥
अनुष्टुप्two metres in one verse
genderक्लीneut.
गृहाः पुंभूम्नि संस्त्यायो निकाय्यो निलयालयौ ।क्षयो वासः कूटमस्त्री शालाथ मुनिवेश्मनि ॥ ८४३ ॥
अनुष्टुप्
genderपुंmasc.
ओको गृह पिटं चालो वडमी चन्द्रशालिका ।कूटागारं चाथ कपिशीर्षं घोटकशीर्षकम् ॥ २ ॥
अनुष्टुप्
genderक्लीneut.
क्लीबे कलत्रविषबीजकुटुम्बरत्नतल्पोक्थकुङ्कुमप्रवीणतृणाक्षराणि ।शृङ्गादपीठगृहभेषजपृष्ठकिण्वदैवाण्डभाण्डचिवुकोडुपसाहसानि ॥ ६ ॥
वसन्ततिलकाmetre not read in every line
genderक्लीneut.
गोमयकुमुदबिम्बशङ्खाश्रमशैलसुवर्णतोरणाः ।नूपुरशिखरतूर्यनिर्य्यासगृहाङ्कुशबर्हिपल्लवाः ॥ ९ ॥
metre not recognised
genderपुंक्लीm. n.
न नोदवसितं न स्त्री गेहं पुंभूम्नि वा गृहम् ।महाकीर्तनमोकश्च केतरं केतनं क्षयः ॥ १९ ॥
अनुष्टुप्
genderक्लीneut.
सधर्मचारिणी पाणिगृहीती पालुषी वधूः ।पत्नी क्षेत्रं कलत्रं च गृहाः पुंभूम्नि दारवत् ॥ ३५ ॥
अनुष्टुप्
genderपुंmasc.
वहो वाहे गवां स्कन्धे गृहा दारा गृ[107]हा गृहम् ।वैदेही पिप्पली सीता वाराही च महौषधी ।निरूहः स्नेहने तर्के कलहः कलियुद्धयोः ॥
अनुष्टुप्
meaningsदार
न स्त्री बर्हं पत्रे मयूर पिच्छे परिच्छदे पुंसि ।पुंसि क्लीबे च गृहाः पत्न्यां प्रायो बहुत्वे स्युः ॥ ३७ ॥
metre not recognised
meaningsपत्नी
गेहेऽथ ग्राहः स्यादवहारे स्याद्ग्रहे पुंसि ।नाहः कूटे बन्धे स्नेहोऽस्त्री सौहृदे तैले ।स्नेहुश्चन्द्रे रोगेऽथ रणे प्राह प्रहारे च ॥ ३८ ॥
metre not recognised
meaningsगेह
doubtful
गृहं क्लीबेऽपि नप्त्वेव मेषप्रभृतिराशिषु ।विशेषाल्लग्नतस्तुर्ये राशौ साव्वँत्सरा विदुः ॥ ३६२ ॥
अनुष्टुप्
औपासनाग्नौ शैलेयेऽप्यथ गृह्यं नपुंसके ।स्मार्तकर्मविधिग्रन्थभेदे त्रिस्त्वस्वतन्त्रके ॥ ३६३ ॥
अनुष्टुप्
गृह as a meaning in nānārtha verses
- नामलिङ्गानुशासनम् शरणशरणं गृहरक्षित्रोः श्रीपर्णं कमलेऽपि च । Amarakośa 3.3.104
- नामलिङ्गानुशासनम् धामन्गृहदेहत्विट्प्रभावा धामान्यथ चतुष्पथे । सन्निवेशे च संस्थानं लक्ष्म चिह्नप्रधानयोः ॥ १२४ ॥ Amarakośa 3.3.124
- नामलिङ्गानुशासनम् धिष्र्यधिष्ण्यं स्थाने गृहे भेऽग्नौ भाग्यं कर्म शुभाशुभम् ॥ १५५ ॥ Amarakośa 3.3.155
- नामलिङ्गानुशासनम् कुलकुलं गृहेऽपि तालाङ्के कुबेरे चैककुण्डलः ॥ Amarakośa 3.3.388
- धरणिकोश शरणचरणोऽङ्घ्रौ बह्वृचादौ च चरणं भ्रमणे दले । शरणं गृहरक्षित्रोः शरणं रक्षणे वधे ॥ Dharaṇikośa 14.2.20
- धरणिकोश पणपणो माने वराटानां मूल्ये कार्षापणे धने । द्यूते विक्रय्यशाकादेर्बद्धमुष्टौ भृतौ गृहे ॥ Dharaṇikośa 14.3.2
- धरणिकोश सद्मन्लक्ष्म चिह्ने प्रधाने च प्रेम स्निग्धत्वनर्मणोः । सद्म जले गृहे च स्याद्वर्त्म नेत्रच्छदेऽध्वनि ॥ Dharaṇikośa 19.1.7
- धरणिकोश अवरोधनअवरोधनमवरोधो राज्ञामन्तःपुरं गृहम् । अपसर्जनमाख्यातं दाने संपरिवर्जने ॥ Dharaṇikośa 19.2.92
- धरणिकोश सभानाभी प्राण्यङ्गराजन्यौ चक्रान्तचक्रवर्तिनौ । सभा सभ्याः सभा गोष्ठी सभा द्यूतं सभा गृहम् ॥ Dharaṇikośa 23.2.2
- धरणिकोश मन्दिरभ्रामरं मधुनि गाव्णि मन्दिरं नगरे गृहे । तिमिरं ध्वान्ताक्षिरुजोरुद्धार उद्धृतावृणे ॥ Dharaṇikośa 26.1.20
- धरणिकोश सर्वतोभद्रसर्वतोभद्र इत्येष गृहश्लोकविशेषयोः । निम्बेऽपि सर्वतोभद्रा गम्भारी च प्रकीर्तिता ॥ Dharaṇikośa 26.3.50
- धरणिकोश कुलकुलं सजातीयगणे गोत्रे जनपदे गृहे । पुलं विपुलमाख्यातं पुलः पुलक इष्यते ॥ Dharaṇikośa 27.2.2
- धरणिकोश वेशकाशास्तृणविशेषे स्युः काशी वाराणसी पुरी । वेशो गृहे प्रवेशे च वेश्यावासे च भूषणे ॥ Dharaṇikośa 29.2.4
- कल्पद्रुकोशः कुटस्याद्वाणपिप्पलौ वृक्षे नाभिर्वृन्ते तु वर्ष्मणः । बलिरर्थविशेषेऽपि प्रधिर्नेमौ कुटो गृहे ॥ ११० ॥ Kalpadrukośa 3.5.110
- कोषकल्पतरु शरणस्याच्छून्योषरयोस्त्रिलिङ्गमिरिणं क्लीबे तु नित्यं गृहे त्राणे त्रातरि हिंसने च शरणं स्याद्वारिपर्ण्यां पुनः । क्लीबे कत्तृणमीरितं तृणभिदि त्राणे पुनर्यन्त्रणं न स्यात्पुंसि च बन्धने नियमनेऽथो मुद्गरे ब्रह्मणि ॥ २१ ॥ Koṣakalpataru 6.15.21
- कोषकल्पतरु निवातसंनाहेऽतिदृढे गृ[295a]हे च गदितो न स्त्री निवातोऽन्यव- द्वातोनेऽथ हरौ च शेषभुजगेऽनन्तः पुमान्खेऽन्तिमे । दूर्वाभूम्यमृतासु गोपतनयाग्निज्वालिकालाङ्गली- षूक्तः स्त्री खगभेदभासखगमेषूक्तः शकुन्तः पुमान् ॥ १८ ॥ Koṣakalpataru 6.16.18
- कोषकल्पतरु काननव्यासे कर्णे कन्यकानन्दने च कानीनः स्यात्काननं स्याद्गृहेऽपि । धातुर्वक्त्रे स्याद्वने काञ्चनस्तु चाम्पेये स्याच्चम्पके काञ्चनारे ॥ ६४ ॥ Koṣakalpataru 6.21.64
- कोषकल्पतरु धामन्[19a]पक्ष्मास्त्रियां लोचनलोम्नि सूक्ष्म- तत्त्वादि[अं?]शे पि च केसरे च । चिह्ने प्रधानेऽपि च लक्ष्म धाम स्थाने गृहे जन्मनि च प्रभावे ॥ ९१ ॥ Koṣakalpataru 6.21.91
- कोषकल्पतरु किर्मीकिर्मी पलाशे गृहहेमपुत्र्योः स्त्रियां तदेनेहसि पुंसि सर्मः । ऊर्मिर्द्वयोर्वेगतरंगभङ्ग- प्रकाशलेखार्तिषु वेदनायाम् । स्याद्वस्त्रसंकोचन उत्कतायां कृमिः क्रिमिर्ना जतुकासु कीटे ॥ ७३ ॥ Koṣakalpataru 6.25.73
- कोषकल्पतरु निकायआचारे शपथे मतौ च समयः सिद्धान्तनिर्देशयोः भाषायां कृतिकारके निगदितः सङ्केतवाची तथा । काले योषिति [40a]नाथ लक्षगृहयोरेकार्थमाजिव्रजे स्यादेकीकरणे च संहतिमतां तद्वत्परात्मन्यपि ॥ ६२ ॥ Koṣakalpataru 6.26.62
- कोषकल्पतरु निकाय्यआहुः पुंसि निकायमप्यथ गृहे पद्मे निकाय्यो व्रजे तार्क्ष्ये किं च परात्मनीह कथितोऽथ क्षेत्रियः सम्मतः । क्षेत्रोद्भूततृणेऽन्यदारनिरते साध्येतरस्मिन्गदे निर्यासे तु विलेपने च तुवरेऽप्यस्त्री कषायोऽपि च ॥ ६३ ॥ Koṣakalpataru 6.26.63
- कोषकल्पतरु संस्त्यायपर्यायोऽवसरे क्रमेऽर्थविवृतौ निर्माणवाची तथा संस्त्यायस्तु समूहविस्तृतिगृहे स्यात्संनिवेशे स्थितौ । अन्तर्द्धौ सुरते व्यवाय उदितस्तेजोर्थकस्त्वव्ययं । शालेयं शतपुष्पिकौषधभिदि क्षेत्रे च शाल्यर्हके ॥ ६५ ॥ Koṣakalpataru 6.26.65
- कोषकल्पतरु पुरस्यात्पत्तने पाटलिपुत्रके च गृहोर्ध्वगेहे नरि गुग्गुलौ स्यात् । क्लीबे तु देहे च पुराव्ययं स्यात् खुरः पुनः कोलदले शफे च ॥ ६ ॥ Koṣakalpataru 6.27.6
- कोषकल्पतरु कुलविशेष्यवत्स्याद्विपुले कुलं तु देशे गृहे गोत्रशरीरयोश्च । तथा सजातीयगणेऽथ कालो मृत्यौ कृतान्ते समये च कृष्णे ॥ ५५ ॥ Koṣakalpataru 6.28.55
- कोषकल्पतरु शालाशङ्कुद्रुमे स्याद्वरणेऽथ शालः सर्जद्रुमे हालनृपे च मत्स्ये । स कीर्तितः स्त्री च गृहे गृहैक- देशे तरुस्कन्धकशाखयोश्च ॥ ५८ ॥ Koṣakalpataru 6.28.58
- कोषकल्पतरु वेशईशो हरे चापरवत्प्रभौ स्या- त्स्त्रियां शिवालाङ्गलदण्डयोश्च । वेशोऽस्त्रियां स्याद्गृहमात्रकेऽपि नेपथ्यवेश्यागृहयोस्तथैव ॥ ८ ॥ Koṣakalpataru 6.30.8
- कोषकल्पतरु ध्वाङ्क्षध्वाङ्क्षो भवेत्तर्कुकके गृहे च काकोलिकावाचक एष योषित् । द्वयोस्तु दोर्मूलगतश्च कक्षः पुमांस्तु कच्छे महिषे वने च ॥ ५२ ॥ Koṣakalpataru 6.30.52
- कोषकल्पतरु वासचन्द्रे च मासेऽप्यथ वेणुभेदे वासो गृहे स्यादपि हेमचूडे । अवस्थितौ सिंहमुखौषधे स्त्री मासस्तु चन्द्रे नरि मासि न स्त्री ॥ Koṣakalpataru 6.31.7
- नानार्थार्णवसंक्षेप खअथ क्लीबे खमाकाशे स्वर्गे छिद्रे गृहेऽभ्रके । नक्षत्रेन्द्रिययोर्ब्रह्मण्यथ हृच्चित्तवक्षसोः ॥ १ ॥ Nānārthārṇavasaṃkṣepa 1.3.1
- नानार्थार्णवसंक्षेप दमअमावास्यातिथौ चाथ दम इन्द्रियनिग्रहे । दण्डे गृहे दवस्त्वग्नौ वनवह्न्युपतापयोः ॥ ६२ ॥ Nānārthārṇavasaṃkṣepa 2.2.62
- नानार्थार्णवसंक्षेप ओकस्ओको गृहे जलौकायामाश्रये चाथ भूषणे । कण्वं पर्वणि किण्वं तु नग्नहूसंज्ञवस्तुनि ॥ १७ ॥ Nānārthārṇavasaṃkṣepa 2.3.17
- नानार्थार्णवसंक्षेप वर्मन्मार्गे नेत्रच्छदे चाथ वर्म स्यात् कवचे गृहे । वपुः शरीरे लावण्ये जले दीप्तौ च सज्जनः ॥ ५९ ॥ Nānārthārṇavasaṃkṣepa 2.3.59
- नानार्थार्णवसंक्षेप शर्मन्शक्ष्यं जले सुखे चाथ शकृद्गोमयविष्ठयोः । जले च शर्म तु सुखे गृहे चाथ श्वयो बले ॥ ६२ ॥ Nānārthārṇavasaṃkṣepa 2.3.62
- नानार्थार्णवसंक्षेप सद्मन्ऊरौ च शकटाङ्गे च कस्मिंश्चिदथ सद्मवाक् । गृहे जले च रोदस्योः सद्मनी इत्यथो जले ॥ ७० ॥ Nānārthārṇavasaṃkṣepa 2.3.70
- नानार्थार्णवसंक्षेप हर्म्यप्रासादपृष्ठ इत्येके गृहभेदे गृहेऽपि च । हरः क्रोधे जले लोके ज्योतिषि ज्वलति स्रजि ॥ ७३ ॥ Nānārthārṇavasaṃkṣepa 2.3.73
- नानार्थार्णवसंक्षेप अस्तअन्नं तु त्रिषु जग्धे स्यादोदने क्ली जलेऽपि च । अस्तोऽस्तमयशैले ना त्रिषु क्षिप्ते गृहेषु नप् ॥ ४१ ॥ Nānārthārṇavasaṃkṣepa 2.5.41
- नानार्थार्णवसंक्षेप कुटगृहे स्त्रीपुंसयोरेके कुटी कुट इति द्वयम् । अन्ये त्वाहुः क्षुद्रगृहे पल्लीसंज्ञे कुटी स्त्रियाम् ॥ २२२ ॥ Nānārthārṇavasaṃkṣepa 2.5.222
- नानार्थार्णवसंक्षेप कुब्रकुब्रं गृहे कर्मणि च फल्गुसङ्कटयोस्त्रिषु । द्वे गजेऽथास्त्रियां कुष्ठं गन्धद्रव्यौषधान्तरे ॥ २३३ ॥ Nānārthārṇavasaṃkṣepa 2.5.233
- नानार्थार्णवसंक्षेप कुटिहस्ते च विकले पुंसि त्रि तु तद्वत्यथो कुटि । नृस्त्री गृहेऽतिकुटिले कुट्टिः कुट्टयतौ पुमान् ॥ २४७ ॥ Nānārthārṇavasaṃkṣepa 2.5.247
- नानार्थार्णवसंक्षेप गयगदितव्ये गया तु स्त्री पुण्यक्षेत्रान्तरेऽथ ना । धने गृहेऽप्यपत्ये तु द्वे गरस्तु नृलिङ्गकः ॥ ३३३ ॥ Nānārthārṇavasaṃkṣepa 2.5.333
- नानार्थार्णवसंक्षेप धत्रभूमीगुडूच्योर्ध्रत्रस्तु ना वृक्षेऽर्केऽप्यथो नपि । गृहे नभसि सूत्रे च धत्रा तु दिवि सा स्त्रियाम् ॥ ६३५ ॥ Nānārthārṇavasaṃkṣepa 2.5.635
- नानार्थार्णवसंक्षेप नीडगृहे च नीथशब्दस्तु पूर्वराजे कचिन्नरि । द्वे ब्राह्मणे धर्मशीले पुनस्त्रिरथ नीकवाक् ॥ ६९४ ॥ Nānārthārṇavasaṃkṣepa 2.5.694
- नानार्थार्णवसंक्षेप योनिभरणीसंज्ञनक्षत्रे पुनर्भूमनि चाप्यथ । योनिः स्त्रीणां भगे स्थाने गृहे कारणताम्रयोः ॥ १०७४ ॥ Nānārthārṇavasaṃkṣepa 2.5.1074
- नानार्थार्णवसंक्षेप वाटमण्डले नगरे सीम्नि भोजने वलये गृहे । त्रयी तु वाटी गेहान्तःक्लृप्ते फलफले वने ॥ १२२२ ॥ Nānārthārṇavasaṃkṣepa 2.5.1222
- नानार्थार्णवसंक्षेप वास्तुगृहभूमौ गृहे सीम्नि सुरुङ्गायां पुरेऽपि च । वाजी तु ना शरे वह्नौ पर्वतेऽपि धनञ्जयः ॥ १२४६ ॥ Nānārthārṇavasaṃkṣepa 2.5.1246
- नानार्थार्णवसंक्षेप वसतिस्त्रीमात्रे च वरत्रा तु वर्ध्र्यां वर्तौ च कीर्तिता । वसतिस्तु गृहे रात्राववस्थाने जिनाश्रमे ॥ ८१ ॥ Nānārthārṇavasaṃkṣepa 3.1.81
- नानार्थार्णवसंक्षेप निकायगृहे बहूनामेकत्रकरणे परमात्मनि । निष्कुटस्तु गृहारामे कवाटे च प्रकीर्तितः ॥ १०६ ॥ Nānārthārṇavasaṃkṣepa 3.2.106
- नानार्थार्णवसंक्षेप निलयनिचोलः प्रच्छदपटे कञ्चुके निलयः पुनः । गृहे निलयने चाथ नियमः स्यान्नियन्त्रणे ॥ ११७ ॥ Nānārthārṇavasaṃkṣepa 3.2.117
- नानार्थार्णवसंक्षेप संस्त्यायसंस्त्यायस्तु गृहे चैव सन्निवेशसमूहयोः । रभसो विस्तृतौ चाथ सं(स्ता?स्त)रः सुस्तरेऽध्वरे ॥ २३० ॥ Nānārthārṇavasaṃkṣepa 3.2.230
- नानार्थार्णवसंक्षेप सदनसदनं तु गृहे तोये सीदत्यर्थे च कीर्तितम् । स्तननं स्तनिते ध्वाने स्तरणं छादने वधे ॥ ८२ ॥ Nānārthārṇavasaṃkṣepa 3.3.82
- नानार्थार्णवसंक्षेप उटजना चन्द्रेऽथोटजोऽस्त्री स्यादृषीणां पर्णवेश्यनि । गृहमात्रेऽप्यु(दि?द)ञ्चस्तु पुमान् वादनदण्डके ॥ २४४ ॥ Nānārthārṇavasaṃkṣepa 4.244
- नानार्थार्णवसंक्षेप कञ्जारकञ्जारो ना गृहे गूढे मणौ कश्चिदथ त्रिषु । अशोभनेऽथ कवटं क्लीबमुच्छिष्टमिः सयोः ॥ ३६१ ॥ Nānārthārṇavasaṃkṣepa 4.361
- नानार्थार्णवसंक्षेप कुलायपक्षिनीडे गृहे च स्यादेकाहक्रतुभेदके । कुलस्य त्वायके त्रि स्यात् कुणालस्तु पुमानयम् ॥ ५२४ ॥ Nānārthārṇavasaṃkṣepa 4.524
- नानार्थार्णवसंक्षेप नालीकीनालीकी स्याद्गृहे तु क्ली निशान्तं नृनपोः पुनः । अन्ते निशायास्त्रिषु तु शान्तेऽथ निधनोऽस्त्रियाम् ॥ १०१९ ॥ Nānārthārṇavasaṃkṣepa 4.1019
- नानार्थार्णवसंक्षेप भवनउत्पत्तौ च गृहे चान्ये पुनः पुंस्यपि मन्वते । द्वयोस्तु स्याच्छुनि शुनि पुनर्द्वे भषणोऽथ नप् ॥ १२६६ ॥ Nānārthārṇavasaṃkṣepa 4.1266
- नानार्थार्णवसंक्षेप भविलभक्षणाभ्यवहारे स्त्री पुनर्धान्ये हि भक्षणी । गवीथुकासमाख्येऽथ भविलं क्ली गृहेऽथ ना ॥ १२७० ॥ Nānārthārṇavasaṃkṣepa 4.1270
- नानार्थार्णवसंक्षेप आयतनदेवालये शरव्ये च गृहमात्रे च तोरणे । स्थानमात्रे च विज्ञेयमातञ्चनपदं पुनः ॥ ७ ॥ Nānārthārṇavasaṃkṣepa 6.7
- नानार्थार्णवसंक्षेप निवसनवसनक्रिययोर्वस्त्रे गृहेऽपि स्यात् त्वलक्तके । निर्भर्त्सनं खलीकारेऽप्यथ स्यान्निकुरुम्बवाक् ॥ २४ ॥ Nānārthārṇavasaṃkṣepa 6.24
- परमानन्दीयनाममाला अधिवासअष्टापदं सुवर्णेऽथाष्टापदः शरभे गिरौ । अधिवासो गृहे वासेऽधिष्ठानं पुरचक्रयोः ॥ ४६ ॥ Paramānandīyanāmamālā 5.1.46
- परमानन्दीयनाममाला कुटकुजो वृक्षे महीपुत्रे कुटः कुम्भे गृहे द्रुमे । क्रमस्तु परिपाट्यां स्यात्पदशक्त्योः कठो मुनौ ॥ ८८ ॥ Paramānandīyanāmamālā 5.7.88
- परमानन्दीयनाममाला तल्पवस्त्रे देहे गृहे चाथ तनुः स्वल्पे कृशे त्वचि । विरले वामने देहे त्रुटिः संशयलेशयोः ॥ २२४ ॥ Paramānandīyanāmamālā 5.15.224
- परमानन्दीयनाममाला धिष्ण्यधिष्ण्यं रश्मौ गृहे स्थाने वह्नौ नक्षत्रशुक्रयोः । धात्री क्षोण्यामलक्योश्च धातक्यामुपमातरि ॥ २५४ ॥ Paramānandīyanāmamālā 5.17.254
- परमानन्दीयनाममाला क्षितिदुग्धेऽमृते जले क्षीरं क्षितिर्भूम्यां गृहेऽपि च । कुशाग्रबुद्धयो धीरा भवन्तः प्रणमाम्याहम् । वाणीयमर्थहीनापि कृपयैव विलोक्यताम् ॥ ३८३ ॥ Paramānandīyanāmamālā 5.29.383
- शब्दरत्नावली मातृकामामकं स्यात् त्रिषु स्वीये भवेत् पुंसि च मातुले । मातृका जननी धात्री देवी भेदगृहाक्षरे ॥ Śabdaratnāvalī 7.1.121
- शब्दरत्नावली गोमुखगोमुखं वाद्यभाण्डे च लेपने कुटिले गृहे । पुमान् महेश्वरगणान्तरि(?) मातलिपुत्रयोः ॥ Śabdaratnāvalī 7.2.9
- शब्दरत्नावली पणक्लीबे घ्राणं नासिकायां घ्राते स्यादभिधेयवत् । चूर्णो धूल्यां क्षारभेदे चूणं स्यात्पटयुक्तिषु ॥ जिष्णुर्महेन्द्रार्जुनयोर्जित्वरे वाच्यलिङ्गकः । झूणि गुवाकभेदे स्याद्दुटदैवश्रुतौ स्त्रियाम् ॥ त्राणं स्यात्त्रायमाणायां रक्षिते रक्षणेऽपि च । तीक्ष्णं स्याद्विषलौहाजिमुष्ककलवणेषु च ॥ आत्मत्यागिनि तीव्रे च त्रिषु क्लीबं यवाग्रके । द्रोणोऽस्त्रियामाढके तु भवेदाढाचतुष्टये ॥ देशभेदे भारद्वाजे दग्धकाके स्त्रियां क्वचित् । तथा काष्ठाम्बुवाहिन्यां गवादन्यामपि स्त्रियाम् ॥ पणो वराटर्के मूल्ये गृहे कार्षापणेऽपि च । क्रय्ये द्यूते भृतौ वित्ते व्यवहारेऽपि पुंस्ययम् ॥ पार्ष्णि द्वयोः सैन्यपृष्ठे पादग्रन्थ्यधरेऽपि च । स्त्रियामुन्मत्तकान्तायां पार्ष्णी पार्ष्णिरिति द्विधा ॥ प्राणोऽनिले बले काव्यजीवे हृदयमारुते ॥ Śabdaratnāvalī 7.15.9
- शब्दरत्नावली पोतपोतः शिशौ गृहे स्थाने वहित्रेऽपि च वाससि ॥ Śabdaratnāvalī 7.16.29
- शब्दरत्नावली निशान्तनिमित्तं कारणे चिह्णे निष्पन्नं जातसिद्धयोः । निवातो दृढसन्नाहनिर्वाताश्रययोरपि । निशान्तमूषागृहयोस्तथा शान्तजने त्रिषु ॥ Śabdaratnāvalī 7.16.111
- शब्दरत्नावली केतनकेतनं गृहकेतौ स्यात्कृत्ये स्थाने निमन्त्रणे । केशी दैत्ये पुमांश्चोरपुष्प्यां स्त्रीतद्वति त्रिषु ॥ Śabdaratnāvalī 7.20.49
- शब्दरत्नावली भवनबुधानो गीष्पतौ विज्ञवृद्धभेदे भवेत्पुमान् । बोधनी बोधपिप्पल्योर्बोधनं गन्धदीपने ॥ भण्डनञ्च खलीकारे न द्वयोर्युद्धवर्मणोः । भट्टिनी द्विजकान्तायां नाट्टोक्तौ नृपयोषिति ॥ भवनं भावगृहयोर्भाजनं पात्रयोग्ययोः ॥ Śabdaratnāvalī 7.20.65
- शब्दरत्नावली भभूर्भूमौ स्थानमात्रे च भमृक्षगृहनामसु । Śabdaratnāvalī 7.24.2
- शब्दरत्नावली धिष्ण्यभेषजे द्रुविकारे च भव्ये भाविनि वाच्यवत् । दस्युश्चौरे रिपौ पुंसि महासाहसिकेऽपि च ॥ दायः सोल्लुण्ठभाषायां भक्तव्यपितृवस्तुति । दाने च हरणे स्थाने खण्डनेऽपि च कुत्रचित् ॥ दिव्यं लवङ्गे स्त्रीधात्र्यां चारौ दिविभवे त्रिषु । दूष्यं वस्त्रगृहे क्लीबं दूषणीये तु वाच्यवत् ॥ दूत्यं दूतस्वभावे च भावे कर्मणि न द्वयोः । दैत्योऽसुरे स्त्रियां गन्धकूट्यां चण्डौषधावपि ॥ धन्याधात्र्यामामलक्यां धन्यं पुत्रवति त्रिषु । धान्यं त व्रीहिधन्याकनीवारादिषु द द्वयो ॥ धिष्ट्यं स्थाने गृहे शक्तावृक्षे च न द्वयोः । नाट्यं तौर्यत्रिके लास्ये ताण्डवेऽपि च न द्वयोः । नित्यन्तु सतते क्लीबं शाश्वते त्रिषु कीर्त्यते ॥ पथ्या स्त्रियां हरीतक्यां हिते पथभवे त्रिषु । पद्यं श्लोके तु शूद्रे ना स्त्रियां पद्या तु वर्त्मनि ॥ पाक्यं विड्लवणे क्लीबं यवक्षारे भवेत्पुमान् ॥ Śabdaratnāvalī 7.26.18
- शब्दरत्नावली मन्दिरमन्दारः पारिभद्रे स्याद्दद्रुपर्णे शरद्रुमे । मदारो धूर्तकरिणोर्मन्दिरं नगरे गृहे ॥ Śabdaratnāvalī 7.27.94
- शब्दरत्नावली कुलकीला कफोणिघाते स्यात् कीलं रुग्मुष्टिघातयोः । कुलं गोत्रे जनपदे सजातीयगणे गृहे ॥ Śabdaratnāvalī 7.28.8
- शब्दरत्नावली वेशवेशो गृहे च नेपथ्ये भवेद्वेश्यागृहेऽपि च । शशः पशुविशेषे स्याद्वोले लोघे नृपान्तरे ॥ Śabdaratnāvalī 7.30.11
- शब्दरत्नावली पक्षप्लक्षोऽश्वत्थे गर्दभाण्डे जटीद्वीपविशेषयोः । पक्षः सहाये सुहृदि पार्श्वे मासार्द्धराजयोः ॥ विहगे वलये साध्ये विरोधे गृहशुद्धयोः । चुल्लीरन्ध्रे हस्तिपार्श्वे केशादिपरती व्रजे ॥ प्रेक्षा नृत्ये क्षणे वुद्धौ शिक्षायामपि च स्त्रियाम् । प्रैषः क्लेशे मर्दने च प्रेषणोन्मादयोरपि ॥ Śabdaratnāvalī 7.31.10
- शब्दरत्नाकर पल्लिपल्लि-पल्ल्यौ गृह-गृहसमूह-स्थानकेष्वपि । सीम-सिमौ क्षेत्र-सीम-गोचर-भू-हयेष्वपि ॥ १७ ॥ Śabdaratnākara 4.17
- शब्दरत्नाकर कुटीकुटी गृहे वटी पाशे घटी नाड्यां पुटी पुटे । यात्रा प्रवर्तने ध्वान्ते तमिस्रा संस्थितिर्मृतौ ॥ १७३० ॥ Śabdaratnākara 3.7.1730
- शब्दरत्नाकर भवनकरिण्यां कुलटायां च भ्रातृव्यो भ्रातृजे रिपौ । भवनं जन्मगृहयोः भुवनं जगदम्भसोः ॥ २१४० ॥ Śabdaratnākara 4.1.2140
- शब्दरत्नाकर वसतिप्राज्ञे च विनयः शिक्षाविद्याचारप्रशान्तिषु । वसतिस्तु गृहे स्थित्यां जैनानामास्पदे निशि ॥ २१६३ ॥ Śabdaratnākara 4.1.2163
- शब्दरत्नाकर अवष्टम्भअवष्टम्भस्त्वहंकारे गृहे कान्त्यवलम्बयोः । अभिहारोऽभियोगे स्याच्चौर्यसंनाहयोरपि ॥ २१९७ ॥ Śabdaratnākara 4.1.2197
- त्रिकाण्डशेष तण्डकतिलकं चित्रके क्लोम्नि ना तरौ तिलकालके । गृहदारौ तण्डकोऽस्त्री समासप्रायवाचि च ॥ २५ ॥ Trikāṇḍaśeṣa 3.3.25
- त्रिकाण्डशेष शालाबिम्बे देशे ना च शुनि रसालत्विक्षुचूतयोः । जिह्वाकमलयोर्लाला शाला स्याद्गृहशाखयोः ॥ ४०७ ॥ Trikāṇḍaśeṣa 3.3.407
- वैजयन्ती सभासंभाषणे क्रियाकारे विज्ञाने तोषणेऽपि च । सभा तु संसदि द्यूते गृहे सामाजिकेषु च ॥ ४२ ॥ Vaijayantī 6.2.42
- वैजयन्ती क्षेत्रक्षेत्रं गृहे पुरे देहे केदारे योनिभार्ययोः । पुण्यस्थाने समूहे च घृतं त्वाज्येंऽबुसर्पिषोः ॥ ६ ॥ Vaijayantī 6.3.6
- वैजयन्ती धामन्द्वंद्वं युग्मं हिमोष्णादि मिथुनं कलहो रहः । धाम जन्मप्रभावान्नभाः सु खे भोजने गृहे ॥ १६ ॥ Vaijayantī 6.3.16
- वैजयन्ती कोशशूद्रे काके पिके व्यासे ध्वान्तपक्षेऽर्जुने हरौ । कोशोऽस्त्री कुड्मले दिव्ये शास्त्रेऽर्थौघे गृहे तनौ ॥ १५ ॥ Vaijayantī 6.5.15
- वैजयन्ती कुटिदर्भे कुशोऽस्त्री तोये क्ली कुटिर्वक्रे गृहे नषण् । कृष्टिर्विलेखे प्राज्ञे ना खेटो ग्रामे कफेऽधमे ॥ २४ ॥ Vaijayantī 6.5.24
- वैजयन्ती धिष्ण्यन्यायाचारयमाहिंसास्वस्त्री मेढ्रांकयोर्ध्वजः । धिष्ण्यौ शुक्रानलौ धिष्ण्यमृक्षे स्थाने बले गृहे ॥ ४३ ॥ Vaijayantī 6.5.43
- वैजयन्ती वास्तुवास्त्वस्त्री गृहभूपुर्योर्गृहे सीमसुरुंगयोः । वानं शुष्के गतौ व्यूतौ गन्धे वृद्धौ सुधीयमौ ॥ ८० ॥ Vaijayantī 6.5.80
- वैजयन्ती वसतिवसतिस्तु निशि स्थित्यां जैनानामाश्रमे गृहे । वाणिनी तु विदग्धायां नर्तक्यां मत्तयोषिति ॥ २३ ॥ Vaijayantī 7.2.23
- वैजयन्ती निशान्तनिधनोऽस्त्री कुले नाशे निस्त्रिंशः क्रूरखड्गयोः । नालीकमब्जे बाणे ना निशान्तं गृहशान्तयोः ॥ ५१ ॥ Vaijayantī 7.5.51