कण्डनी
kaṇḍanīस्त्री · fem.In 5 kośas: 4 synonym verses, 2 as a meaning of another word.
मुशलोप्यथ कण्डन्यामुदुलूभ्यां खलस्त्रिषु ।स्यात् क्लीबे पवनं शूर्पं सूर्पं प्रस्फोटनं पुनः ॥ ९१ ॥
अनुष्टुप्
genderस्त्रीfem.
अयोनिशूकिलोऽथास्याग्रे शम्बः कण्डनी पुनः ।उलूखलोदूखले च * [शू]र्प-सूर्पे तु न स्त्रियाम् ॥ ५४ ॥
अनुष्टुप्
genderस्त्रीfem.
अयोग्रं कण्डली दण्डो मुषलं मुसलन्तथा ।स्यात् कण्डनी कण्डणकी उलूखलमुदूखलम् ॥
अनुष्टुप्
genderस्त्रीfem.
कण्डन्युदूखलं प्रस्थः पालिः सूदः प्रचेलकः ।कुशूलो स्त्री व्रीह्यगारं कन्दुरग्निष्ठ उच्यते ॥ ६ ॥
अनुष्टुप्
genderस्त्रीfem.
कण्डनी as a meaning in nānārtha verses
- धरणिकोश उदूखलउदूखलः कण्डन्यर्थे उदूखलं तु गुग्गुलौ । महानीलो भृङ्गराजे मणिनागविशेषयोः ॥ Dharaṇikośa 27.2.47
- कोषकल्पतरु उलूखलउलूखलं गुग्गुलुपादपे च स्यात्कण्डनीनाम्न्यथ चक्रवालः । गिरौ द्वयोनस्तु स मण्डलेऽथ काशे नले पोटगलो झषे च । स्याद्धस्तिमल्लो गणपेऽभ्रनागे- ऽथ ग्रामवृन्देऽपि च भस्मतूलम् । स्यात्पांशुवर्षे तुहिनेऽथ वात- केलिर्विटानां रदलेखने स्यात् ॥ ७९ ॥ Koṣakalpataru 6.28.79