प्रस्थ
prasthaपुं · masc.In 16 kośas: 31 synonym verses, 9 as a nānārtha head word, 5 as a meaning of another word.
पाय्यं हस्तादिभिस्तत्र स्याद्गुञ्जाः पञ्च माषकः ॥ ८८३ ॥ते तु षोडश कर्षोऽक्षः पलं कर्षचतुष्टयम् ।बिस्तः सुवर्णो हेम्नोऽक्षे कुरुबिस्तस्तु तत्पले ॥ ८८४ ॥तुला पलशतं तासां विंशत्या भार आचितः ।शाकटः शाकटीनश्च शलाटस्ते दशाचितः ॥ ८८५ ॥चतुर्भिः कुडवैः प्रस्थः प्रस्थैश्चतुर्भिराढकः ।चतुर्भिराढकैर्द्रोणः खारी षोडशभिश्च तैः ॥ ८८६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 श्च (wrong syllable)
genderपुंmasc.
स्नुः प्रस्थः सानुरश्मा तु पाषाणः प्रस्तरो दृषत् ॥ १०३५ ॥ग्रावा शिलोपलो गण्डशैलाः स्थूलोपलाश्च्युताः ।
अनुष्टुप्
genderपुंmasc.
कटकोऽस्त्री नितम्बोऽद्रेः स्नुः प्रस्थः सानुरस्त्रियाम् ।
अनुष्टुप्
genderपुंmasc.
अस्त्रियामाढकद्रोणौ खारी वाहो निकुञ्चकः ॥ ८८ ॥कुडवः प्रस्थ इत्याद्याः परिमाणार्थकाः पृथक् ।
अनुष्टुप्
genderपुंmasc.
नितम्बः कटको ज्ञेयः सानु प्रस्थं तटं भृगुः ।शृङ्गं च शिखरं कूटं निर्झरः प्रस्रवोऽम्भसाम् ॥ १६६ ॥
अनुष्टुप्
genderक्लीneut.
प्रस्थोऽस्त्रियां स्त्रियां पाली पालिश्चापि स्त्रियामथ ।स्यात्कटस्त्रिष्वलिञ्जो ना प्रसेवः स्यूत इत्यपि ॥ ९४ ॥
अनुष्टुप्
genderपुंक्लीm. n.
प्रस्थौ स्त्रियामाढकः स्यात् त्रिषु द्रोणोऽस्त्रियां पुनः ।खारी स्त्री षोडशद्रोणैस्ताभिः षोडशभिः पुनः ॥ ५२७ ॥
अनुष्टुप्
genderपुंmasc.
मेखला मध्यभागोऽद्रेर्नितम्बः कटकोऽस्त्रियाम् ।द्रोणी तु शैलयोः सन्धिः स्यात्प्रस्थः सानुरस्त्रियाम् ॥ १८ ॥
अनुष्टुप्
genderपुंmasc.
मुहूर्त्तरतमुस्तानां शतस्यैवायुतस्य च ।द्यूतपुस्तघृतानां च वरूथप्रस्थयोरपि ॥ १६० ॥
अनुष्टुप्
genderपुंक्लीm. n.
दरी गुहा कन्दरी च कन्दरास्त्रिषु कन्दरः ।कटीरं गह्वरं त्वस्त्री स्नुः प्रस्थः सानुरस्त्रियौ ॥ १५ ॥
अनुष्टुप्
genderपुंक्लीm. n.
कुडवौ द्वौ सरावोऽस्त्री प्रस्थोऽस्त्री तौ च मानिका ।त्रिष्वाढकश्चतुःप्रस्थो द्रोणोऽस्त्री चतुराढकः ॥ १२ ॥
अनुष्टुप्
genderपुंक्लीm. n.
ऐरावतं पारत-लोहिते चशुद्धान्त-वृत्ते धृत-दैवते च ।द्यूतं वियूथं च वरूथ-गूथेप्रस्थं तथा प्रोथ-सतीर्थ-यूथः ॥ ४८ ॥
इन्द्रवज्रा
genderपुंक्लीm. n.
पुरादीनि नपुंसके विजानीयात् । इदं पुरं नगरम् । मधु क्षौद्रम् । जगद्विश्वम् । अर्च्चिःशब्दः स्त्रियां भवति वा । इयमर्चिः । इदमर्चिर्दीप्तिः । त्वतलौप्रत्ययौ यथासङ्ख्यं नपुंसकस्त्रीविधौ द्रष्टव्यौ । ब्राह्मणस्य भावो ब्राह्मणत्वं ब्राह्मणता । एवमिदं शूद्रत्वं इयं शूद्रता । अहःशब्दः यदा सङ्ख्यादिः तदा पुंल्लिङ्गो भवति । अयमेकाहः द्व्यहः त्र्यहः । सङ्ख्यादेरिति किम् । पुन्याहम्? । प्रत्यहम् ।रुत्वन्ताः पुंसि कशेरुदारुजतुवस्तुमस्तूभिस्त्यक्ताः ।स्युः सग्रन्थिप्रस्था इसुसू ष्य[घ्य]ञन्तानां नपुंसकता ॥ ४४ ॥
metre not recognised
genderपुंmasc.
रुशब्दान्तास्तुशब्दान्तास्तु कशेरुदारुजतुवस्तुमस्तुभिस्त्यक्ता रहिताः । सग्रन्थिप्रस्था पुंसि भवेयुरित्यर्थः । यथाऽयं त्सरुः खड्गमुष्टिः । भरुर्भर्त्ता । मरुर्निर्जलो देशः । चरुर्मन्त्रतप्तपाकः । शत्रुः रिपुः । तरुर्वृक्षः । मरुर्मृगः । मेरुः पर्वत इत्यादिः । अयं केतुरुत्पातः । सेतुः बन्धः । हेतुः कारणम् । तन्तुः षट्प्रकृतिः । धातुः श्लेष्मादिः । कशेरुप्रभृतयो नपुंसके भवन्ति । इदं कशेरु भूसम्भवम् । इदं दारु काष्ठम् । जतु लाक्षा । वस्तु वाक्यप्रबन्धहेतुः । मस्तु दधिसम्भवम् । ग्रन्थिप्रस्थौ च पुंसि भवतः । अयं ग्रन्थिः गाण्ठिरिति प्रसिद्धः । प्रस्थः परिमाणम् । इसन्तानामुसन्तानां च घ्यञन्तानां च नपुंसकता स्यात् । इदं सर्पिः घृतम् । हविर्देवान्नम् । बर्हिः पवित्रमित्यादि । इदं वपुः शरीरम् । आयुः जीवितपरिमाणम् । धनुः शस्त्रमित्यादिः । ष्य[घ्य]ञ्ग्रहणेन "वर्णदृढादिभ्यः ष्य[घ्य]ञि"ति गृह्यते । न ब्राह्मणादिभ्यः । सौकुमार्य्यं शौक्ल्यं[क्यं] कार्ष्ण्यं[र्त्स्न्यं] दाक्ष्यमित्यादि ।पुंसि स्त्रियां च पाटलिगोमुष्ट्यशनिबाहुसिन्धुमणयः ।आशीर्धूःपूक्षुत्तृ[तृ]ड्गिरः स्त्रियां मुद्रुषौ च ॥ ४६ ॥
metre not recognised
त्सरुपुंभरुपुंमरुपुंचरुपुंशत्रुपुंतरुपुंमेरुपुंकेतुपुंसेतुपुंहेतुपुंतन्तुपुंधातुपुंकशेरुक्लीदारुक्लीजतुक्लीवस्तुक्लीमस्तुक्लीग्रन्थिपुंप्रस्थपुंसर्पिस्क्लीहविस्क्लीबर्हिस्क्लीवपुस्क्लीआयुस्क्लीधनुस्क्लीसौकुमार्यक्लीशौक्ल्यक्लीकार्ष्ण्यक्लीदाक्ष्यक्लीपाटलिपुंस्त्रीगोपुंस्त्रीमुष्टिपुंस्त्रीअशनिपुंस्त्रीबाहुपुंस्त्रीसिन्धुपुंस्त्रीमणिपुंस्त्रीआशिस्स्त्रीधुर्स्त्रीपुर्स्त्रीक्षुध्स्त्रीतृष्स्त्रीगिर्स्त्रीमुद्स्त्रीरुष्स्त्री
genderपुंmasc.
एते शब्दाः नपुंसके भवन्ति । इदं भयं त्रासः । बीजमङ्कुरोत्पत्तिकारणम् । सिध्मं कुष्ठविशेषः । पदं स्थानम् । बर्हं मयूरपिच्छम् । शुक्रं रेतः । तक्रं[क्र] मथितम् । सुखं भोगः । दुःखं पीडा । शिखरं शृङ्गम् । असृक् रक्तम् । सदैवेति वचनाद्भयादीनां व्यभिचारः । अयं भयः ।पाषाणोपलशृङ्गारप्रस्थभृङ्गारमस्तकस्तबकाः ।रूपं मुक्त्वा शब्दरसस्पर्शगन्धादयश्चोक्ताः सदा पुंसि ॥ ५४ ॥
metre not recognisednearly अनुष्टुप्
genderपुंmasc.
एते शब्दाः सदा पुंसि भवन्ति । यथा पाषाणः प्रस्तरः । उपलः शिला पाषाण एव । शृङ्गारो विदग्धता । प्रस्थः परिमाणम् । भृङ्गारः सुवर्णमयः कलशः । मस्तकः शिरः । स्तबकः पुष्पोत्करः । शब्दो ध्वनिः । रसो माधुर्यादिः । स्पर्शो मृदुकर्कशादिः । गन्धो नासिकाग्राह्यः कुसुमादेः । रूपं मुक्त्वा रूपं विहाय ।रूपं नपुंसके भवति । इदं रूपं चक्षुर्ग्राह्यम् ।शेखरयूपपुरोडाशकूपसूपलवशष्पाः ।धर्ममयवासोदशादाराः पुंसि बहुत्वं चैषाम् ॥ ५५ ॥
metre not recognised
genderपुंmasc.
प्रस्थं पार्श्वं तटं सानुर्मेखलोपत्यका तटी ।नितम्बमन्तो दन्तश्च तद्वानपि गिरिः स्मृतः ॥ ९ ॥
अनुष्टुप्
genderक्लीneut.
प्रस्थे स्नुः सानुरस्त्री स्यादधोभूमिरुपत्यका ।अधित्यका तूर्ध्वभूमिः पाषाणाश्मदृषच्छिलाः ॥ ३१४ ॥
अनुष्टुप्
genderपुंmasc.
तुलानां विंशतिर्भार आचितः शाकटोऽपि च ।कुडवानां चतुष्केन प्रस्थः स्यात्पुंसलिङ्गकः ॥ ४१२ ॥
अनुष्टुप्
genderपुंmasc.
निवातप्रयुते वृत्तं लोहितं क्ष्वेडितं शतम् ।शुद्धान्तपलितौ प्रस्थं द्वियूथं प्रोथमेव च ॥ १४० ॥
अनुष्टुप्
genderपुंक्लीm. n.
शैलाग्रं शिखरं प्रस्थः स्रुः शिलोच्चयमस्तकम् ।क्ष्माभृन्नितम्बः कटको गण्डशैलाः च्युतोपलाः ॥ १२१ ॥
अनुष्टुप्
genderपुंmasc.
उभयाञ्जलिमानं वै प्रसृतं कुडवोऽथवा ।चतुर्भिः कुडवैः प्रस्थः प्रोच्यते हि महीतले ॥ १४८८ ॥
अनुष्टुप्
genderपुंmasc.
सानुः प्रस्थं तथा स्नुः स्याद् शैलशृङ्गे च तुल्यभूः ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 दृ (wrong syllable)
genderक्लीneut.
कटकोऽस्त्री शैलमध्यो नितम्बोऽपि कुत्रचित् ।पर्वते समभूभागे स्नुः प्रस्थः सानुरस्त्रियौ ।यत्र विश्राम्यति स्रूत्वा स्रूत्वा पुनः पुनः ।उत्सः प्रसवणञ्चापि द्वयं तत्राभिधीयते ॥
अनुष्टुप्metre not read in every line
genderपुंक्लीm. n.
अस्त्रियामाटकद्रोणौ खारी वाहो निकुञ्चकम् ।कुडवः प्रस्थ इत्याद्याः परिमाणार्थकाः पृथक् ।तुर्योभागन्तु पादः स्यादंशो भागश्च वण्टकः ॥
अनुष्टुप्
genderपुंmasc.
कूटोऽस्त्री शृङ्गशिखरे प्रपातस्तु भृगुः समौ ।तटं त्रिषु नितम्बः स्नुः सानुप्रस्थे तु पुंसि वा ॥ ४११ ॥
अनुष्टुप्
genderपुंक्लीm. n.
ते चत्वारोऽस्त्रियां प्रस्थ आढकस्तच्चतुष्टयम् ।तौ द्वौ शिवस्तौ द्रोणस्तौ खारी वाहो निकुञ्चकः ॥ १५०० ॥
अनुष्टुप्
genderपुंक्लीm. n.
कण्डन्युदूखलं प्रस्थः पालिः सूदः प्रचेलकः ।कुशूलो स्त्री व्रीह्यगारं कन्दुरग्निष्ठ उच्यते ॥ ६ ॥
अनुष्टुप्
genderपुंmasc.
आकाशकुञ्जकुतपौदनवारवाणप्रस्थावतंसनखमण्डपकच्छपुच्छाः ।कान्तारकङ्कणतडागकिरीटराष्ट्रतीर्थव्रणस्तबकसङ्क्रमपीठकानि ॥ १२ ॥
वसन्ततिलका
genderपुंक्लीm. n.
प्रसृतौ द्वावंजलिः स्यात् कुडपो वाहिकोऽध्युषः ।तौ द्वौ मान्यष्टमानं च ते द्वे प्रस्थस्स कुप्यके ॥ ५३ ॥
अनुष्टुप्
genderपुंmasc.
माषशाणस्तलं मुष्टिरंजलिः प्रस्थ आढकः ।द्रोणो गोणी च खारी च क्रमादेतच्चतुर्गुणम् ॥ ६३ ॥
अनुष्टुप्
genderपुंmasc.
संवर्तः परिवर्तश्च हायने कथ्यतेऽम्बरे नाकः ।परिमाणेऽपि प्रस्थः सर्वात्मनि सर्वसन्नाहः ॥ ८०१ ॥
आर्या
meaningsपरिमाण
प्रस्थोऽस्त्री गिरिसानौ च कुडुबानां चतुष्टये ।प्रज्ञा बुद्धौ स्त्रियां त्रिस्तु विदुषि प्रश्नवाक् पुनः ॥ ७१७ ॥
अनुष्टुप्
गन्थः शास्त्रे धने वर्णसंख्याते ग्रथनेऽपि च ।ग्रन्थिर्ना पर्वरुग्भेदग्रन्थिपर्णेषु वल्कले ॥गाथा श्लोकगेपवृत्तसंस्कृतेतरभाषिते ।तीर्थं शास्त्रे कृतौ(?) क्षेत्रे पात्रे नारीरजस्यपि ॥उपाध्यायोपायमन्त्रितटषिजुष्टजलेष्वपि ।तुत्थं क्लीबमञ्जने स्यान्नीलीसूक्ष्मैलयोः स्त्रियाम् ॥दुःस्थो मूर्खे दुर्गते स्यात्पुंसि दुःखस्थिते त्रिषु ।प्रस्थोऽस्त्रियां मितद्रव्ये सानुमानभिदोरपि ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 4 क (wrong syllable)nearly अनुष्टुप्: pāda 2, syllable 1 तट (syllable split); pāda 3, syllable 4 ब (wrong syllable)
प्रस्थ as a meaning in nānārtha verses
- धरणिकोश सानुसानवो गहनप्रस्थवात्यामार्गाग्र?कोविदाः । स्वप्नं स्वापे च सुप्तस्य विज्ञाने च प्रयुज्यते ॥ Dharaṇikośa 19.2.1
- धरणिकोश मानमानं प्रमाणे प्रस्थादौ मानश्चित्तोन्नतावपि । वानं शुष्कफले शुष्के सीवने जलसंप्लवे ॥ Dharaṇikośa 19.2.3
- कोषकल्पतरु पालिअंशे प्रदेशे श्रवणाग्रगे च प्रस्थे च यूकाविषये च पङ्क्तौ । सश्मश्रुकायामपि योषिति स्यात् झिल्लिः स्त्रियामातपकान्तिवर्त्योः ॥ ९० ॥ Koṣakalpataru 6.28.90
- नानार्थार्णवसंक्षेप मानअन्ये तु त्रायते मां यस्तत्र त्रिष्विति मन्वते । मानं तु क्ली परिच्छेदे प्रस्थादौ चापि हिंसने ॥ ९८१ ॥ Nānārthārṇavasaṃkṣepa 2.5.981
- शब्दरत्नावली सानुसानुरस्त्री वने प्रस्थे वात्यामार्गाग्रकोविदे ॥ Śabdaratnāvalī 7.20.21