कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

कामाङ्कुश

kāmāṅkuśaपुं · masc.

In 8 kośas: 8 synonym verses.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.594 · p. 26
कामाङ्कुशो महाराजः करजो नखरो नखः ।करशूको भुजाकण्टः पुनर्भवपुनर्नवौ ॥ ५९४ ॥
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.511 · p. 58
अंह्रिः पादश्चरणः पाणिः शयपञ्चशाखकरहस्ताः ।कामाङ्कुशाः कररुहाः पुनर्नवाः पाणिजा नखा नखराः ॥ ५११ ॥
गीतिः
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव नरादिप्रकाण्डः Kalpadrukośa 1.4.177 · p. 40
स्यात्पाण्यङ्गुलिपर्यायजार्थः कामाङ्कुशोऽपि च ।महाराजः कररुहः करकण्टपुनर्नवौ ॥ १७७ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.85 · p. 127
पुनर्भवः कररुहः करकण्टः पुनर्नवः ।करशूको महाराजो भवेत्कामाङ्कुशोऽपि सः ॥ ८५ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.257 · p. 133
नखरः करशूकोऽपि कामाङ्कुश इतीरितः ।प्रसारिताङ्गुलौ हस्ते चपेटप्रतलौ समौ ॥ २५७ ॥
अनुष्टुप्
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति अङ्गवर्गः Śāradīyākhyanāmamālā 2.1.36 · p. 23
कामाङ्कुशो महाराजः करजो नखरो नखः ।करशूकः कररुहो भुजाकण्टः पुनर्भवः ॥ ३६ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.956 · p. 146
कामाङ्कुशो भुजाकण्टः करजः पाणिजस्तथा ।कररुहः करशूकः पुनर्भवः पुनर्नवः ॥ ९५६ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव मनुष्यवर्गः Trikāṇḍaśeṣa 2.6.27 · p. 53
नखं पुनर्भवः कामाङ्कुशः स्यात्करकण्टकः ।करेटुः करशूकश्च पुच्छट्यङ्गुलिमोटनम् ॥ २७ ॥
अनुष्टुप्
genderपुंmasc.