चपेट
capeṭaपुं · masc.In 14 kośas: 14 synonym verses, 7 as a meaning of another word.
प्रसारिताङ्गुलौ पाणौ चपेटः प्रतलस्तलः ।प्रहस्तस्तालिकस्तालः सिंहतलस्तु तौ युतौ ॥ ५९६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 त (wrong syllable)
genderपुंmasc.
genderपुंmasc.
चपेटश्चर्पटश्च स्यान्नखरो नखरा नखः ।जिह्वो जिह्वा च रसना रसनं चिवुकं चिवुः ॥ १८२ ॥
अनुष्टुप्
genderपुंmasc.
विसृताङ्गुलिके हस्ते चपेटः स्यादपि द्वयोः ।प्रतलश्च प्रहस्तश्च तालिका ताल इत्यपि ॥ १८५ ॥
अनुष्टुप्
genderपुंस्त्रीm. f.
सृपाटसटकीटानां स्यात्किराटचपेटयोः ।किटस्फटघटानां च तथा वर्वटकैटयोः ॥ ११७ ॥
अनुष्टुप्
genderपुंस्त्रीm. f.
श्रोण्योषध्योः कटः कीटः शाटः स पाटवत्स्फटः ।किलाटो वरटो**ऽवटुश्चोटश्चपेटवत् ॥ २१ ॥
metre not recognised
genderपुंस्त्रीm. f.
नखरः करशूकोऽपि कामाङ्कुश इतीरितः ।प्रसारिताङ्गुलौ हस्ते चपेटप्रतलौ समौ ॥ २५७ ॥
अनुष्टुप्
genderपुंmasc.
किटश्चपेटो गुडशुण्डशाणागर्ताजमोदौ रथवारिपर्णौ ।कुठारहारौ शफरो मसूरोवर्ध्रो विधो मुद्गरनालिकेरौ ॥ १११ ॥
उपजातिः
genderपुंस्त्रीm. f.
विस्तृताङ्गुलिपाणौ स्याद्वितस्तिः प्रतलोऽपि च ।चपेटश्च प्रहस्तश्च चस(?) इत्यपि कथ्यते ॥ १४९ ॥
अनुष्टुप्
genderपुंmasc.
प्रसारिताङ्गुलौ पाणौ प्रहस्तः प्रतलस्तलः ।चपेटस्तालिका तालश्चेति हस्तस्य पञ्जकः ॥ ९५९ ॥
अनुष्टुप्
genderपुंmasc.
चपेटः प्रतलस्तालश्चपेटी तालिका तलः ।प्रहस्तश्चपटो हस्ते समस्ताङ्गुलिविस्तृते ॥
अनुष्टुप्
genderपुंmasc.
प्रादेशोऽप्यायताङ्गुलौ हस्ते स्यात् प्रतलस्तलः ।तालिका-तालौ चपेटश्चर्पटश्चपटोऽपि च ॥ १७३ ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 7 ङ्गु (wrong syllable)
genderपुंmasc.
त्रयश्चपेटप्रतलप्रहस्ता द्वौ तु संहतौ ।स्यातां करौ सिंहतलप्रतलौ सव्यदक्षिणौ ॥ १०७५ ॥
अनुष्टुप्
genderपुंmasc.
चपेटश्चर्पटस्तालः प्रहस्तः प्रतलस्तलः ।षट् ते ततांगुले हस्ते न्युब्जेऽस्मिन् प्रसृतः करे ॥ ७७ ॥
अनुष्टुप्
genderपुंmasc.
चपेट as a meaning in nānārtha verses
- धरणिकोश तलतलश्चपेटस्ताल[94]श्च स्वरूपानूर्ध्वयोस्तलम् । ज्याघातो ध्रियते येन प्रकोष्ठे तत्तलं स्मृतम् ॥ Dharaṇikośa 27.3.3
- कोषकल्पतरु तलतलः पुमांस्तालतरौ चपेटे खड्गस्य मुष्टौ चरमे तु पृष्ठे । ज्याघातसंवारणगो द्वयोस्तु शीलाधरार्थो मलमस्त्रियां च ॥ ५२ ॥ Koṣakalpataru 6.28.52
- नानार्थार्णवसंक्षेप तलमहीरुहान्तरेऽथ स्यात् फले तस्य नपुंसकम् । तलश्चपेटे तालाख्यद्रुमे शीतगुणे च ना ॥ ५०० ॥ Nānārthārṇavasaṃkṣepa 2.5.500
- नानार्थार्णवसंक्षेप तालअङ्गुष्ठमध्यमामाने चपेटे त्रपुसेऽपि च । इषुभेदे च नाथ स्त्री ताली दृढदलाह्वये ॥ ५२१ ॥ Nānārthārṇavasaṃkṣepa 2.5.521
- नानार्थार्णवसंक्षेप चप्पटतुरीयायां विभक्तौ स्त्री विनायकतिथावपि । चप्पटस्तु चपेटे ना पर्पटे च त्रिषु त्वयम् ॥ ७२७ ॥ Nānārthārṇavasaṃkṣepa 4.727
- शब्दरत्नावली फर्फरीकचपेटे ना मार्दवेऽस्त्री फर्फरीकं निगद्यते । गिरौ मेघे दैत्यभेदे नागभेदे वलाहकः ॥ Śabdaratnāvalī 7.1.183
- शब्दरत्नावली चर्पटकेशटो भातरि हरौ स्यादजौकणयोरपि । चर्पटः पर्पटे क्षारे चपेटे विपुलेऽपि च ॥ Śabdaratnāvalī 7.11.42