कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

पाद

pādaपुं · masc.

In 24 kośas: 59 synonym verses, 9 as a nānārtha head word, 16 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य देवकाण्डः Abhidhānacintāmaṇi 2.100 · p. 8
रोचिरुस्ररुचिशोचिरंशुगो ज्योतिरर्चिरुपधृत्यभीशवः ।प्रग्रहः शुचिमरीचिदीप्तयो धामकेतुघृणिरश्मिपृश्नयः ॥ ९९ ॥पाददीधितिकरद्युतिद्युतो रुग्विरोककिरणत्विषित्विषः ।भाःप्रभावसुगभस्तिभानवो भा मयूखमहसी छविर्विभा ॥ १०० ॥
रथोद्धता
genderपुंmasc.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य देवकाण्डः Abhidhānacintāmaṇi 2.336 · p. 17
पादा भट्टारको देवः प्रयोज्याः पूज्यनामतः ॥ ३३६ ॥
अनुष्टुप्
genderपुंmasc.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.357 · p. 26
चरणः क्रमणः पादः पदोंऽह्रिश्चलनः क्रमः ।
अनुष्टुप्
genderपुंmasc.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य पृथ्वीकायः Abhidhānacintāmaṇi 4.1.152 · p. 40
द्रोणी तु शैलयोः संधिः पादाः पर्यन्तपर्वताः ।
अनुष्टुप्
genderपुंmasc.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य सामान्यकाण्डः Abhidhānacintāmaṇi 6.1434 · p. 54
अंशो भागश्च वण्टः स्यात्पादस्तु स तुरीयकः ॥ १४३४ ॥
अनुष्टुप्
genderपुंmasc.
अभिधानचिन्तामशिलोञ्छ Abhidhānacintāmaśiloñcha · जिनदेवमुनीश्वर मर्त्यकाण्डः Abhidhānacintāmaśiloñcha 3.48 · p. 2
पत्पादङ्घ्रिश्च चरणे कीकसं हड्डमित्यपि ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 श (wrong syllable)
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह शैलवर्गः Amarakośa 2.3.11
खनिः स्त्रियामाकरः स्यात्पादाः प्रत्यन्तपर्वताः ।
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह मनुष्यवर्गः Amarakośa 2.6.71
पादाग्रं प्रपदं पादः पदङ्घ्रिश्चरणोऽस्त्रियाम् ॥ ७१ ॥
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह वैश्यवर्गः Amarakośa 2.9.89
पादस्तुरीयो भागः स्यादंशभागौ तु वण्टके ॥ ८९ ॥
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध स्वर्गकाण्डम् Abhidhānaratnamālā (Halāyudha) 1.39 · p. 6
उस्रधामवसुकेतुमरीचिप्रग्रहोपधृतिवृष्णिमयूखाः ।अंशुभानुकरपादविरोका गाव इत्यभिहितास्तु समानाः ॥ ३९ ॥
स्वागता
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध स्वर्गकाण्डम् Abhidhānaratnamālā (Halāyudha) 1.155 · p. 19
तत्रभवान् भगवानिति शब्दो वृद्धैः प्रयुज्यते पूज्ये ।पादा इति नामान्ते देवो भट्टारको वापि ॥ १५५ ॥
आर्या
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.167 · p. 21
गुहा पाषाणसन्धिः स्यात्कन्दरः कन्दरा दरी ।निकुञ्जं गह्वरं प्रोक्तं पादाः प्रत्यन्तपर्वताः ॥ १६७ ॥
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.183 · p. 23
त्वग्वल्कं वल्कलं प्रोक्तं मज्जा सार उदाहृतः ।करहाटं भवेत्कन्दः पादो मूलं जटा शिफा ॥ १८३ ॥
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.511 · p. 58
अंह्रिः पादश्चरणः पाणिः शयपञ्चशाखकरहस्ताः ।कामाङ्कुशाः कररुहाः पुनर्नवाः पाणिजा नखा नखराः ॥ ५११ ॥
गीतिः
genderपुंmasc.
एकादिसंख्यासंज्ञाकोष Ekādisaṃkhyāsaṃjñākoṣa · अज्ञात द्विसंख्यावाचकाः शब्दाः Ekādisaṃkhyāsaṃjñākoṣa 2.3 · p. 200
भुज-दृष्टि-पाद-कर्ण-स्तनसंख्या रामलक्ष्मणौ शृङ्गम् ।गजदन्तौ प्रीति-रती गङ्गागौर्यौ विनायकस्कन्दौ ॥ ३ ॥
गीतिः
genderपुंmasc.
गीर्वाणभाषाभूषण Gīrvāṇabhāṣābhūṣaṇa · त्रिविक्रम अन्तरिक्षाधिकारो द्वितीयस्तरङ्गः Gīrvāṇabhāṣābhūṣaṇa 2.5 · p. 20
पादः करोंशुमाला च प्रभामालेति कथ्यते ।संज्ञा स्वरेणुका मायामयी चापि सुवर्चला ॥ ५ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव नरादिप्रकाण्डः Kalpadrukośa 1.4.218 · p. 44
पुमान्पादोङ्घ्रिरङ्घ्रिः पत्क्रमणो विक्रमः क्रमः ।तन्मूलं गाहिरं क्लीबे पादाग्रं प्रपदं च षण् ॥ २१८ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव पर्वतादिप्रकाण्डः Kalpadrukośa 1.13.20 · p. 343
शिलोच्चयगतास्ते स्युः पादाः प्रत्यन्तपर्वताः ।प्राग्भारा दन्तकास्तिर्यगद्रेर्याता बहिश्च ये ॥ २० ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव नाट्यप्रकाण्डः Kalpadrukośa 2.5.158 · p. 434
पायूपस्थं हस्तपादं वाक् चैव दशमी पुनः ।ज्ञानेन्द्रियाणि श्रोत्रादि पञ्च पाय्वादिकानि च ॥ १५८ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव सूर्यादिप्रकाण्डः Kalpadrukośa 3.1.14 · p. 437
अश्मनो रमणस्तार्क्ष्यो वैनतेयो जटायुसूः ।गभस्तिर्ना घृणिः पादः करः प्रग्रह इत्यपि ॥ १४ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ व्योमवर्गः Koṣakalpataru 1.3.44 · p. 31
कर-किरण-मयूखाभीषु-रश्म्यंशु-गावःशुचि-वसु-घृणि-घृष्णि-प्रग्रहोस्रा गभस्तिः ।उपधृतिरपि रोकः स्यूम-पादौ च पृश्निः*****मरीचिर्दीधितिः स्त्री पदं च [21a] ॥ ४४ ॥
मालिनीmetre not read in every line
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ व्योमवर्गः Koṣakalpataru 1.3.65 · p. 33
अंशः स्याद्वण्टको भागः पादस्तु स तुरीयकः ।लक्षणं लक्ष्मणं लक्ष्म लाञ्छनं केतनोऽस्त्रियाम् ॥ ६५ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ धीवर्गः Koṣakalpataru 1.5.25 · p. 1205
चित्तं नेत्रं रसना श्रोत्रं त्वग्गन्धज्ञाधीन्द्रियं चैतत् ।पाणिः पादः पायुरुपस्थो वागिति कर्मेन्द्रियगण उक्तः ॥ २५ ॥
metre not recognised
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ शैलवर्गः Koṣakalpataru 2.2.14 · p. 128
भृगुः प्रपातोऽप्यतटः स्त्रियां दरदपि स्मृता ।बहिर्निर्गतदेशस्तु प्राग्भारो दन्तको गिरेः ।द्रोणिस्तु शैलयोः संधिः पादाः प्रत्यन्तभूधराः ॥ १४ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.41 · p. 213
देहार्द्धमर्द्धदेहं च देहादेः स्यात्समेंऽशके ।अङ्गं प्रतीकोऽवयवोऽपघनोऽस्यैकदेशकः ।प्राणस्थानं मर्म चान्ते पीडनाद्यत्र रुग्भवेत् ।अङ्घ्रि[83b]रंह्रिः क्रमः पादः क्रमणश्चलनश्च पद् ॥ ४१ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
ऊर्मिश्च ध्वनिश्च अञ्जलिश्च ऊर्म्मिध्वन्यञ्जलयः । एते शब्दाः पुंसि भवन्ति । अयमूर्म्मिस्तरङ्गः । अयं ध्वनिः शब्दः ।अयमञ्जलिः करपुटः । ओष्ठकपोलगुल्फसञ्ज्ञाश्च । सञ्ज्ञाशब्दः प्रत्येकमभिसम्बध्यते । ओष्ठश्च कपोलश्च गुल्फश्च ओष्ठकपोलगुल्फाः । एतेषां सञ्ज्ञाः पर्यायास्ते पुंसि भवन्ति । अयमोष्ठः अधरः दन्तच्छदः । अयं कपोलः गण्ड इत्येवमादयः । अयं गुल्फः पादग्रन्थिः घुठः घूंठ इत्येवमादयः । घञ्च एरच्च ऋदोरप्च । "पदरुजवेगस्पृशो घञि"त्येवमादिना प्रकरणे घञो विहित इति । "येन विधिस्तदन्तस्ये"ति घञ्प्रत्ययान्ताः शब्दाः पुंसि भवन्ति । तद्यथा । पादः रोगः वेगः स्पर्शः पाकः त्यागः योगः प्रसादः भेदः छेदः दाहः दोषः प्रकारविकार इत्येवमादयः । "एरजि"ति । एरजीवर्णान्तादच्प्रत्ययः स्यात् । अयं जयः नयः । तथा "ऋदोरप्" । ऋवर्णान्तादुवर्णान्ताच्च धातोरप्प्रत्ययः स्यात् । तत्र ऋवर्णान्तात् । अयं करः वरः भरः शरः नरः । इत्येवमादयः । उवर्णान्तात् । अयं प्लवः पवः भवः इत्येवमादयः । घञन्तादन्धकारशब्दस्यापि नित्यं पुंस्त्वं स्यादित्याह । बहुलमन्धकारश्च । अन्धकारो बहुलं पुंलिङ्गे भवति । विभाषा भवतीत्यर्थः । इदं अन्धकारम् । अयं अन्धकारः । तथा चोक्तम् । "नेहागमोऽस्ति शलभस्य न मारुतस्य स्नेहक्षयोऽपि न भवेत्प्रथमे प्रदोषे । अव्यक्तवस्तुपुरुषप्रतिबोधितेन पारावतेन पतता कृतमन्धकारम् ।"प्राण्यङ्गमिदन्तं वस्तिकुक्षिपाणीन्विमुच्य सर्वं स्त्री ।जङ्घा शिरा स्नुषा नासिका चूडा वसा चैव ॥ १७ ॥
वसन्ततिलकाmetre not read in every line
genderपुंmasc.
स्रगादयः शब्दाः स्त्रियां भवन्ति । तद्यथा । इयं स्रक् माला । इयं स्रुक् यज्ञोपकरणभाण्डम् । इयं स्फिक् कटिप्रदेशः । इयं त्वक् बहिश्चर्म । इयं वाक् वाणी । इयं योषित् बाला । द्यौश्च नौश्च द्युनावौ च स्त्रियां भवतः इयं द्यौः स्वर्गः । इयं नौः जलतरणिः । हिशब्दः पादपूरणे । दीधितिमेकां वर्ज्जयित्वा रश्मिवाचकाः शब्दाः पर्यायाश्च ये ते पुंसि भवन्ति । तद्यथा इमे रश्मयः प्रग्रहाः किरणाः अंशवः पादाः मयूखाः अभीषवः गभस्तयः घृणय इत्येवमादयः । तुशब्दः पादपूरणे ।मूर्द्ध्नोऽक्षतक्षमज्जश्लेष्मात्माश्मयु[यू]वपूषराजभी रहितम् ।सर्वं द्व्यच्कं नान्तं नपुंसकं पुंसि वा भवेद्ब्रह्मा ॥ १९ ॥
metre not recognised
genderपुंmasc.
नाममाला Nāmamālā (Dhanañjaya) · धनञ्जय Nāmamālā (Dhanañjaya) 45 · p. 23
दीधितिर्भानुरुस्रोंऽशुर्गभस्तिः किरणः करः ।पादो रुचिर्मरीचिर्भास्तेजोऽर्चिर्गौर्द्युतिः प्रभा ॥ ४५ ॥
अनुष्टुप्
genderपुंmasc.
नाममाला Nāmamālā (Dhanañjaya) · धनञ्जय Nāmamālā (Dhanañjaya) 103 · p. 51
कटिर्नितम्बं श्रोणी च जघनं जानु जह्नु च ।चलनं चरणं पादं क्रमोऽंह्रिश्च पदं विदुः ॥ १०३ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.92 · p. 16
किरणः प्रग्रहो ज्योतिरर्चिर्धाम घृणिः करः ।पृश्निरशिमहःपाददीधितित्विषिदीप्तयः ॥ ९२ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 र (wrong syllable)
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.225 · p. 32
भगवद्भट्टारकौ पादात्रभवन्तौ विभाविभौ ।भूमिर्भूर्वसुधा विश्वा धरोर्वी जगती रसा ॥ २२५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 2 त्रभ (syllable split)
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.313 · p. 43
पर्यन्तपर्वताः पादा द्रोणी सन्धिस्तु शैलयोः ।तिर्यग्बहिःप्रदेशाः स्युः दन्तका निर्गता गिरेः ॥ ३१३ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.323 · p. 92
भित्तं नेमं दलं शल्कं खण्डार्धशकलानि तु ।भागो वण्टस्तथांशोऽपि तुर्यांशः पादसंज्ञकः ॥ ३२३ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.273 · p. 135
------------ पिण्डिकायां पिचण्डिका ।चरणांह्री क्रमः पादश्चलनः क्रमणः समौ ॥ २७३ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास पुंलिङ्गसंग्रहः Paramānandīyanāmamālā 6.1.29 · p. 214
हाहाहूहूर्नग्नहूर्गर्मुदंह्रीपादश्मानौ ------ यक्ष्मतुल्याः ।पञ्चाहाद्या ये समाहारगम्याःपुंलिङ्गे स्यात्स्थेमशब्देऽपि नन्तः ॥ २९ ॥
शालिनीmetre not read in every line
genderपुंmasc.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट ऊर्ध्वलोकसर्गः Paryāyaśabdaratna 1.88 · p. 12
घृणिर्घृष्टिर्मयूखश्च रुगर्चिर्वर्च इत्यपि ।शोचिः केतुः पदः पादस्तेजः कान्तिर्भगो रुचिः ॥ ८८ ॥
अनुष्टुप्
genderपुंmasc.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.604 · p. 104
शिक्यं काचश्च तोलम्बे पा(प?)दं पादूश्च पादुका ।उपानच्चानुपदीना पादत्राणे प्रकीर्तिताः ॥ ६०४ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 प (wrong syllable)
genderक्लीneut.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त मनुष्यमरीचिः Pañcatattvaprakāśa 1.1.96 · p. 7
चरणोऽङ्घ्रिः पदः पादः पादाग्रं प्रपदं कुधम् ।शङ्खावर्त्तं गुदं पायुरपानं गुह्यगोपने ॥ ९६ ॥
अनुष्टुप्
genderपुंmasc.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त शैलमरीचिः Pañcatattvaprakāśa 1.2.122 · p. 9
उपत्यकाद्रिसम्बन्धा भूरूर्द्ध्वाधित्यकाऽद्रिका ।गैरिकं शैलरुधिरं पादाः प्रत्यन्तपर्वताः ॥ १२२ ॥
अनुष्टुप्
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति व्योमवर्गः Śāradīyākhyanāmamālā 1.2.71 · p. 9
पादो गभस्तिरुस्रो गौर्ज्योतिर्धामांशुरश्मयः ।अर्चिः पृष्णिर्घृणिस्तेजो भाः प्रभा त्विट् छविर्द्युतिः ॥ ७१ ॥
अनुष्टुप्
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति अङ्गवर्गः Śāradīyākhyanāmamālā 2.1.43 · p. 24
जानूरुपर्व चाष्ठीवत्प्रतिजङ्घा तु पिण्डिका ।पादः पदोंऽह्रिश्चरणश्चलनः क्रमणः क्रमः ॥ ४३ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवविभागः Suśīlanāmamālā 3.86 · p. 14
प्रग्रहस्तथा पादः मृगतृष्णा मरीचिका ।मण्डलं परिवेषश्च परिधिस्तूपसूर्यकम् ॥ ८६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवविभागः Suśīlanāmamālā 3.494 · p. 61
इत्येवं कथ्यते पूज्ये प्रयोज्यः पूज्यनामतः ।भट्टो भट्टारको देवः पादाः भरटकस्तथा ॥ ४९४ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.993 · p. 152
चरणश्चलनः पादः क्रमश्च क्रमणः पदः ।अंह्रिरङ्घ्रिस्तथा पत् पाद् चेति नामानि मन्यते ॥ ९९३ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि पृथ्वीकायनामानि Suśīlanāmamālā 5.1.279 · p. 292
पर्यन्तपर्वताः पादाः मुख्याद्रेर्लघुपर्वताः ।
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.330 · p. 23
इन्द्रियार्थगोचराः स्युर्विषयाः परिकीर्तिता ।स्यादिन्द्रियस्तु करणं हृषीकं विषयि स्मृतम् ।गुदोपस्थं हस्तपादं वाक् च कर्मेन्द्रियं भवेत् ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश शैलवर्गप्रकाशः Śabdaratnāvalī 3.3.17 · p. 56
प्रत्यन्तपर्वताः पादाः पादशैला अपि क्वचित् ।समुद्रपर्वासन्नभूमिरेवमुपत्यका ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 प (syllables merged)
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश सिंहादिवर्गप्रकाशः Śabdaratnāvalī 3.5.267 · p. 100
द्वेऽस्त्रियां चरणः पादः पदङ्घ्रिरङ्घ्रिरित्यपि ।घुटिका स्याद्घुटो गुल्फः पादग्रन्थिर्घुटिर्घुटी ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ङ्घ्रि (wrong syllable)
genderपुंक्लीm. n.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश वैश्यवर्गप्रकाशः Śabdaratnāvalī 3.7.174 · p. 149
अस्त्रियामाटकद्रोणौ खारी वाहो निकुञ्चकम् ।कुडवः प्रस्थ इत्याद्याः परिमाणार्थकाः पृथक् ।तुर्योभागन्तु पादः स्यादंशो भागश्च वण्टकः ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि तृतीयः काण्डः Śabdaratnākara 3.186 · p. 203
घुटः सर्वेऽपि पुंस्त्रीगाः, चरणे चलनः क्रमः ।क्रमणः पाद-पदौ पात् पत्-पदे अंह्रिरङ्घ्रियुक् ॥ १८६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 प (wrong syllable)
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण ग्रहाध्यायः Śabdaratnākara 1.4.165 · p. 22
वसुपादकराभीशुरश्मिप्रग्रहभानवः ।दीधितिः स्त्री मरीचिः स्त्रीपुंसोस्तासु सहस्रके ॥ १६५ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण पर्वताध्यायः Śabdaratnākara 2.2.415 · p. 55
झरी तु निर्झरझरावुत्सः प्रस्रवणं गिरेः ।शुण्डी शौण्डं चूतको ना पादाः पर्यन्तपर्वताः ॥ ४१५ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण मनुष्याध्यायः Śabdaratnākara 3.1.1061 · p. 132
शरीरमङ्गेऽवयवप्रतीकापघनास्त्रयः ।अस्त्रियामङ्घ्रिचरणौ पादः पत् पदमस्य तु ॥ १०६१ ॥
अनुष्टुप्
genderपुंmasc.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव नानार्थवर्गः Trikāṇḍaśeṣa 3.3.207 · p. 162
देशे जने जनपदौ निषादौ श्वपचस्वरौ ।वाक्ये शब्दे प्रदेशेऽपि पदं पापस्तु न द्वयोः ॥ २०७ ॥
अनुष्टुप्
genderपुंmasc.doubtful
उत्पलिनी Utpalinī · व्याडि Utpalinī 36 · p. 49
पत्पादोऽंह्रिश्चरणोऽस्त्री ॥ ३६ ॥
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश ज्योतिरध्यायः Vaijayantī 2.1.16 · p. 18
घृष्टिपादमयूखांशुसांध्योद्योतगभस्तयः ।किरणोस्रौ च रोचिः क्ली रश्मिरक्ली मरीचिवत् ॥ १६ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश शैलाध्यायः Vaijayantī 3.2.7 · p. 41
उत्सः प्रस्रवणं तोयप्रवाहे झरनिर्झरौ ।स्नुर्वप्रोऽस्त्री सानुरस्त्री पादाः पर्यंतपर्वताः ॥ ७ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश भूताध्यायः Vaijayantī 4.4.56 · p. 177
भित्तं शकलखण्डे वा पुंस्यर्धोऽर्धं समेंऽशके ।अस्त्री चरणमंघ्रिर्ना पत् पादः क्रमणं पदम् ॥ ५६ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश धर्मकर्माध्यायः Vaijayantī 5.2.7 · p. 192
वण्टो विभागो भागोंऽशः पादस्त्वंशश्चतुर्थकः ।कला तु षोडशो भागो वारस्त्ववसरः क्षणः ॥ ७ ॥
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह नानार्थवर्गः Amarakośa 3.3.89
पादा रश्म्यङ्घ्रितुर्यांशाश्चन्द्राग्न्यर्कास्तमोनुदः ॥ ८९ ॥
अनुष्टुप्
धरणिकोश Dharaṇikośa · धरणिदास दश्लोकः Dharaṇikośa 17.3.3 · p. 97
पादः स्याच्चरणे रथ्ये गिरेः प्रत्यन्तपर्वते ।तरोर्मूले च पादः स्यात्तुरीयांशे च कीर्तितः ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ दान्ताः Koṣakalpataru 6.19.22 · p. 234
स्यात्सूरणेऽस्त्री नवसस्यमूलेछन्दस्तु नाऽऽकूतहृदोश्च चित्ते ।वश्ये नरौ( ? )चाथ तुरीयभा[4b]ग-प्रत्यन्तशैले चरणे मयूखे ॥ २२ ॥
इन्द्रवज्राmetre not read in every line
doubtful
कोषकल्पतरु Koṣakalpataru · विश्वनाथ दान्ताः Koṣakalpataru 6.19.26 · p. 234
मूलेऽपि पादोऽयव( ? )सूपकारेसूदस्तथा व्यञ्जनसूपयोश्च ।क्षोदो रजःपेषणयोरथ स्या-च्छादोऽपि शष्पे नरि कर्दमे च ॥ २६ ॥
इन्द्रवज्रा
meaningsमूल
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् पुल्लिँङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.2.76 · p. 27
ग्राम्येऽप्यमुक्तात्मसु तु वयं ब्रूमोऽथ पादवाक् ।किरणे चरणे वृक्षमूलेऽद्रेः प्रान्तपर्वते ॥ ७६ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् पुल्लिँङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.2.77 · p. 27
तुर्यभागे पद्यभागे परिमाणान्तरेऽपि च ।प्रासस्तु प्रासने कुन्तसमाख्ये चायुधान्तरे ॥ ७७ ॥
अनुष्टुप्
doubtful
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास पकारादयः Paramānandīyanāmamālā 5.19.284 · p. 198
विभक्त्यन्तेऽथ पादस्तु रश्मौ प्रत्यन्तपर्वते ।तुर्यांसे तरुमूलेऽथ पद्मो व्यूहेऽहिसंख्ययोः ॥ २८४ ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश दान्ताः Śabdaratnāvalī 7.18.4 · p. 229
पादो ब्रध्ने चतुर्थांशो गिरिप्रत्यन्तपर्वते ।मयूखे चरणे वेदभागे चैव पुमानयम् ॥
अनुष्टुप्
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव नानार्थवर्गः Trikāṇḍaśeṣa 3.3.208 · p. 163
मूले प्रत्यन्तशैले च प्रसादस्त्वनुरोधने ।स्वास्थ्ये काव्यगुणे चाऽथ प्रतिपत्तिथिसंविदोः ॥ २०८ ॥
अनुष्टुप्
doubtful

पाद as a meaning in nānārtha verses