पञ्चशाख
pañcaśākhaपुं · masc.In 12 kośas: 12 synonym verses.
प्रगण्डः कूर्परांसान्तः पञ्चशाखः शयः शमः ।हस्तः पाणिः करस्यादौ मणिबन्धो मणिश्च सः ॥ ५९१ ॥
अनुष्टुप्
genderपुंmasc.
पञ्चशाखः शयः पाणिस्तर्जनी स्यात्प्रदेशिनी ॥ ८१ ॥
अनुष्टुप्
genderपुंmasc.
अंह्रिः पादश्चरणः पाणिः शयपञ्चशाखकरहस्ताः ।कामाङ्कुशाः कररुहाः पुनर्नवाः पाणिजा नखा नखराः ॥ ५११ ॥
गीतिः
genderपुंmasc.
मणिबन्धादाकनिष्ठं करस्य करभो बहिः ।पञ्चशाखः शयः पाणिः करो हस्तः शलः करिः ॥ १७२ ॥
अनुष्टुप्
genderपुंmasc.
करः कुलिः पालन-पञ्चशाख-भुजादलाः पाणि-शयौ शमश्च ।हस्तोऽस्त्रियामस्य पुनर्मणिः स्या-दादिस्तथासौ मणिबन्ध उक्तः ॥ ८० ॥
उपजातिः
genderपुंmasc.
करः पाणिः शयो हस्तपञ्चशाखावपीरितौ ।मणिबन्धो मणिः प्रोक्तः करभस्त्वाकनिष्ठकम् ॥ २५४ ॥
अनुष्टुप्
genderपुंmasc.
पञ्चशाखश्च शाखश्च पाणिः पाणश्च सम्मतः ।नखे पुनर्भवः प्रोक्तस्तर्जन्यां तु प्रदेशिनी ॥ १४८ ॥
अनुष्टुप्
genderपुंmasc.
हस्तः करः शयः पाणिः पञ्चशाखश्च स स्मृतः ।अङ्गुल्यः करशाखाः स्युस्तथाङ्गुष्ठाङ्गुलौ समौ ॥ ३५ ॥
अनुष्टुप्
genderपुंmasc.
करो हस्तः शमः पाणिः पञ्चशाखः शयः सलः ।भुजदलश्च नामानि करस्य मन्यते बुधैः ॥ ९५१ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
हस्तः पाणिः पञ्चशाखः शयः कुलि-भुजादलौ ।बृद्धाङ्गुली स्यादङ्गुष्ठो बृद्धापि च समीरिता ॥
अनुष्टुप्
genderपुंmasc.
पाणिर्हस्तः पञ्चशाखस्तौ युतावञ्जलिर्नरि ।मणिबन्धादाकनिष्ठं करस्य करभो बहिः ॥ १०७२ ॥
अनुष्टुप्
genderपुंmasc.
मणिबन्धो मणिः पाणिमूले पाणौ करः शयः ।पंचशाखस्तलो हस्तस्तर्जनी तु प्रदेशिनी ॥ ७३ ॥
अनुष्टुप्
genderपुंmasc.doubtful