शय
śayaपुं · masc.In 14 kośas: 20 synonym verses, 3 as a nānārtha head word, 2 as a meaning of another word.
प्रगण्डः कूर्परांसान्तः पञ्चशाखः शयः शमः ।हस्तः पाणिः करस्यादौ मणिबन्धो मणिश्च सः ॥ ५९१ ॥
अनुष्टुप्
genderपुंmasc.
पञ्चशाखः शयः पाणिस्तर्जनी स्यात्प्रदेशिनी ॥ ८१ ॥
अनुष्टुप्
genderपुंmasc.
अंह्रिः पादश्चरणः पाणिः शयपञ्चशाखकरहस्ताः ।कामाङ्कुशाः कररुहाः पुनर्नवाः पाणिजा नखा नखराः ॥ ५११ ॥
गीतिः
genderपुंmasc.
मणिबन्धादाकनिष्ठं करस्य करभो बहिः ।पञ्चशाखः शयः पाणिः करो हस्तः शलः करिः ॥ १७२ ॥
अनुष्टुप्
genderपुंmasc.
संवेशः स्याच्छयः स्वप्नः स्वापः शयनमस्त्रियाम् ।निद्रा सुप्तिरथावेशोऽपस्मारः सहसा भयम् ॥ १५६ ॥
अनुष्टुप्
genderपुंmasc.
करः कुलिः पालन-पञ्चशाख-भुजादलाः पाणि-शयौ शमश्च ।हस्तोऽस्त्रियामस्य पुनर्मणिः स्या-दादिस्तथासौ मणिबन्ध उक्तः ॥ ८० ॥
उपजातिः
genderपुंmasc.
आलु शलालु शयालुशयौ स्या-त्कम्बलमम्भसि वाससि चेलम् ।पिप्पलमम्बुनि चाम्बरभेदेब्रह्मतरौ गगनेऽपि च तूलम् ॥ ११ ॥
दोधकम्
genderक्लीneut.
करः पाणिः शयो हस्तपञ्चशाखावपीरितौ ।मणिबन्धो मणिः प्रोक्तः करभस्त्वाकनिष्ठकम् ॥ २५४ ॥
अनुष्टुप्
genderपुंmasc.
आर्तवं पौतवं साध्वसं साहसकशेरुणी ।शयातुवीक्षपर्वाणि ककुन्महदहानि च ॥ ९९ ॥
अनुष्टुप्
genderक्लीneut.
प्रगण्डाधोभागदेशे प्रकोष्ठः कोष्ठ इत्यपि ।सर्वाङ्गुलीविशिष्टे तु बाह्वग्रे शय इष्यते ॥ १४७ ॥
अनुष्टुप्
genderपुंmasc.
हस्तः करः शयः पाणिर्बाहुः पञ्चशिफो भुजः ।अङ्गुष्ठोऽङ्गुलिभूपालः तर्जन्याद्या प्रदेशिनी ॥ ९१ ॥
अनुष्टुप्
genderपुंmasc.
हस्तः करः शयः पाणिः पञ्चशाखश्च स स्मृतः ।अङ्गुल्यः करशाखाः स्युस्तथाङ्गुष्ठाङ्गुलौ समौ ॥ ३५ ॥
अनुष्टुप्
genderपुंmasc.
करो हस्तः शमः पाणिः पञ्चशाखः शयः सलः ।भुजदलश्च नामानि करस्य मन्यते बुधैः ॥ ९५१ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
अथ वोड्रस्तिलित्सः स्यात् गोनासो गोनसोऽपि च ।वाहसः स्यादजगरः शीर-शीनौ शयुः शयः ॥
अनुष्टुप्
genderपुंmasc.
हस्तः पाणिः पञ्चशाखः शयः कुलि-भुजादलौ ।बृद्धाङ्गुली स्यादङ्गुष्ठो बृद्धापि च समीरिता ॥
अनुष्टुप्
genderपुंmasc.
अस्तरः प्रस्तरश्चेति प्रस्तरोऽपि च कुत्रचित् ।खट्टा पर्यङ्कपल्यङ्कमञ्चतल्पशया अपि ॥
अनुष्टुप्
genderपुंmasc.
पार्श्वमस्त्री कफोणिस्तु कूर्परस्तस्य तूपरि ।प्रकाण्डस्तदधः पुंसि प्रकोष्ठोऽथ करः शयः ॥ १०७१ ॥
अनुष्टुप्
genderपुंmasc.
नकुलस्तु महान् बभ्रुर्धरीको नकुलाकृतिः ।कृकलासः प्रतिरविः शयानः सरटः शयः ॥ २८ ॥
अनुष्टुप्
genderपुंmasc.
शयने शयसंवेशावुपशायोऽन्तिकेशयः ।पर्यादेरथ पर्यायाः परिशायः समंततः ॥ १६८ ॥
अनुष्टुप्
genderपुंmasc.
मणिबन्धो मणिः पाणिमूले पाणौ करः शयः ।पंचशाखस्तलो हस्तस्तर्जनी तु प्रदेशिनी ॥ ७३ ॥
अनुष्टुप्
genderपुंmasc.
शय as a meaning in nānārtha verses
- कोषकल्पतरु शपथस्यात्सारमेये रुदथो बुधे तु योगिन्यपि स्याद्विदथो नृलिङ्गः । स्याल्लोकपाले भरथो धवेऽपि विश्वासहेतौ शपथः शयौ च ॥ ४ ॥ Koṣakalpataru 6.18.4
- कोषकल्पतरु औशीरजम्बीर उक्तोऽथ शये च पीठे- प्यौशीरमुक्तं चमरे च दण्डे । सौवीरमन्त्ये बदरारनाले स्रोतोञ्जने पुंसि तु देशभेदे ॥ ५७ ॥ Koṣakalpataru 6.27.57