कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Śāradīyākhyanāmamālā

शारदीयाख्यनाममाला Śāradīyākhyanāmamālā

462 verses · 4,677 words tagged · 226 marked doubtful (dashed)

द्वितीयः काण्डः · अङ्गवर्गः

इति श्रीहर्षकीर्त्युपाध्यायविरचितायां शारदीयाभिधायां लघुनाममालायां प्रथमः काण्डः ॥ १ ॥

मनुष्यो मानवो मर्त्यो मनुजो मानुषो नरः ।ना विट् पञ्चजनो भूस्पृक् पुरुषः पूरुषः पुमान् ॥ १ ॥
2.1.1 · p. 20
अनुष्टुप्
उपयामः परिणयो विवाहः पाणिपीडनम् ।पाणिग्रहणमुद्वाहो दारकर्म विवाहनम् ॥ ५ ॥
2.1.5 · p. 20
अनुष्टुप्
भर्ता विवोढा रमणो भोक्ता नाथः पतिर्धवः ।वरो वरयिता कान्तो वल्लभो दयितः प्रियः ॥ ६ ॥
2.1.6 · p. 20
अनुष्टुप्
प्राणेशः प्रणयी प्रेयान्प्रेष्ठः प्राणसमोऽधिकः ।प्रीतः प्रियतमः सेक्ता आर्यपुत्रश्च नायकः ॥ ७ ॥
2.1.7 · p. 20
अनुष्टुप्
ऊढा पाणिगृहीता च कलत्रं गृहिणी वधूः ।दयिता च प्रियतमा द्वितीया च सधर्मिणी ॥ ९ ॥
2.1.9 · p. 20
अनुष्टुप्
पिता तु जनकस्तातो वप्ता जनयितापि च ।अम्बा माता सवित्री च जनयित्री जनन्यपि ॥ १० ॥
2.1.10 · p. 20
अनुष्टुप्
नन्दनस्तनयः पुत्रो दारकः सूनुरुद्वहः ।सुतोऽङ्गज आत्मजश्च पुत्री तु दुहिता सुता ॥ ११ ॥
2.1.11 · p. 20
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 ज (wrong syllable)
बालः स्तनंधयः पोतः पाको डिम्भोऽर्भकः शिशुः ।कुमारः पृथुकः शावः क्षीरकण्ठः किशोरकः ॥ १२ ॥
2.1.12 · p. 21
अनुष्टुप्
भ्राता सहोदरो बन्धुः सहजो बान्धवोऽपि च ।भगिनी तु स्वसा जामिर्दंपती दयितापती ॥ १४ ॥
2.1.14 · p. 21
अनुष्टुप्
वंशोऽन्वयः कुलं गोत्रं जननाभिजने अपि ।सती पतिव्रता साध्वी दासी चेटी च चेटिका ॥ १५ ॥
2.1.15 · p. 21
अनुष्टुप्
दूती संचारिका चुन्दी कुट्टिनी सम्भली समाः ।पण्यस्त्री गणिका वेश्या रूपाजीवा पणाङ्गना ॥ १६ ॥
2.1.16 · p. 21
अनुष्टुप्
मित्रं सखा सहचरौ वयस्यः सवयाः सुहृत् ।आली सखी वयस्या च सध्रीची सहचारिणी ॥ १८ ॥
2.1.18 · p. 21
अनुष्टुप्
शरीरं विग्रहो देहो गात्रं क्षेत्रं तनुस्तनूः ।अङ्गः कायो वपुर्वर्ष्म मूर्तिर्वेरं कलेवरम् ॥ १९ ॥
2.1.19 · p. 21
अनुष्टुप्
संहननं घनो बन्धः पुरः पिण्डं च पुद्गलम् ।हृषीकमक्षं करणं ग्रहणं च खमिन्द्रियम् ॥ २० ॥
2.1.20 · p. 21
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 न (wrong syllable)
आत्मा जीवोंऽशुमाञ्जन्तुर्देही प्राणी च चेतनः ।जन्युः शरीरी पुरुषो हंसः सत्त्वं पुनर्भवा (?) ॥ २१ ॥
2.1.21 · p. 21
अनुष्टुप्
स्वान्तं चित्तं मनश्चेतो मानसं हृदयं च तत् ।अन्तःकरणमप्यस्य संकल्पश्च मनोरथः ॥ २२ ॥
2.1.22 · p. 21
अनुष्टुप्
शीर्षकं मस्तकं मुण्डं मौलिर्मस्तं च मस्तिकम् ।उत्तमाङ्गं शिरो मूर्धा करणत्राणमेव च ॥ २३ ॥
2.1.23 · p. 22
अनुष्टुप्
केशा बालाश्च चिकुरा अलकाः कुन्तलाः कचाः ।शिरोरुहास्तीर्थवाका मूर्धजास्तत्समुच्चये ॥ २४ ॥
2.1.24 · p. 22
अनुष्टुप्
केशात्कलापरचनापाशभारचया अपि ।कवरी वेणिका वेणी धम्मिल्ला गुम्फिताः कचाः ॥ २५ ॥
2.1.25 · p. 22
अनुष्टुप्
केशेषु वर्त्म सीमन्तः कुरलो भ्रमरालकः ।शिखा शिखण्डिका चूडा बालानां काकपक्षकः ॥ २६ ॥
2.1.26 · p. 22
अनुष्टुप्
मुखकेशाः श्मश्रु कूर्चो लोम रोम तनूरुहम् ।रोमावली रोमलता रोमराजी हृदूदरे ॥ २७ ॥
2.1.27 · p. 22
अनुष्टुप्
मुखं तु वदनं वक्त्रं तुण्डमास्यं तथाननम् ।ललाटमलिकं भालं गोध्यलीके ललाटिका ॥ २८ ॥
2.1.28 · p. 22
अनुष्टुप्
कर्णः श्रोत्रं श्रवणं च शब्दग्राहः श्रुतिः श्रवः ।नक्रं तु नासिका नासा घ्राणं घोणा च शिङ्घिनी ॥ २९ ॥
2.1.29 · p. 22
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 व (wrong syllable)
नयनं लोचनं नेत्रमीक्षणं चक्षुरम्बकम् ।अक्षि दृग्दृष्टिरस्यान्तस्तारका च कनीनिका ॥ ३० ॥
2.1.30 · p. 22
अनुष्टुप्
अर्धदृग्वीक्षणं काक्षः कटाक्षोऽपाङ्गदर्शनम् ।क्रोधाद्भवो विकारो यो भ्रकुटिर्भृकुटिश्च सा ॥ ३१ ॥
2.1.31 · p. 22
अनुष्टुप्
पक्ष्म स्यान्नेत्ररोमाणि भ्रूरूर्द्ध्वं रोमपद्धतिः ।गल्लो गण्डः कपोलश्च चिबुकं त्वधरादधः ॥ ३२ ॥
2.1.32 · p. 22
अनुष्टुप्
ओष्ठोऽधरो दन्तवस्त्रं तथा च रदनच्छदम् ।रदना दशना दन्ता द्विजा दंशा रदा अपि ॥ ३३ ॥
2.1.33 · p. 23
अनुष्टुप्
जिह्वा रसज्ञा रसना कण्ठो निगरणो गलः ।अंशः स्कन्धो भुजशिरो बाहुर्बाहा च दोर्भुजः ॥ ३४ ॥
2.1.34 · p. 23
अनुष्टुप्
हस्तः करः शयः पाणिः पञ्चशाखश्च स स्मृतः ।अङ्गुल्यः करशाखाः स्युस्तथाङ्गुष्ठाङ्गुलौ समौ ॥ ३५ ॥
2.1.35 · p. 23
अनुष्टुप्
कामाङ्कुशो महाराजः करजो नखरो नखः ।करशूकः कररुहो भुजाकण्टः पुनर्भवः ॥ ३६ ॥
2.1.36 · p. 23
अनुष्टुप्
शिरोधिः कंधरा ग्रीवा धमनिश्च शिरोधरा ।उरो हृद्धृदयं वक्षः स्तनान्तरभुजान्तरे ॥ ३७ ॥
2.1.37 · p. 23
अनुष्टुप्
स्तनौ कुचावुरोजौ च वक्षोजौ च पयोधरौ ।उदरं जठरं तुन्दं पिचण्डः कुक्षिरेव च ॥ ३८ ॥
2.1.38 · p. 23
अनुष्टुप्
त्रिवलिस्तूदरे रेखा नाभिः स्यात्तुन्दकूपिका ।अङ्कस्तु क्रोड उत्सङ्गः पृष्ठं वंशस्त्रिकं तथा ॥ ३९ ॥
2.1.39 · p. 23
अनुष्टुप्
मध्योऽवलग्नं विलग्नं मध्यमोऽलङ्क एव च ।काञ्चीपदं कटिः श्रोणिः कटीरं च ककुद्मती ॥ ४० ॥
2.1.40 · p. 23
अनुष्टुप्
अधो नितम्ब आरोहः स्त्रीकट्या जघनं पुरः ।उपस्थं च भगो योनिः स्त्रीचिह्नं स्मरमन्दिरम् ॥ ४१ ॥
2.1.41 · p. 23
अनुष्टुप्
पुंश्चिह्नं मेहनं मेढ्रं शिश्नं शेफ इति स्मृतम् ।अपानं तु गुदं पायुरूरू सक्थि समे उभे ॥ ४२ ॥
2.1.42 · p. 23
अनुष्टुप्
जानूरुपर्व चाष्ठीवत्प्रतिजङ्घा तु पिण्डिका ।पादः पदोंऽह्रिश्चरणश्चलनः क्रमणः क्रमः ॥ ४३ ॥
2.1.43 · p. 24
अनुष्टुप्
मण्डनं स्यादलंकारो भूषणाभरणे अपि ।शीर्षाभरणं शीर्षपुष्पं चूडामणिः शिरोमणिः ॥ ४४ ॥
2.1.44 · p. 24
अनुष्टुप्metre not read in every line
मौलिः किरीटं कोटीरमुष्णीषं मुकुटं तथा ।आपीडः शेखरोत्तंसावतंसाः शिरसः स्रजि ॥ ४५ ॥
2.1.45 · p. 24
अनुष्टुप्
ललामकं ललाटस्थं कर्णपूरं तु कर्णगम् ।तिलकं तमालपत्रं चित्रं पुण्ड्रं विशेषकम् ॥ ४६ ॥
2.1.46 · p. 24
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 त (wrong syllable)
पत्रलेखा पत्रलता पत्रभङ्गी ललाटिका ।ताडङ्कस्तु ताडपत्रं कुण्डलं कर्णवेष्टकम् ॥ ४७ ॥
2.1.47 · p. 24
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 प (wrong syllable); pāda 3, syllable 4 स्तु (wrong syllable)
नासानामग्रतः पुष्पमाभरणं च मौक्तिकम् ।अञ्जनं कज्जलं चैव ताम्बूलं मुखरञ्जनम् ॥ ४८ ॥
2.1.48 · p. 24
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 र (wrong syllable)
ग्रैवेयं कण्ठाभरणं कण्ठसूत्रं च कण्ठिका ।हारो मुक्तावली मुक्तामाला मुक्ताकलापकम् ॥ ४९ ॥
2.1.49 · p. 24
अनुष्टुप्
हारमध्यमणिः प्रोक्तो नायकस्तरलोऽपि च ।केयूरमङ्गदं बाहुरक्षकं करभूषणम् ॥ ५० ॥
2.1.50 · p. 24
अनुष्टुप्
मुद्रिका ऊर्मिका मुद्राभिज्ञानं चाङ्गुलीयकम् ।कटको वलयावापौ कङ्कणं करभूषणम् ॥ ५१ ॥
2.1.51 · p. 24
अनुष्टुप्
रसना मेखला काञ्ची कलापश्चापि सप्तकी ।कटिसूत्रं सारसनं किङ्किणी क्षुद्रघण्टिका ॥ ५२ ॥
2.1.52 · p. 24
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 सा (wrong syllable)
मञ्जीरं पादकटकं तुलाकोटिश्च नूपुरम् ।हंसकं सिञ्जिनी चेति यावकोऽलक्तकः स्मृतः ॥ ५३ ॥
2.1.53 · p. 24
अनुष्टुप्
माला स्रग्दाम माल्यं च स्नानं मज्जनमाप्लवः ।चार्चिक्यं समालम्भनमङ्गरागो विलेपनम् ॥ ५४ ॥
2.1.54 · p. 25
अनुष्टुप्metre not read in every line
अंशुकं वसनं वस्त्रं वासश्चीवरमम्बरम् ।पटश्च सिचयश्चेलं वस्त्रस्यान्तोऽञ्चलः स्मृतः ॥ ५५ ॥
2.1.55 · p. 25
अनुष्टुप्
क्षौमं दुकूलं दुगुलं पट्टकूलं पटोत्तमम् ।वेषो नेपथ्यमाकल्पमुष्णीषो मूर्धवेष्टनम् ॥ ५६ ॥
2.1.56 · p. 25
अनुष्टुप्
प्रावार उत्तरासङ्गो वैकक्षं बृहतिकापि च ।परिधानं वेष्टनकं कच्छा तत्पश्चिमाञ्चलम् ॥ ५७ ॥
2.1.57 · p. 25
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 4 बृह (syllable split); pāda 3, syllable 5 वे (wrong syllable)
कक्षापटस्तु कौपीनं नक्तकः कर्पटोऽपि च ।प्रच्छादनं प्रावरणं संव्यानं चोत्तरीयकम् ॥ ५८ ॥
2.1.58 · p. 25
अनुष्टुप्
कूर्पासः कञ्चुकश्चैव चोलः कञ्चुलिकाङ्गिका ।चण्डातकं चलनकं साटी चोटी च साटिका ॥ ५९ ॥
2.1.59 · p. 25
अनुष्टुप्
अन्तरीयं निवसनं परिधानमधोंशुकम् ।नीवी तद्बन्धनं ग्रन्थिः प्रालम्बं जुम्बणं समे ॥ ६० ॥
2.1.60 · p. 25
अनुष्टुप्
चूर्णानि वासयोगाः स्युः पिष्टातः पटवासकः ।वस्त्रादेर्यस्तु गन्धाद्यैः संस्कारः सोऽधिवासनम् ॥ ६१ ॥
2.1.61 · p. 25
अनुष्टुप्
आमोदश्च परिमलो गन्धो वासो विमर्दजः ।इष्टगन्धः सुगन्धिः स्यात्सुरभिर्घ्राणतर्पणः ॥ ६२ ॥
2.1.62 · p. 25
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 श्च (wrong syllable)
कुङ्कुमं घुसृणं वर्ण्यं रक्तं काश्मीरजन्म च ।श्रीखण्डो मलयजश्च गोशीर्षं चन्दनं स्मृतम् ॥ ६३ ॥
2.1.63 · p. 25
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 य (wrong syllable)
कर्पूरो घनसारश्च चन्द्राख्यो हिमवालुका ।कस्तूरिका मृगमदो मृगनाभिर्मृगाण्डकः ॥ ६४ ॥
2.1.64 · p. 25
अनुष्टुप्
कस्तूरी गन्धधूली च मदना मृगनाभिजा ।कृष्णागरुः काकतुण्डो राजार्हं वंशिकागरुः ॥ ६५ ॥
2.1.65 · p. 26
अनुष्टुप्
चोचाह्वयं तस्य सत्त्वं तद्धूपो देववल्लभः ।परिकर्माङ्गसंस्कारो मण्डनं च प्रसाधनम् ॥ ६६ ॥
2.1.66 · p. 26
अनुष्टुप्
दर्पणो मुकुरादर्शौ व्यजनं तालवृन्तकम् ।शोभा कान्तिर्विभूषा श्रीर्लक्ष्मीश्छाया द्युतिश्छविः ।राढाभिख्या च लावण्यं सुषमा विभ्रमोऽपि च ॥ ६७ ॥
2.1.67 · p. 26
अनुष्टुप्