कुसुमायुध
kusumāyudhaपुं · masc.In 5 kośas: 5 synonym verses.
प्रद्युम्नो मकरध्वजो मनसिजः सङ्कल्पजन्माङ्गजः,पञ्चेषुः कुसुमायुधश्च मदनो मारः स्मरो मन्मथः ।कन्दर्पो झषकेतनो रतिपतिः श्रीनन्दनो हृच्छयः,कामः शम्बरसूदनो मधुसखः शृङ्गारयोनिः स्मृतः ॥ ३२ ॥
शार्दूलविक्रीडितम्
genderपुंmasc.
अनन्यजो मधुसखः प्रद्युम्नः कुसुमायुधः ।शृङ्गारयोनिः पुष्पेषुः संकल्पात्मा रमासुतः ॥ ३१ ॥
अनुष्टुप्
genderपुंmasc.
पुष्पास्त्रः पुष्पचापश्च पुष्पेषुः कुसुमायुधः ।तथा कुसुमधन्वा वै कुसुमबाणसंज्ञकः ॥ ३१५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 म (wrong syllable)
genderपुंmasc.
रूपास्त्रः आत्मभूः कार्ष्णिः कुसुमेषुरनन्यजः ।नागचूर्णो मनसिजो मनोभूः कुसुमायुधः ।शमन्तको विश्वकेतुर्ब्रह्मसूर्मीनकेतनः ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
कन्दर्पः कुसुमायुधो रतिपतिः कामः स्मरो मन्मथःप्रद्युम्नो मकरध्वजो मनसिजः शृङ्गारजो दर्पकः ।मारः शम्बरशासनो मधुसखः संकल्पभूरात्मभूःपञ्चेषुः प्रसवध्वजो हृदिशयो रागाधिपोऽनन्यजः ॥ ३७ ॥
शार्दूलविक्रीडितम्
genderपुंmasc.