कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

रतिपति

ratipatiपुं · masc.

In 7 kośas: 7 synonym verses.

नामलिङ्गानुशासनम् Amarakośa · अमरसिंह स्वर्गवर्गः Amarakośa 1.1.26
मदनो मन्मथो मारः प्रद्युम्नो मीनकेतनः ।कन्दर्पो दर्पकोऽनङ्गः कामः पञ्चशरः स्मरः ॥ २५ ॥शम्बरारिर्मनसिजः कुसुमेषुरनन्यजः ।पुष्पधन्वा रतिपतिर्मकरध्वज आत्मभूः ॥अरविन्दमशोकं च चूतं च नवमल्लिका ।नीलोत्पलं च पञ्चैते पञ्चबाणस्य सायकाः ॥उन्मादनस्तापनश्च शोषणः स्तम्भनस्तथा ।सम्मोहनश्च कामस्य पञ्च बाणाः प्रकीर्तिताः ॥ २६ ॥
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध स्वर्गकाण्डम् Abhidhānaratnamālā (Halāyudha) 1.32 · p. 5
प्रद्युम्नो मकरध्वजो मनसिजः सङ्कल्पजन्माङ्गजः,पञ्चेषुः कुसुमायुधश्च मदनो मारः स्मरो मन्मथः ।कन्दर्पो झषकेतनो रतिपतिः श्रीनन्दनो हृच्छयः,कामः शम्बरसूदनो मधुसखः शृङ्गारयोनिः स्मृतः ॥ ३२ ॥
शार्दूलविक्रीडितम्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव यज्ञादिप्रकाण्डः Kalpadrukośa 3.3.39 · p. 455
मीनपुष्पार्थयोः केतूरमिलः कमनो रमः ।रत्यर्थात्पतिपर्याय आत्मभूर्मकराङ्ककः ॥ ३९ ॥
अनुष्टुप्
genderपुंmasc.doubtful
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति देववर्गः Śāradīyākhyanāmamālā 1.1.29 · p. 4
अनङ्गो मदनः कामो मारः पञ्चशरः स्मरः ।मनोभवो रतिपतिर्मन्मथो मकरध्वजः ॥ २९ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवविभागः Suśīlanāmamālā 3.320 · p. 42
कामस्य स्त्री रतिर्नाम्नी तस्मात् रतिपतिर्भवेत् ।ज्ञेयो रतिवरश्चापि योनिस्त्वस्य मनस्तथा ॥ ३२० ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण आदिदेवाध्यायः Śabdaratnākara 1.2.37 · p. 5
कन्दर्पः कुसुमायुधो रतिपतिः कामः स्मरो मन्मथःप्रद्युम्नो मकरध्वजो मनसिजः शृङ्गारजो दर्पकः ।मारः शम्बरशासनो मधुसखः संकल्पभूरात्मभूःपञ्चेषुः प्रसवध्वजो हृदिशयो रागाधिपोऽनन्यजः ॥ ३७ ॥
शार्दूलविक्रीडितम्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश आदिदेवाध्यायः Vaijayantī 1.1.28 · p. 5
पुष्पधन्वा रतिपतिः शंबरारिरनन्यजः ।शूर्पकारिर्मधुसखः पञ्चेषुर्विषमायुधः ॥ २८ ॥
अनुष्टुप्
genderपुंmasc.