कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

कन्दर्प

kandarpaपुं · masc.

In 15 kośas: 14 synonym verses, 14 as a meaning of another word.

नामलिङ्गानुशासनम् Amarakośa · अमरसिंह स्वर्गवर्गः Amarakośa 1.1.26
मदनो मन्मथो मारः प्रद्युम्नो मीनकेतनः ।कन्दर्पो दर्पकोऽनङ्गः कामः पञ्चशरः स्मरः ॥ २५ ॥शम्बरारिर्मनसिजः कुसुमेषुरनन्यजः ।पुष्पधन्वा रतिपतिर्मकरध्वज आत्मभूः ॥अरविन्दमशोकं च चूतं च नवमल्लिका ।नीलोत्पलं च पञ्चैते पञ्चबाणस्य सायकाः ॥उन्मादनस्तापनश्च शोषणः स्तम्भनस्तथा ।सम्मोहनश्च कामस्य पञ्च बाणाः प्रकीर्तिताः ॥ २६ ॥
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध स्वर्गकाण्डम् Abhidhānaratnamālā (Halāyudha) 1.32 · p. 5
प्रद्युम्नो मकरध्वजो मनसिजः सङ्कल्पजन्माङ्गजः,पञ्चेषुः कुसुमायुधश्च मदनो मारः स्मरो मन्मथः ।कन्दर्पो झषकेतनो रतिपतिः श्रीनन्दनो हृच्छयः,कामः शम्बरसूदनो मधुसखः शृङ्गारयोनिः स्मृतः ॥ ३२ ॥
शार्दूलविक्रीडितम्
genderपुंmasc.
गीर्वाणभाषाभूषण Gīrvāṇabhāṣābhūṣaṇa · त्रिविक्रम स्वर्गाधिकारो दिक्पालाधिकारश्च प्रथमस्तरङ्गः Gīrvāṇabhāṣābhūṣaṇa 1.22 · p. 10
कन्दर्पो दर्पकोऽनङ्गो मीनाङ्को मकरध्वजः ।शूर्पकारिर्मधुसखः पञ्चेषुर्विषमायुधः ॥ २२ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव नरादिप्रकाण्डः Kalpadrukośa 1.4.209 · p. 43
पुंसि लोलः स्मरस्तम्भः कन्दर्पः शङ्कुरित्यपि ।स्त्रियां कामलता क्लीबे शेफः शेपश्च न स्त्रियाम् ॥ २०९ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव नाट्यप्रकाण्डः Kalpadrukośa 2.5.30 · p. 420
कुतलः कमलश्चारो नन्दनश्चन्द्रमाः खरः ।कामदो विजयश्चैव कन्दर्पजयमङ्गलौ ॥ ३० ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव यज्ञादिप्रकाण्डः Kalpadrukośa 3.3.38 · p. 455
कामो विधाता कन्दर्प आमोजो विषयी पुनः ।सूर्पशम्बरवैर्यर्थः पञ्चवाणार्थ इत्यपि ॥ ३८ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ स्वर्गवर्गः Koṣakalpataru 1.2.30 · p. 11
कन्दर्प-दर्पक-रतीश्वर-शूर्पकारि-प्रद्युम्न-मन्मथ-मनोज-खरु-स्वजा इः ।पञ्चेषु-पुष्पशर-हृच्छय-शम्बरारि-मीनाङ्क-मार-मकरध्वज-रौक्मिणेयाः ॥ ३० ॥
वसन्ततिलका
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.10 · p. 7
कामः कन्तुः खरुर्मारः श्रीसुतो विषमायुधः ।कन्दर्पहृच्छयानङ्गजराभीरुरतिप्रियाः ॥ १० ॥
अनुष्टुप्
genderपुंmasc.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट ऊर्ध्वलोकसर्गः Paryāyaśabdaratna 1.44 · p. 7
कन्दर्पोऽनन्यजः कान्तः कौमारो दर्पको वशी ।प्रद्युम्नो विषमेषुश्च कुटिलः सर्वतापनः ॥ ४४ ॥
अनुष्टुप्
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति देववर्गः Śāradīyākhyanāmamālā 1.1.30 · p. 4
पुष्पधन्वा मनसिजः कन्दर्पो विषमायुधः ।सम्बरारिः सूर्पकारिर्दर्पको मीनकेतनः ॥ ३० ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवविभागः Suśīlanāmamālā 3.313 · p. 41
श्रीनन्दनश्च कन्दर्पः मधुदीपो महोत्सवः ।कन्तुः पुष्पध्वजो नाम मारश्च मधुसारथिः ॥ ३१३ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.45 · p. 4
रागरज्जुः कलाकेलिर्मधुदीपो रतिप्रियः ।कन्दर्पो मन्मथोऽनङ्गो दर्पको मकरध्वजः ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण आदिदेवाध्यायः Śabdaratnākara 1.2.37 · p. 5
कन्दर्पः कुसुमायुधो रतिपतिः कामः स्मरो मन्मथःप्रद्युम्नो मकरध्वजो मनसिजः शृङ्गारजो दर्पकः ।मारः शम्बरशासनो मधुसखः संकल्पभूरात्मभूःपञ्चेषुः प्रसवध्वजो हृदिशयो रागाधिपोऽनन्यजः ॥ ३७ ॥
शार्दूलविक्रीडितम्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश आदिदेवाध्यायः Vaijayantī 1.1.27 · p. 5
प्रद्युम्नो मन्मथः कामो मारो मनसिजः स्मरः ।कन्दर्पो दर्पकोऽनंगो मीनांको मकरध्वजः ॥ २७ ॥
अनुष्टुप्
genderपुंmasc.

कन्दर्प as a meaning in nānārtha verses