मदन
madanaपुं · masc.In 23 kośas: 43 synonym verses, 11 as a nānārtha head word, 30 as a meaning of another word.
मदनो जराभीररुनङ्गमन्मथौ कमनः कलाकेलिरनन्यजोऽङ्गजः ।मधुदीपमारौ मधुसारथिः स्मरो विषमायुधो दर्पककामहृच्छयाः ॥ २२७ ॥प्रद्युम्नः श्रीनन्दनश्च कंदर्पः पुष्पकेतनः ।पुष्पाण्यस्येषुचापास्त्राण्यरी शंवरशूर्पको ॥ २२८ ॥केतनं मीनमकरौ बाणाः पञ्च रतिः प्रिया ।मनःशृङ्गारसंकल्पात्मानो योनिः सुहृन्मधुः ॥ २२९ ॥
metre not recognised
genderपुंmasc.
माषस्तु मदनो नन्दी वृष्यो बीजवरो बली ॥ ११७१ ॥
अनुष्टुप्
genderपुंmasc.
मदनो मन्मथो मारः प्रद्युम्नो मीनकेतनः ।कन्दर्पो दर्पकोऽनङ्गः कामः पञ्चशरः स्मरः ॥ २५ ॥शम्बरारिर्मनसिजः कुसुमेषुरनन्यजः ।पुष्पधन्वा रतिपतिर्मकरध्वज आत्मभूः ॥अरविन्दमशोकं च चूतं च नवमल्लिका ।नीलोत्पलं च पञ्चैते पञ्चबाणस्य सायकाः ॥उन्मादनस्तापनश्च शोषणः स्तम्भनस्तथा ।सम्मोहनश्च कामस्य पञ्च बाणाः प्रकीर्तिताः ॥ २६ ॥
अनुष्टुप्
genderपुंmasc.
शल्यश्च मदने शक्रपादपः पारिभद्रकः ।भद्रदारु द्रुकिलिमं पीतदारु च दारु च ॥ ५३ ॥पूतिकाष्ठं च सप्त स्युर्देवदारुण्यथ द्वयोः ।
अनुष्टुप्
genderपुंmasc.
उन्मत्तः कितवो धूर्तो धत्तूरः कनकाह्वयः ॥ ७७ ॥मातुलो मदनश्चास्य फले मातुलपुत्रकः ।
अनुष्टुप्
genderपुंmasc.
प्रद्युम्नो मकरध्वजो मनसिजः सङ्कल्पजन्माङ्गजः,पञ्चेषुः कुसुमायुधश्च मदनो मारः स्मरो मन्मथः ।कन्दर्पो झषकेतनो रतिपतिः श्रीनन्दनो हृच्छयः,कामः शम्बरसूदनो मधुसखः शृङ्गारयोनिः स्मृतः ॥ ३२ ॥
शार्दूलविक्रीडितम्
genderपुंmasc.
वासन्ते स्यात्कुरबको मदनो धूर्तनागरौ ।करञ्जे स्यान्नक्तमालः प्रकीर्यश्चित्रबिल्वकः ॥ २१६ ॥
अनुष्टुप्
genderपुंmasc.
विरुक्षणे द्रवन्नालमदना पतकोद्रवे ।चिक्कणः कन्दगुणिकः प्रियङ्गुः पीततण्डुलः ॥ २७० ॥
अनुष्टुप्
genderपुंmasc.
कलत्रं सप्तमं चाथ द्यूनं च स्मरमन्मथम् ।जामित्रं मदनाह्वानं कामं ततोऽष्टमं मृतिम् ॥ ४५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 त (wrong syllable)
genderपुंmasc.
अङ्कोल्लोऽङ्कोठको रेची गूढपत्रो निकोचकः ।गुप्तस्वेदः पीतसारो मदनो गूढमल्लिका ॥ १८७ ॥
अनुष्टुप्
genderपुंmasc.
मदनोऽपि सदातारमुक्ताभ्यः पुष्प इत्यपि ।अट्टहासो मनोज्ञः स्याद्वनहासोऽथ शाम्भवः ॥ २६९ ॥
अनुष्टुप्
genderपुंmasc.
ग्रन्थिधारा गोलघटाफलः पिण्डीतकः पुनः ।तगरः शल्यकैडर्यो मदनः करहाटकः ॥ ३३२ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 गो (wrong syllable)
genderपुंmasc.
संवर्त्तकाख्यं मुशलं सौनन्दं च सुतः शठः ।मदनो मन्मथो मारः प्रद्युम्नो दर्पकः स्मरः ॥ ३७ ॥
अनुष्टुप्
genderपुंmasc.
मधुसारथि-र्मधुसखो मधुदीपोमदनः स्मरो मनसिजः कमनश्च ।विषमाशुगः कुसुमकेतन-कन्तू-रमकश्च काम-कमलासुत-गृत्साः ॥ ३१ ॥
metre not recognised
genderपुंmasc.
धुर्त्तरो मदनस्तूरी फलं मातुलपुत्रकः ।शङ्खिनी चोरपुष्पी स्याद्बहुफेना सुकेशिनी ॥ ११ ॥
अनुष्टुप्
genderपुंmasc.
आढकी तुबरी वर्णा राजमाषस्तु बर्वटः ।माषस्तु मदनो नन्दी वृष्यो बीजवरो बली ॥ ४० ॥
अनुष्टुप्
genderपुंmasc.
घण्टापुष्पस्तलफलो मातुलः कनकाह्वयः ।उन्मत्तो मदनश्चास्य फलं मातुलपत्रकम् ॥ २५३ ॥
अनुष्टुप्
genderपुंmasc.
हरेणुः खण्डिकश्चाथ चणके हरिमन्थकः ।माषे तु मदनो नन्दी वृष्यो बीजवरो बली ॥ ३८९ ॥
अनुष्टुप्
genderपुंmasc.
कृष्णे मरुङ्गी रक्तेऽस्मिन्मधुशिग्रुः सुभञ्जनः ।वासन्ते स्यात्कुरवको मदनो धूर्तनामकः ॥ ४३ ॥
अनुष्टुप्
genderपुंmasc.
भ्रामरं तु भ्रामरीकं क्षौद्रं सारसमाक्षिके ।मदनं तु मधूच्छिष्टं मेणवं तु विलाकरम् ॥ २२४ ॥
अनुष्टुप्
genderक्लीneut.
तत्पुत्रो मन्मथः कामः सूर्पकारातिरनन्यजः ।कायपर्यायरहितो मदनो मकरध्वजः ॥ ७७ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderपुंmasc.
भूतघ्नी राक्षसी गौरी सुरसा देवदुन्दुभिः ।वाकुची सोमवल्ली तु मदनः करघाटकः ॥ ६४ ॥
अनुष्टुप्
genderपुंmasc.
तज्जटायां तु मदनं तत्खड्गे खचितः स्मृतः ।तद्दण्डे मणिदः सारः तद्धनौ घोररूपिणी ॥ १४ ॥
अनुष्टुप्
genderक्लीneut.
चन्द्रा हिरण्मयी कान्ता कान्तकान्तारवासिनी ।मदनो मन्मथो वामो रामो रजकवाहनः ॥ २२ ॥
अनुष्टुप्
genderपुंmasc.
अनङ्गो मदनः कामो मारः पञ्चशरः स्मरः ।मनोभवो रतिपतिर्मन्मथो मकरध्वजः ॥ २९ ॥
अनुष्टुप्
genderपुंmasc.
शिखिमृत्युर्मनोदाही मथनो मन्मथः स्मरः ।मदनो यौवनोद्भेदः प्रद्युम्नः पुष्पकेतनः ॥ ३११ ॥
अनुष्टुप्
genderपुंmasc.
उन्मत्तः कितवश्चापि प्रख्यातो मदनः पुनः ।नामान्येतानि कथ्यन्ते धत्तूरस्य हि पण्डितैः ॥ २०५७ ॥
अनुष्टुप्
genderपुंmasc.
प्रसिद्धश्चणकश्चैव हरिमन्थक उच्यते ।माषश्च मदनो वृष्यो नन्दी बीजवरो बली ॥ २१११ ॥
अनुष्टुप्
genderपुंmasc.
genderक्लीneut.
स्यादेककुण्डलो रामो लाङ्गली मुष्टिकान्तकः ।कामः पञ्चशरो मारः प्रद्युम्नो मदनः स्मरः ॥
अनुष्टुप्
genderपुंmasc.
शमीवृक्षे शत्रुफला समी शक्तुफली शिवा ।मदनः स्यान्मरुवकः श्वसनः करहाटकः ॥
अनुष्टुप्
genderपुंmasc.
मदनोन्मत्तकितवा मातुलः कनकाह्वयः ।धुस्तूरस्य फले सद्भिरुक्तो मातुलपुत्रकः ॥फलपूरो वीजपूरः पूर्णको वीजपूरकः ।च्छोलङ्गो मातुलुङ्गश्च रुचको मातुलुङ्गुके ॥
अनुष्टुप्
genderपुंmasc.
अनङ्गो मदनः पुष्पकार्मुको मीनकेतनः ।ब्रह्मसूस्त्वनिरुद्धः स्यादृश्यकेतुरुषापतिः ॥ ३८ ॥
अनुष्टुप्
genderपुंmasc.
उल्लेखनीयो लक्ष्मीवान् स्रावणश्च सरश्च सः ।शिग्रुर्मोचकतीक्ष्णगन्धवृषदा अक्षीभशोभाञ्जनौरक्तोऽसौ मधुशिग्रुरेव वनजः स्यात् फेनिलोऽरिष्टकः ।शल्यः स्यात् करहाटको मरुवकः पिण्डीतकश्छर्दन-स्तस्मिन् गारवराटकौ च मदनश्चाङ्गारकस्त्विङ्गुदी ॥ ४८४ ॥
अनुष्टुप्two metres in one verse
genderपुंmasc.
एकाष्ठीलः पाशुपतालर्को च शिवमल्ल्यपि ।शुक्लपुष्पः कुरवको नागरो मदनोऽपि सः ॥ ५२१ ॥
अनुष्टुप्
genderपुंmasc.
मादनो मदनश्चास्य फले मातुलपुत्रकः ।काला मसूरविदला पाठिनी च सुषेणिका ॥ ५३५ ॥
अनुष्टुप्
genderपुंmasc.
सर्वस्वभूतः पञ्चेषोः शृङ्गारः शुचिरुज्वलः ।स्निग्धं निष्पन्दमन्दस्तिमितविहसितन्यञ्चिताकुञ्चितानिस्मेरानन्दिप्रसन्नस्थिरमसृणमहीत्यश्रुविष्फारितानि ।प्रेङ्खोलोल्लासिलोलप्रणयिविलुलितप्रेमगर्भत्रिभङ्गि-व्यासङ्गिस्फीतकान्तीन्यलसमदनकह्लादिरूक्षाञ्चितानि ॥ ९६४ ॥
अनुष्टुप्two metres in one verse
genderविadj.
जटायुरथ भावज्ञा बला वृन्ताथ भूर्जके ।चर्मी च भूर्जपत्रश्च धूर्तो मदनदुर्द्धुरौ ॥ १७९२ ॥
अनुष्टुप्
genderपुंmasc.
वशाकुर्मदनः पीतुर्मशाको मदुरो द्विजः ।ऊकः शकुन्तिः शकुनिः शकुन्तशकुनः खगः ॥ ३ ॥
अनुष्टुप्
genderपुंmasc.
कृतमालः सुपर्णश्च मदने तु फणी रसः ।पिण्डीतके मरुवक इक्ष्वाकुर्गालवामनौ ॥ ४९ ॥
अनुष्टुप्
genderपुंmasc.
वासन्ते स्यात् कुरवकस्तिलकः कुवको मधुः ।शुक्लपुष्पः कुरवको मदनो धूर्तनागरौ ॥ ६१ ॥
अनुष्टुप्
genderपुंmasc.
विरूक्षकोद्रवोन्नालमदना वनकोद्रवे ।चिक्काणकंगुनी कंगुः प्रियंगुः पीततण्डुला ॥ ५५ ॥
अनुष्टुप्
genderपुंmasc.
मदनस्तु मधूछिष्टं स्नेहोऽस्त्री पिच्छिले रसे ।स्नेहे तिलानां तैलं स्यादन्येषां नामपूर्वकम् ॥ १३७ ॥
अनुष्टुप्
genderपुंmasc.
मदनः पादपे कामे मधूच्छिष्टवसन्तयोः ।शकुनो विहगे ज्ञेयः शकुनः शुभशंसकः ॥
अनुष्टुप्
वसन्तवृक्षे रतिनायके चधत्तूरवृक्षे मदनस्तुरुष्के ।भल्लातके स्याद्दहनो हुताशेदुष्टेङ्गिते स्यादपि चित्रके च ॥ १५ ॥
उपजातिः
निष्क्रयेऽप्याह मदनः पुनः पुंसि मनोभवे ।पिण्डीतकतरौ स्याच्च धुर्धूरे वनकोद्रवे ॥ १३२९ ॥
अनुष्टुप्
वृक्षे कुरवकाभिख्ये मधूच्छिष्टवसन्तयोः ।कस्तूरिकामृगस्याण्डे पुनः मी मदनी तथा ॥ १३३० ॥
अनुष्टुप्
भोगी पुंसि भुजङ्गे स्याद् ग्रामपात्रे महीपतौ ।महिषी व्यतिरिक्तायां राजयोषिति भोगिनी ॥मदनः कामधुस्तूरवसन्तद्रुमसिकथके ।मलनं मर्दने क्लीबं पटवासे भवेत्पुमान् ॥मलिनं दूषिते कृष्णे ऋतुमत्यां मलिन्यपि ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 6 सिक (syllable split)
मदन as a meaning in nānārtha verses
- धरणिकोश पिण्डीतकमण्डलकं कुष्ठभेदे बिम्बेऽपि कुक्कुरे विदुः । विदूषको नटबटुर्यश्च दूषणकारकः । पिण्डीतको मदनाख्ये पादपे तगरेऽपि च ॥ Dharaṇikośa 1.2.56
- धरणिकोश करहाटपरपुष्टः पिके प्रोक्तः परेण पोषितेऽपि च । करहाटश्चाब्जकन्दे मदनाख्ये तु पादपे ॥ Dharaṇikośa 10.2.17
- धरणिकोश कामकामं काम्ये निकामे च कामस्तु मदनेच्छयोः । यत्काममभ्यनुज्ञाने तदव्ययमुदाहृतम् ॥ Dharaṇikośa 24.3.2
- कोषकल्पतरु रागचूर्णस्याद्रागचूर्णो मदनेऽपि दन्त- प्रक्षालने रक्त*वालुकेऽपि । स्यात्तैलपर्णी मलयोद्भवे स्त्री श्रीवासके सिह्लकवाचिकापि ॥ ६४ ॥ Koṣakalpataru 6.15.64
- कोषकल्पतरु तिथतिथोऽनले स्यान्मदनेऽथ नीथं स्तोत्रे गुदे नेतरि वाच्यलिङ्गम् । पाथो रवौ नाम्बु हविर्गतोऽन्त्ये कोथोऽक्षिरोगे शटिते च मन्थे ॥ ९३ ॥ Koṣakalpataru 6.18.93
- कोषकल्पतरु संप्रयोगिन्प्रचलाकी तु भुजंगे कथितो ज्ञैश्चित्रमेखले तद्वत् । कम्रे तु संप्रयोगी मदने स्यात्संप्रयोजके तद्वत् ॥ ६९ ॥ Koṣakalpataru 6.21.69
- कोषकल्पतरु वर्यतथार[36a]भट्यां मदने तु वर्यः पतिंवरायां तु भवेत्स्त्रियां सः । त्रय्यां वरेण्ये कमठे तु दम्भे गुह्योऽप्युपस्थे रहसि द्वयोनः ॥ १६ ॥ Koṣakalpataru 6.26.16
- नानार्थार्णवसंक्षेप चीनचीनो ना पीतमुद्गे स्याद् काककङ्गद्रुमान्तरे । मदनाख्ये तथोदीच्यनीवृद्भेदे तु भूम्नि च ॥ ४२४ ॥ Nānārthārṇavasaṃkṣepa 2.5.424
- नानार्थार्णवसंक्षेप कण्टकिन्अरिमेदाख्यवृक्षे च वृक्षे च मदनाह्वये । त्रि तु कण्टकसंयुक्ते कञ्चुकी तु द्वयोरहौ ॥ ४२८ ॥ Nānārthārṇavasaṃkṣepa 4.428
- नानार्थार्णवसंक्षेप कैडर्यकैडर्यस्तु पुमान्निम्बे कट्फलाख्ये च पादपे । मदनाख्यद्रुमेऽथैषां त्रयाणां प्रसवे नपि ॥ ५८७ ॥ Nānārthārṇavasaṃkṣepa 4.587
- नानार्थार्णवसंक्षेप मातुलमदनाख्यद्रुमे चाथ रभसः शब्दवित्तमः । मातुर्भ्रातरि च स्त्री तु भार्यायां तस्य मातुली ॥ १४०९ ॥ Nānārthārṇavasaṃkṣepa 4.1409
- नानार्थार्णवसंक्षेप वामनद्वेष्टरि द्रुमभेदे च मदनाख्ये तथा भवेत् । दिग्गजे यमकाष्ठास्थे ह्रस्वे तु त्रिष्वथ स्मृतः ॥ १६६५ ॥ Nānārthārṇavasaṃkṣepa 4.1665
- नानार्थार्णवसंक्षेप श्वसनवधेऽपि शमयत्यर्थे त्रि तु स्याच्छान्तिसाधने । श्वसनस्तु पुमान् वायौ मदनाख्ये च पादपे ॥ १७७४ ॥ Nānārthārṇavasaṃkṣepa 4.1774
- नानार्थार्णवसंक्षेप मरुवकअथो मरुवको वृक्षभेदे मदनसंज्ञके । फणिर्जकाख्यस्तम्बे च मणिबन्धध्वनिः पुनः ॥ ९५ ॥ Nānārthārṇavasaṃkṣepa 6.95
- नानार्थार्णवसंक्षेप करहाटतस्य जात्यन्तरे स्वल्पे कलहाहः पुनर्नरि । मदनाख्यद्रुमे पद्मकन्देऽप्याह तु शाश्वतः ॥ १४८ ॥ Nānārthārṇavasaṃkṣepa 6.148
- नानार्थार्णवसंक्षेप शरीरजक्रिमौ च भेद्यलिङ्गस्तु विकलेन्द्रियजन्तुषु । शरीरजो ना मदने द्वे पुत्रे सादि पूर्ववत् ॥ ६०२ ॥ Nānārthārṇavasaṃkṣepa 6.602
- नानार्थार्णवसंक्षेप रणरणकउत्कण्ठे रणरणको वियोगे त्वाह सज्जनः । मदनेऽमरदत्तोऽमुमाचष्टे शब्दवित्तमः ॥ १५ ॥ Nānārthārṇavasaṃkṣepa 7.15
- शिवकोष घोण्टाघृष्टिर्मूलकमूलाभे पुमान् स्त्री तु विषोदरे । घोण्टा तु मदने पूगवृक्षे च बदरीभिदि ॥ ११८ ॥ Śivakoṣa 8.1.118
- शिवकोष छर्दनचन्दनोऽस्त्री मलयजे सारिवायां तु चन्दना । छर्दनो मदनो निम्बे बिम्बालम्बुषयोरपि ॥ २५१ ॥ Śivakoṣa 16.1.251
- शिवकोष शल्यशल्यं क्ष्वेडे च मदने शल्यः सेव्यस्तु पौण्ड्रके । सेव्या तु हृद्यगन्धायामथ सेव्यं रणप्रिये ॥ ३४८ ॥ Śivakoṣa 21.1.348
- शिवकोष फलफलं जातीफले पूगे मदने च फलत्रिके । कङ्कोले च फली गन्धफल्यां चम्पककोरके ॥ ४४४ ॥ Śivakoṣa 23.1.444
- शिवकोष फेनिलफेनिलः स्यादरिष्टेऽपि फेनिलं बदरीफले । मदने बहुलैलायां नीलिन्यां महिला स्त्रियाम् ॥ ४६८ ॥ Śivakoṣa 23.2.468
- शब्दरत्नावली शलाकावैजिकः कारणे शिग्रूतैले सद्योऽङ्करे पुमान् । शलाका मदने शल्ये शारिका शल्लकीभिदोः ॥ Śabdaratnāvalī 7.1.143
- शब्दरत्नावली सुवसन्तकउत्सवे मदनेऽपि स्यात् माधव्यं सुवसन्तकः । अथ यूय्यां हेमपुष्प्यां चम्पके हेमपुष्पकः ॥ Śabdaratnāvalī 7.1.217
- शब्दरत्नावली अनङ्गअयोगः कूटविश्लेषविधुरे कठिनोद्यमे । अनङ्गो मदने क्लीबं मनस्याकाशकेऽपि च ॥ Śabdaratnāvalī 7.3.30
- शब्दरत्नावली करहाटकरहाटः पद्मशिफाकन्दे च मदने द्रुमे । कार्यपुटस्तु कृपणे उन्मत्तेऽनर्थकारिणि ॥ Śabdaratnāvalī 7.11.55
- शब्दरत्नावली बीजपुष्पबीजपुष्पञ्च मदने क्लीबं मरुवकेऽपि च । वृषाकपिः पुंसि कृष्यो वीतिहोत्रे शिवेऽपि च ॥ हेमपुष्पं जवापुष्पेऽप्यशोके च नपुंसकम् । Śabdaratnāvalī 7.21.23
- शब्दरत्नावली शल्यशल्यं क्ष्वेडे तोमरे च मदनश्वाविदोः पुमान् । विषायुधभिदोः क्लीबं दुःसहे दुर्वचस्यपि ॥ Śabdaratnāvalī 7.26.32
- शब्दरत्नावली विचकिलरतकेलिः कलालापे षिङ्गे दन्तक्षतेऽपि च । भवेद्वायुफलं शक्रकार्मुके करकेऽपि च ॥ तथा विचकिलो मल्लीप्रभेदे मदनेऽपि च । बृहन्नलो बृहत्पोटगले दीर्घेऽर्जुनेऽपि च ॥ सदाफलं स्कन्धफले नारिकेलेऽप्युडूम्बरे । सिनीवाली दृष्टचन्द्रकलामान्दुर्गयोरपि ॥ सौवर्चलं लवणभित्सर्जिकाक्षारयोरपि । हस्तिमल्लः शङ्खनागे ऐरावतगणेशयोः ॥ हरितालं धातुभेदे स्त्री दूर्वाकाशयोरपि । हालाहलो ब्रह्मसर्प त्वञ्जनाखुभिदि स्त्रियाम् ॥ Śabdaratnāvalī 7.28.113
- तन्त्राभिधान ङकान्तिः श्वेताह्वयो धीरो द्विजात्मा ज्वालिनी वियत् । मन्त्रशक्तिश्च मदनो विघ्नेशी चात्मनायकः ॥ ७० ॥ Tantrābhidhāna 2.22.70