अङ्गज
aṅgajaपुं · masc.In 15 kośas: 14 synonym verses, 10 as a nānārtha head word.
मदनो जराभीररुनङ्गमन्मथौ कमनः कलाकेलिरनन्यजोऽङ्गजः ।मधुदीपमारौ मधुसारथिः स्मरो विषमायुधो दर्पककामहृच्छयाः ॥ २२७ ॥प्रद्युम्नः श्रीनन्दनश्च कंदर्पः पुष्पकेतनः ।पुष्पाण्यस्येषुचापास्त्राण्यरी शंवरशूर्पको ॥ २२८ ॥केतनं मीनमकरौ बाणाः पञ्च रतिः प्रिया ।मनःशृङ्गारसंकल्पात्मानो योनिः सुहृन्मधुः ॥ २२९ ॥
metre not recognised
genderपुंmasc.
प्रद्युम्नो मकरध्वजो मनसिजः सङ्कल्पजन्माङ्गजः,पञ्चेषुः कुसुमायुधश्च मदनो मारः स्मरो मन्मथः ।कन्दर्पो झषकेतनो रतिपतिः श्रीनन्दनो हृच्छयः,कामः शम्बरसूदनो मधुसखः शृङ्गारयोनिः स्मृतः ॥ ३२ ॥
शार्दूलविक्रीडितम्
genderपुंmasc.
कमला कमलावासभूमिका लोकमातृका ।प्रद्युम्नो मन्मथः श्रीमानड(?)मीनध्वजोऽङ्गजः ॥ ७ ॥
अनुष्टुप्
genderपुंmasc.
रोम लोमाङ्गजं त्वग्जं त्वचः पर्यायतो मलः ।वालपुत्रः परित्राणमन्तरा नासिकोष्ठयोः ॥ २४१ ॥
अनुष्टुप्
genderक्लीneut.
बर्हः पुमान्परीवारः सुविदत्रं कुटुम्बकम् ।पुत्रः सुतो[78a] दारकः स्यान्नन्दन्तो नन्दनोऽङ्गजः ॥ ६७ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
शीर्षं स्यात्करणत्राणं मुण्डं मूर्द्धा कमव्ययम् ।चिकुरश्चिहुरः केशो मूर्द्धजो वृजिनोऽङ्गजः ॥ २० ॥
अनुष्टुप्
genderपुंmasc.
कच्छो निकुञ्जो रज-भूर्ज-कुञ्ज-व्रजाङ्गजाः शङ्खगतस्तथाब्जः ।ध्वजो नटः कर्वटकुक्कुटाट्टाःकुटारकूटावपि कालकूटः ॥ ४१ ॥
उपजातिः
genderपुंक्लीm. n.
मधुदीपमनोजन्मानन्यजा मधुसारथिः ।तिथाङ्गजौ प्रिया चास्य [5] रतिः पुत्रोऽनिरुद्धकः ॥ १२ ॥
अनुष्टुप्
genderपुंmasc.
बालः केशस्तनुरुहो रोम लोमाङ्गजात्मजाः ।कूर्चं वक्त्रा शिखाश्मश्रु गुम्फः पुंस्त्वद्रुमाङ्कुरः ॥ ७९ ॥
अनुष्टुप्
genderपुंmasc.
नन्दनस्तनयः पुत्रो दारकः सूनुरुद्वहः ।सुतोऽङ्गज आत्मजश्च पुत्री तु दुहिता सुता ॥ ११ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 ज (wrong syllable)
genderपुंmasc.
अनन्यजोऽङ्गजोऽनङ्गः दर्पको विषमायुधः ।रागरज्जुर्जराभीरुः सर्वधन्वी प्रकर्षकः ॥ ३१२ ॥
अनुष्टुप्
genderपुंmasc.
अङ्गजः आत्मजः सूनुः नन्दनः कुलधारकः ।उद्वहो दारकः पुत्रो द्वितीयस्तनयः सुतः ॥ ८६४ ॥
अनुष्टुप्
genderपुंmasc.
शम्बरारिर्जवाभीरुर्मधुसारथिरङ्गजः ।संकल्पयोनिः पुष्पास्त्रः पुष्पधन्वा मनोभवः ॥
अनुष्टुप्
genderपुंmasc.
इः केतुर्मकराङ्कः सङ्कल्पभवोऽङ्गजश्च रूपास्त्रः ।रणरणको रतिरमणः संसारगुरुर्मनोजन्मा ॥ ३८ ॥
आर्या
genderपुंmasc.
शैलेयशिलाजतुनोःस्त्रियां तु गौर्यां च नद्यां च ।गजशङ्खदेशभित्सुस्यात्कम्बोजोऽङ्गजं तु रक्ते स्यात् ॥ ३८ ॥
metre not recognised
meaningsरक्त
पुंसि द्विपे च तनयेकेशेऽथाश्वे च पुंनागे ।काम्बोजः सितखदिरेमाषदलायां तु हिङ्गुपत्र्यां स्त्री ॥ ३९ ॥
metre not recognised
doubtful
त्रिस्त्वङ्गजातेऽथाबद्धस्त्रिर्निरर्थकवाचि च ।अनन्यबन्धेऽबन्धे तु क्लीबेऽथ स्यात् स्त्रियामियम् ॥ ७७ ॥
अनुष्टुप्
meaningsअङ्गजात
अंगजो ना सुतेऽनंगे क्ली रोगे रुधिरेऽपि च ।न ना कवाटे क्ली लोहे सोमे स्यादररः पुमान् ॥ १० ॥
अनुष्टुप्
doubtful