पञ्चेषु
pañceṣuपुं · masc.In 6 kośas: 6 synonym verses.
प्रद्युम्नो मकरध्वजो मनसिजः सङ्कल्पजन्माङ्गजः,पञ्चेषुः कुसुमायुधश्च मदनो मारः स्मरो मन्मथः ।कन्दर्पो झषकेतनो रतिपतिः श्रीनन्दनो हृच्छयः,कामः शम्बरसूदनो मधुसखः शृङ्गारयोनिः स्मृतः ॥ ३२ ॥
शार्दूलविक्रीडितम्
genderपुंmasc.
कन्दर्पो दर्पकोऽनङ्गो मीनाङ्को मकरध्वजः ।शूर्पकारिर्मधुसखः पञ्चेषुर्विषमायुधः ॥ २२ ॥
अनुष्टुप्
genderपुंmasc.
कन्दर्प-दर्पक-रतीश्वर-शूर्पकारि-प्रद्युम्न-मन्मथ-मनोज-खरु-स्वजा इः ।पञ्चेषु-पुष्पशर-हृच्छय-शम्बरारि-मीनाङ्क-मार-मकरध्वज-रौक्मिणेयाः ॥ ३० ॥
वसन्ततिलका
genderपुंmasc.
कन्दर्पः कुसुमायुधो रतिपतिः कामः स्मरो मन्मथःप्रद्युम्नो मकरध्वजो मनसिजः शृङ्गारजो दर्पकः ।मारः शम्बरशासनो मधुसखः संकल्पभूरात्मभूःपञ्चेषुः प्रसवध्वजो हृदिशयो रागाधिपोऽनन्यजः ॥ ३७ ॥
शार्दूलविक्रीडितम्
genderपुंmasc.
मधुप्रियोऽथ प्रद्युम्नो जराभीरुः शमातकः ।प्रसूनानिपञ्चेषू कञ्जनो मधुसारथिः ।रागरज्जुः कलाकेलिमधुदीपरवीषवः ॥ ३७ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderपुंmasc.
पुष्पधन्वा रतिपतिः शंबरारिरनन्यजः ।शूर्पकारिर्मधुसखः पञ्चेषुर्विषमायुधः ॥ २८ ॥
अनुष्टुप्
genderपुंmasc.