कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

अनन्यज

ananyajaपुं · masc.

In 12 kośas: 12 synonym verses.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य देवकाण्डः Abhidhānacintāmaṇi 2.229 · p. 14
मदनो जराभीररुनङ्गमन्मथौ कमनः कलाकेलिरनन्यजोऽङ्गजः ।मधुदीपमारौ मधुसारथिः स्मरो विषमायुधो दर्पककामहृच्छयाः ॥ २२७ ॥प्रद्युम्नः श्रीनन्दनश्च कंदर्पः पुष्पकेतनः ।पुष्पाण्यस्येषुचापास्त्राण्यरी शंवरशूर्पको ॥ २२८ ॥केतनं मीनमकरौ बाणाः पञ्च रतिः प्रिया ।मनःशृङ्गारसंकल्पात्मानो योनिः सुहृन्मधुः ॥ २२९ ॥
metre not recognised
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह स्वर्गवर्गः Amarakośa 1.1.26
मदनो मन्मथो मारः प्रद्युम्नो मीनकेतनः ।कन्दर्पो दर्पकोऽनङ्गः कामः पञ्चशरः स्मरः ॥ २५ ॥शम्बरारिर्मनसिजः कुसुमेषुरनन्यजः ।पुष्पधन्वा रतिपतिर्मकरध्वज आत्मभूः ॥अरविन्दमशोकं च चूतं च नवमल्लिका ।नीलोत्पलं च पञ्चैते पञ्चबाणस्य सायकाः ॥उन्मादनस्तापनश्च शोषणः स्तम्भनस्तथा ।सम्मोहनश्च कामस्य पञ्च बाणाः प्रकीर्तिताः ॥ २६ ॥
अनुष्टुप्
genderपुंmasc.
बालप्रबोधिका Bālaprabodhikā · नत्कीर प्रथमोपदेशः Bālaprabodhikā 1.6 · p. 66
सर्वेश्वरः कैटभारिर्गदापाणिरनन्यजः ।लक्ष्मीस्तु लोकजननी कलशाम्बुधिनन्दना ॥ ६ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ स्वर्गवर्गः Koṣakalpataru 1.2.32 · p. 11
इध्मः संकल्पजोऽनङ्गो-रागरज्जुरनन्यजः ।कलाकेलिर्जराभीर्वङ्गजौ शृङ्गारजो गवः ॥ ३२ ॥
अनुष्टुप्
genderपुंmasc.
नाममाला Nāmamālā (Dhanañjaya) · धनञ्जय Nāmamālā (Dhanañjaya) 77 · p. 39
तत्पुत्रो मन्मथः कामः सूर्पकारातिरनन्यजः ।कायपर्यायरहितो मदनो मकरध्वजः ॥ ७७ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.12 · p. 7
मधुदीपमनोजन्मानन्यजा मधुसारथिः ।तिथाङ्गजौ प्रिया चास्य [5] रतिः पुत्रोऽनिरुद्धकः ॥ १२ ॥
अनुष्टुप्
genderपुंmasc.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट ऊर्ध्वलोकसर्गः Paryāyaśabdaratna 1.44 · p. 7
कन्दर्पोऽनन्यजः कान्तः कौमारो दर्पको वशी ।प्रद्युम्नो विषमेषुश्च कुटिलः सर्वतापनः ॥ ४४ ॥
अनुष्टुप्
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति देववर्गः Śāradīyākhyanāmamālā 1.1.31 · p. 4
अनन्यजो मधुसखः प्रद्युम्नः कुसुमायुधः ।शृङ्गारयोनिः पुष्पेषुः संकल्पात्मा रमासुतः ॥ ३१ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवविभागः Suśīlanāmamālā 3.312 · p. 41
अनन्यजोऽङ्गजोऽनङ्गः दर्पको विषमायुधः ।रागरज्जुर्जराभीरुः सर्वधन्वी प्रकर्षकः ॥ ३१२ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.47 · p. 4
रूपास्त्रः आत्मभूः कार्ष्णिः कुसुमेषुरनन्यजः ।नागचूर्णो मनसिजो मनोभूः कुसुमायुधः ।शमन्तको विश्वकेतुर्ब्रह्मसूर्मीनकेतनः ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण आदिदेवाध्यायः Śabdaratnākara 1.2.37 · p. 5
कन्दर्पः कुसुमायुधो रतिपतिः कामः स्मरो मन्मथःप्रद्युम्नो मकरध्वजो मनसिजः शृङ्गारजो दर्पकः ।मारः शम्बरशासनो मधुसखः संकल्पभूरात्मभूःपञ्चेषुः प्रसवध्वजो हृदिशयो रागाधिपोऽनन्यजः ॥ ३७ ॥
शार्दूलविक्रीडितम्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश आदिदेवाध्यायः Vaijayantī 1.1.28 · p. 5
पुष्पधन्वा रतिपतिः शंबरारिरनन्यजः ।शूर्पकारिर्मधुसखः पञ्चेषुर्विषमायुधः ॥ २८ ॥
अनुष्टुप्
genderपुंmasc.