दर्पक
darpakaपुं · masc.In 14 kośas: 14 synonym verses, 2 as a nānārtha head word, 1 as a meaning of another word.
मदनो जराभीररुनङ्गमन्मथौ कमनः कलाकेलिरनन्यजोऽङ्गजः ।मधुदीपमारौ मधुसारथिः स्मरो विषमायुधो दर्पककामहृच्छयाः ॥ २२७ ॥प्रद्युम्नः श्रीनन्दनश्च कंदर्पः पुष्पकेतनः ।पुष्पाण्यस्येषुचापास्त्राण्यरी शंवरशूर्पको ॥ २२८ ॥केतनं मीनमकरौ बाणाः पञ्च रतिः प्रिया ।मनःशृङ्गारसंकल्पात्मानो योनिः सुहृन्मधुः ॥ २२९ ॥
metre not recognised
genderपुंmasc.
मदनो मन्मथो मारः प्रद्युम्नो मीनकेतनः ।कन्दर्पो दर्पकोऽनङ्गः कामः पञ्चशरः स्मरः ॥ २५ ॥शम्बरारिर्मनसिजः कुसुमेषुरनन्यजः ।पुष्पधन्वा रतिपतिर्मकरध्वज आत्मभूः ॥अरविन्दमशोकं च चूतं च नवमल्लिका ।नीलोत्पलं च पञ्चैते पञ्चबाणस्य सायकाः ॥उन्मादनस्तापनश्च शोषणः स्तम्भनस्तथा ।सम्मोहनश्च कामस्य पञ्च बाणाः प्रकीर्तिताः ॥ २६ ॥
अनुष्टुप्
genderपुंmasc.
दर्पकः शूर्पकारातिरनङ्गो विषमायुधः ।आत्मभूर्मनसिशयः पुष्पधन्वा मनोभवः ॥ ३३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 र्म (wrong syllable)
genderपुंmasc.
कन्दर्पो दर्पकोऽनङ्गो मीनाङ्को मकरध्वजः ।शूर्पकारिर्मधुसखः पञ्चेषुर्विषमायुधः ॥ २२ ॥
अनुष्टुप्
genderपुंmasc.
संवर्त्तकाख्यं मुशलं सौनन्दं च सुतः शठः ।मदनो मन्मथो मारः प्रद्युम्नो दर्पकः स्मरः ॥ ३७ ॥
अनुष्टुप्
genderपुंmasc.
कन्दर्प-दर्पक-रतीश्वर-शूर्पकारि-प्रद्युम्न-मन्मथ-मनोज-खरु-स्वजा इः ।पञ्चेषु-पुष्पशर-हृच्छय-शम्बरारि-मीनाङ्क-मार-मकरध्वज-रौक्मिणेयाः ॥ ३० ॥
वसन्ततिलका
genderपुंmasc.
प्रद्युम्नः कमनः पुष्पकेतनो मकरध्वजः ।शम्बरारिः स्मरः पुष्पधन्वा दर्पकमन्मथौ ॥ ११ ॥
अनुष्टुप्
genderपुंmasc.
कन्दर्पोऽनन्यजः कान्तः कौमारो दर्पको वशी ।प्रद्युम्नो विषमेषुश्च कुटिलः सर्वतापनः ॥ ४४ ॥
अनुष्टुप्
genderपुंmasc.
पुष्पधन्वा मनसिजः कन्दर्पो विषमायुधः ।सम्बरारिः सूर्पकारिर्दर्पको मीनकेतनः ॥ ३० ॥
अनुष्टुप्
genderपुंmasc.
अनन्यजोऽङ्गजोऽनङ्गः दर्पको विषमायुधः ।रागरज्जुर्जराभीरुः सर्वधन्वी प्रकर्षकः ॥ ३१२ ॥
अनुष्टुप्
genderपुंmasc.
रागरज्जुः कलाकेलिर्मधुदीपो रतिप्रियः ।कन्दर्पो मन्मथोऽनङ्गो दर्पको मकरध्वजः ॥
अनुष्टुप्
genderपुंmasc.
कन्दर्पः कुसुमायुधो रतिपतिः कामः स्मरो मन्मथःप्रद्युम्नो मकरध्वजो मनसिजः शृङ्गारजो दर्पकः ।मारः शम्बरशासनो मधुसखः संकल्पभूरात्मभूःपञ्चेषुः प्रसवध्वजो हृदिशयो रागाधिपोऽनन्यजः ॥ ३७ ॥
शार्दूलविक्रीडितम्
genderपुंmasc.
रुट्क्रुधावक्षामेर्ष्याथ संरम्भः कोपैवकृतम् ।अवष्टम्भस्मयाटोपगर्वाहंकारदर्पकाः ॥ ९७७ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
प्रद्युम्नो मन्मथः कामो मारो मनसिजः स्मरः ।कन्दर्पो दर्पकोऽनंगो मीनांको मकरध्वजः ॥ २७ ॥
अनुष्टुप्
genderपुंmasc.
दशेरः सारमेये च सर्पे चाथो नृभूमनि ।मरुसंज्ञे जनपदे दशेरा दर्पकस्तु ना ॥ ९१५ ॥
अनुष्टुप्
meaningsकन्दर्प
दर्पक as a meaning in nānārtha verses
- शब्दरत्नावली दर्पतापः कृच्छे च सन्तापे तापी नद्यन्तरे स्त्रियाम् । त्रपा स्त्री कुलटायाञ्च स्याल्लज्जाकुलकीर्तिषु । दर्पः पुमानहङ्कारे कस्तूर्यां दर्पकेऽपि च ॥ Śabdaratnāvalī 7.21.8