कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

हृच्छय

hṛcchayaपुं · masc.

In 10 kośas: 11 synonym verses, 4 as a nānārtha head word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य देवकाण्डः Abhidhānacintāmaṇi 2.229 · p. 14
मदनो जराभीररुनङ्गमन्मथौ कमनः कलाकेलिरनन्यजोऽङ्गजः ।मधुदीपमारौ मधुसारथिः स्मरो विषमायुधो दर्पककामहृच्छयाः ॥ २२७ ॥प्रद्युम्नः श्रीनन्दनश्च कंदर्पः पुष्पकेतनः ।पुष्पाण्यस्येषुचापास्त्राण्यरी शंवरशूर्पको ॥ २२८ ॥केतनं मीनमकरौ बाणाः पञ्च रतिः प्रिया ।मनःशृङ्गारसंकल्पात्मानो योनिः सुहृन्मधुः ॥ २२९ ॥
metre not recognised
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध स्वर्गकाण्डम् Abhidhānaratnamālā (Halāyudha) 1.32 · p. 5
प्रद्युम्नो मकरध्वजो मनसिजः सङ्कल्पजन्माङ्गजः,पञ्चेषुः कुसुमायुधश्च मदनो मारः स्मरो मन्मथः ।कन्दर्पो झषकेतनो रतिपतिः श्रीनन्दनो हृच्छयः,कामः शम्बरसूदनो मधुसखः शृङ्गारयोनिः स्मृतः ॥ ३२ ॥
शार्दूलविक्रीडितम्
genderपुंmasc.
गीर्वाणभाषाभूषण Gīrvāṇabhāṣābhūṣaṇa · त्रिविक्रम स्वर्गाधिकारो दिक्पालाधिकारश्च प्रथमस्तरङ्गः Gīrvāṇabhāṣābhūṣaṇa 1.23 · p. 10
बन्धुर्वामो जराभीरुः हृच्छयो मधुसारथिः ।ब्रह्मसूस्त्वनिरुद्धः स्यादृश्यकेतुरुषापतिः ॥ २३ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ स्वर्गवर्गः Koṣakalpataru 1.2.30 · p. 11
कन्दर्प-दर्पक-रतीश्वर-शूर्पकारि-प्रद्युम्न-मन्मथ-मनोज-खरु-स्वजा इः ।पञ्चेषु-पुष्पशर-हृच्छय-शम्बरारि-मीनाङ्क-मार-मकरध्वज-रौक्मिणेयाः ॥ ३० ॥
वसन्ततिलका
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.10 · p. 7
कामः कन्तुः खरुर्मारः श्रीसुतो विषमायुधः ।कन्दर्पहृच्छयानङ्गजराभीरुरतिप्रियाः ॥ १० ॥
अनुष्टुप्
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति देववर्गः Śāradīyākhyanāmamālā 1.1.32 · p. 4
हृच्छयः कमनः कन्तुर्जराभीरुश्च तच्छराः ।मोहनोन्मादनौ शोषणश्च तापनमारणौ ॥ ३२ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवविभागः Suśīlanāmamālā 3.314 · p. 41
स्यान् मनसिशयश्चेति नामानि हृच्छयोऽपि च ।इषुश्चापं तथाऽस्त्रं च कामपुष्पादि कथ्यते ॥ ३१४ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण उक्तशेषाध्यायः Śabdaratnākara 3.8.1745 · p. 211
अग्निदः पूर्वगीर्वेदः स्यादकृत्रिमगीरपि ।शक्तिः श्रीः शूर्पकारातिरिक्षुधन्वा च हृच्छयः ॥ १७४५ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण उक्तशेषाध्यायः Śabdaratnākara 3.8.1750 · p. 212
बहुलोऽग्निर्वसुर्ज्योतिर्जठराग्निस्तु हृच्छयः ।झलका तु महाज्वाला समुद्राग्निरबिन्धनः ॥ १७५० ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश आदिदेवाध्यायः Vaijayantī 1.1.29 · p. 5
बंधुर्वामो जराभीरुर्हृच्छयो मधुसारथिः ।ब्रह्मसूरनिरुद्धः स्यादृश्यकेतुरुषापतिः ॥ २९ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश लोकपालाध्यायः Vaijayantī 1.2.21 · p. 10
कुक्ष्यग्निर्हृच्छयोऽथौर्वे द्वौ संवर्तकवाडवौ ।सहरक्षा दवो दुध्रस्तार्णे क्षामतरत्समौ ॥ २१ ॥
अनुष्टुप्
genderपुंmasc.
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् पुंल्लिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 3.2.248 · p. 32
तथा दारुहरिद्रायां वृक्षमात्रे तु कश्चन ।हिमारिस्तु रवौ वह्नौ हृच्छ्रयस्त्वपि मन्मथे ॥ २४८ ॥
अनुष्टुप्
doubtful
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् पुंल्लिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 3.2.249 · p. 32
कुक्ष्यग्नौ हेरुकस्तु स्यान्महाकालाह्वये गणे ।बुद्धभेदे च रभस इत्यध्यायः समाप्तवान् ॥ २४९ ॥
अनुष्टुप्
doubtful
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् चतुरक्षरकाण्डः Nānārthārṇavasaṃkṣepa 6.248 · p. 32
तथा दारुहरिद्रायां वृक्षमात्रे तु कश्चन ।हिमारिस्तु रवौ वह्नौ हृच्छ्रयस्त्वपि मन्मथे ॥ २४८ ॥
अनुष्टुप्
doubtful
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् चतुरक्षरकाण्डः Nānārthārṇavasaṃkṣepa 6.249 · p. 32
कुक्ष्यग्नौ हेरुकस्तु स्यान्महाकालाह्वये गणे ।बुद्धभेदे च रभस इत्यध्यायः समाप्तवान् ॥ २४९ ॥
अनुष्टुप्
doubtful