कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

प्रद्युम्न

pradyumnaपुं · masc.

In 18 kośas: 20 synonym verses, 1 as a nānārtha head word, 3 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य देवकाण्डः Abhidhānacintāmaṇi 2.229 · p. 14
मदनो जराभीररुनङ्गमन्मथौ कमनः कलाकेलिरनन्यजोऽङ्गजः ।मधुदीपमारौ मधुसारथिः स्मरो विषमायुधो दर्पककामहृच्छयाः ॥ २२७ ॥प्रद्युम्नः श्रीनन्दनश्च कंदर्पः पुष्पकेतनः ।पुष्पाण्यस्येषुचापास्त्राण्यरी शंवरशूर्पको ॥ २२८ ॥केतनं मीनमकरौ बाणाः पञ्च रतिः प्रिया ।मनःशृङ्गारसंकल्पात्मानो योनिः सुहृन्मधुः ॥ २२९ ॥
metre not recognised
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह स्वर्गवर्गः Amarakośa 1.1.26
मदनो मन्मथो मारः प्रद्युम्नो मीनकेतनः ।कन्दर्पो दर्पकोऽनङ्गः कामः पञ्चशरः स्मरः ॥ २५ ॥शम्बरारिर्मनसिजः कुसुमेषुरनन्यजः ।पुष्पधन्वा रतिपतिर्मकरध्वज आत्मभूः ॥अरविन्दमशोकं च चूतं च नवमल्लिका ।नीलोत्पलं च पञ्चैते पञ्चबाणस्य सायकाः ॥उन्मादनस्तापनश्च शोषणः स्तम्भनस्तथा ।सम्मोहनश्च कामस्य पञ्च बाणाः प्रकीर्तिताः ॥ २६ ॥
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध स्वर्गकाण्डम् Abhidhānaratnamālā (Halāyudha) 1.32 · p. 5
प्रद्युम्नो मकरध्वजो मनसिजः सङ्कल्पजन्माङ्गजः,पञ्चेषुः कुसुमायुधश्च मदनो मारः स्मरो मन्मथः ।कन्दर्पो झषकेतनो रतिपतिः श्रीनन्दनो हृच्छयः,कामः शम्बरसूदनो मधुसखः शृङ्गारयोनिः स्मृतः ॥ ३२ ॥
शार्दूलविक्रीडितम्
genderपुंmasc.
बालप्रबोधिका Bālaprabodhikā · नत्कीर प्रथमोपदेशः Bālaprabodhikā 1.7 · p. 66
कमला कमलावासभूमिका लोकमातृका ।प्रद्युम्नो मन्मथः श्रीमानड(?)मीनध्वजोऽङ्गजः ॥ ७ ॥
अनुष्टुप्
genderपुंmasc.
गीर्वाणभाषाभूषण Gīrvāṇabhāṣābhūṣaṇa · त्रिविक्रम स्वर्गाधिकारो दिक्पालाधिकारश्च प्रथमस्तरङ्गः Gīrvāṇabhāṣābhūṣaṇa 1.21 · p. 9
शैनिः कंसरिपुः शौरिः सारथिस्त्वस्य दारुकः ।प्रद्युम्नो मन्मथः कामो रामो मनसिजः स्मरः ॥ २१ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव साधारणप्रकाण्डः Kalpadrukośa 2.1.19 · p. 371
प्रद्युम्नो विद्युतः श्वेतो वज्रपक्षो बलाहकः ।शतजिह्वो हिरण्याक्षः कुमुदो विजयाकृतिः ॥ १९ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव यज्ञादिप्रकाण्डः Kalpadrukośa 3.3.37 · p. 455
संवर्त्तकाख्यं मुशलं सौनन्दं च सुतः शठः ।मदनो मन्मथो मारः प्रद्युम्नो दर्पकः स्मरः ॥ ३७ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ स्वर्गवर्गः Koṣakalpataru 1.2.30 · p. 11
कन्दर्प-दर्पक-रतीश्वर-शूर्पकारि-प्रद्युम्न-मन्मथ-मनोज-खरु-स्वजा इः ।पञ्चेषु-पुष्पशर-हृच्छय-शम्बरारि-मीनाङ्क-मार-मकरध्वज-रौक्मिणेयाः ॥ ३० ॥
वसन्ततिलका
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.11 · p. 7
प्रद्युम्नः कमनः पुष्पकेतनो मकरध्वजः ।शम्बरारिः स्मरः पुष्पधन्वा दर्पकमन्मथौ ॥ ११ ॥
अनुष्टुप्
genderपुंmasc.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट ऊर्ध्वलोकसर्गः Paryāyaśabdaratna 1.44 · p. 7
कन्दर्पोऽनन्यजः कान्तः कौमारो दर्पको वशी ।प्रद्युम्नो विषमेषुश्च कुटिलः सर्वतापनः ॥ ४४ ॥
अनुष्टुप्
genderपुंmasc.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त अण्डजमरीचिः Pañcatattvaprakāśa 6.3.387 · p. 27
शम्बरारिः पञ्चशरः प्रद्युम्नोऽनङ्ग आच्युतिः ।अम्बिका चण्डिका दुर्गा मृडानी मेनकात्मजा ॥ ३८७ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 प (wrong syllable)
genderपुंmasc.
शब्दचन्द्रिका Śabdacandrikā · वामनभट्टबाण समुद्राधिकारश्चतुर्थस्सर्गः Śabdacandrikā 4.14 · p. 41
सुसरो मकरो ग्राहे जलचारो वनौकसः ।मीनो मसलकः पुच्छी चिरजीवी निलिम्पकः ।गलग्राही काभिमुखः प्रद्युम्नः कर्णसागरः ॥ १४ ॥
अनुष्टुप्
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति देववर्गः Śāradīyākhyanāmamālā 1.1.31 · p. 4
अनन्यजो मधुसखः प्रद्युम्नः कुसुमायुधः ।शृङ्गारयोनिः पुष्पेषुः संकल्पात्मा रमासुतः ॥ ३१ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवविभागः Suśīlanāmamālā 3.311 · p. 41
शिखिमृत्युर्मनोदाही मथनो मन्मथः स्मरः ।मदनो यौवनोद्भेदः प्रद्युम्नः पुष्पकेतनः ॥ ३११ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.44 · p. 4
स्यादेककुण्डलो रामो लाङ्गली मुष्टिकान्तकः ।कामः पञ्चशरो मारः प्रद्युम्नो मदनः स्मरः ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण आदिदेवाध्यायः Śabdaratnākara 1.2.37 · p. 5
कन्दर्पः कुसुमायुधो रतिपतिः कामः स्मरो मन्मथःप्रद्युम्नो मकरध्वजो मनसिजः शृङ्गारजो दर्पकः ।मारः शम्बरशासनो मधुसखः संकल्पभूरात्मभूःपञ्चेषुः प्रसवध्वजो हृदिशयो रागाधिपोऽनन्यजः ॥ ३७ ॥
शार्दूलविक्रीडितम्
genderपुंmasc.
तन्त्राभिधान Tantrābhidhāna · अज्ञात मातृकानिघण्टु Tantrābhidhāna 5.17 · p. 36
अक्रूरो व्योमरूपश्च प्रद्युम्नश्चन्द्रसंज्ञकः ।अनुस्वारस्तथा बिन्दुरं-कारश्च शिरोगतः ॥ १७ ॥
अनुष्टुप्
genderपुंmasc.
तन्त्राभिधान Tantrābhidhāna · अज्ञात मध्वाचार्यविरचितमातृकानिघण्टु Tantrābhidhāna 6.15 · p. 42
अधोदन्तानिलो मित्रः प्रद्युम्नोऽनुग्रहेश्वरः ।नृसिंहाख्यो मुरारिश्च मायाविच्चौ-स्वरः स्मृतः ॥ १५ ॥
अनुष्टुप्
genderपुंmasc.
तन्त्राभिधान Tantrābhidhāna · अज्ञात अं Tantrābhidhāna 8.16.17 · p. 55
अनुस्वारो व्योमरूपः प्रद्युम्नः शङ्कुकर्णकः ।अक्रूरः स्थितिसंज्ञश्च बिन्दु-चन्द्रौ च अं-स्वरः ॥ १७ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश आदिदेवाध्यायः Vaijayantī 1.1.27 · p. 5
प्रद्युम्नो मन्मथः कामो मारो मनसिजः स्मरः ।कन्दर्पो दर्पकोऽनंगो मीनांको मकरध्वजः ॥ २७ ॥
अनुष्टुप्
genderपुंmasc.
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.1106 · p. 144
प्रद्युम्नो मन्मथे पुंसि प्रकृष्टद्युम्नके त्रिषु ।प्रसृता तु स्त्रियां जङ्घासंज्ञाङ्गे पुन्नपोः पुनः ॥ ११०६ ॥
अनुष्टुप्

प्रद्युम्न as a meaning in nānārtha verses