जवनिका
javanikāस्त्री · fem.In 9 kośas: 10 synonym verses.
genderस्त्रीfem.
अपटी काण्डपटः स्यात्प्रतिसीरा जवनिका तिरस्करिणी ।उच्छीर्षकमुपधानं धीरैरुपवर्हमाख्यातम् ॥ ३०९ ॥
आर्या
genderस्त्रीfem.
जवनी स्याजवनिका मार्जो मार्जा मृजा तथा ।चर्चिक्यमपि चार्चिक्यं चर्चा च चर्चिका समाः ॥ १९२ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 च (wrong syllable)
genderस्त्रीfem.
प्रतिसीरा जवनिका तिरसः करिकारिणी ।अपटी स्यात्पुमान् काण्डपटोथोल्लोच इत्यपि ॥ ३०० ॥
अनुष्टुप्
genderस्त्रीfem.
दशा भूम्नि द्वयोश्चाथ वर्तिर्वस्तिर्द्विलिङ्गकः ।दशा तूली जवनिका शाणी सच्छिद्रवाससि ।नक्तकः कर्पटोऽस्त्री स्यात्प्रोतं च पटलं त्रिषु ॥ ८८ ॥
अनुष्टुप्
genderस्त्रीfem.
अवस्तारो जवनिका नीरङ्गिन्यवगुण्ठिका ।अपटी प्रतिसीरा च स्यात्ति[94a]रस्करिणी च सा ॥ ४ ॥
अनुष्टुप्metre not read in every line
genderस्त्रीfem.
उल्लोचस्तु वितानेऽथ दूष्यं पटगृहे स्मृतम् ।काण्डवस्त्रे जवनिका स्यात्तिरस्करिणीति च ॥ १७६ ॥
अनुष्टुप्
genderस्त्रीfem.
मध्यालोका जवनिका कीलकं भूमिशङ्कुकम् ।सन्नद्धो दंशितः सज्झो वर्म्मितः कल्पितास्त्रकः ॥ २३५ ॥
अनुष्टुप्
genderस्त्रीfem.
अथावगुण्ठिका चावगुण्ठनञ्च निरिङ्गिनी ।अन्तःपटो यवनिका स्यात् तिरस्करिणी पटी ।प्रतिसीरा जवनिका चित्रा कान्तपटोऽपि च ॥
अनुष्टुप्
genderस्त्रीfem.
आस्तरणं प्रवेणीयुक् प्रवेणिः प्रतिसीरिका ।जवनी जवनिकापि यवनी यमनीति च ॥ २२७ ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 3 र (wrong syllable); pāda 3, syllable 6 नि (wrong syllable)
genderस्त्रीfem.