कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

कीलक

kīlakaपुं · masc.

In 12 kośas: 10 synonym verses, 10 as a meaning of another word.

नामलिङ्गानुशासनम् Amarakośa · अमरसिंह वैश्यवर्गः Amarakośa 2.9.129
ऊधस्तु क्लीबमापीनं समौ शिवककीलकौ ।
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.451 · p. 52
दूष्यं स्थुलं पटकुटी गुणलयनी केणिका च निर्दिष्टा ।ध्रुवकः शिवकः शङ्कुः पुष्पलकः कीलकः प्रोक्तः ॥ ४५१ ॥
आर्या
genderपुंmasc.
बालप्रबोधिका Bālaprabodhikā · नत्कीर दशमोपदेशः Bālaprabodhikā 10.184 · p. 83
मार्गे तु स्याद्धावनकः पन्थानः पदवी सृतिः ।पाणिन्धमस्तदल्पे स्याच्चोरमार्गे तु कीलकः ।सुराङ्गः कृत्रिमे मार्गे गविनी … च ॥ १८४ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.37 · p. 265
तोमरोऽस्त्री सर्वला स्त्री परिघः परिघातनः ।शूलिः स्त्री शूलमस्त्री*[स्यात् ] क्षिपणिः क्षिपका स्त्रियाम् ॥अरि क्लीबे चक्रमस्त्री गदादीनि पृथक्पृथक् ।शल्यं न स्त्री ध्रुवः शङ्कुः शम्बकः कीलकश्च सः ॥अस्रः पुंसि तथा कोणः स्त्रियः पाल्यश्रि-कोटयः ॥ ३७ ॥
अनुष्टुप्
genderपुंmasc.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट ऊर्ध्वलोकसर्गः Paryāyaśabdaratna 1.84 · p. 12
तरणिर्दमुनाः शोणः कीली शुक्रश्च कीलकः ।हरिरप्पित्तमः शुद्धो बभ्रुरुष्णो भृगुर्विधुः ॥ ८४ ॥
अनुष्टुप्
genderपुंmasc.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.359 · p. 71
धनुर्मध्ये लस्तकः स्यान्मौर्व्यां ज्या सिञ्जिनी गुणः ।गुणमध्ये तु जाणिश्च कीलकश्च किदालकः ॥ ३५९ ॥
अनुष्टुप्
genderपुंmasc.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.504 · p. 90
आपीनं चोध उन्धश्च (ऊधश्च?) गोपयोधरमण्डले ।पश्वादिबन्धकीले तु कीलकः शिवकोऽपि च ॥ ५०४ ॥
अनुष्टुप्
genderपुंmasc.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त भूमिभानुः Pañcatattvaprakāśa 2.235 · p. 16
मध्यालोका जवनिका कीलकं भूमिशङ्कुकम् ।सन्नद्धो दंशितः सज्झो वर्म्मितः कल्पितास्त्रकः ॥ २३५ ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश वैश्यवर्गप्रकाशः Śabdaratnāvalī 3.7.140 · p. 147
वाणमूधः क्लीवलिङ्गं भवेदापीनमस्त्रियाम् ।अथ गोबन्धके द्वौ तु समौ शिवक-कीलकौ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश भूताध्यायः Vaijayantī 4.4.123 · p. 183
स्फोटकः कीलको गण्डो विस्फोटः पिटका त्रयी ।खसः पुमान् स्त्रियः कच्छूपामपामाविचर्चिकाः ॥ १२३ ॥
अनुष्टुप्
genderपुंmasc.

कीलक as a meaning in nānārtha verses