पटल
paṭalaक्ली · neut.In 17 kośas: 31 synonym verses, 10 as a nānārtha head word, 1 as a meaning of another word.
genderक्लीneut.
संघाते प्रकरौघवारनिकरव्यूहाः समूहश्चयःसंदोहः समुदायराशिविसरव्राताः कलापो व्रजः ।कूटं मण्डलचक्रवालपटलस्तोमा गणः पेटकंवृन्दं चक्रकदम्बके समुदयः पुञ्जोत्करौ संहतिः ॥ १४११ ॥समवायो निकुरम्बं जालं निवहसंचयौ ।जातं तिरश्चां तद्यूथं संघसार्थौ तु देहिनाम् ॥ १४१२ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 कु (wrong syllable)
genderक्लीneut.
genderक्लीneut.
पटलं पेटकं चक्रं चक्रवालं च मण्डलम् ।जालं जातं तथा व्यूहवारस्तोमाश्च ते स्मृताः ॥ ६८७ ॥
अनुष्टुप्
genderक्लीneut.
पुंसिच्छदिः स्त्री पटलं त्रिषु स्याद्वलभी स्त्रियाम् ।गोपानसी स्यादाधारच्छादने वक्रदारुणि ॥ ७४ ॥
अनुष्टुप्
genderविadj.
सर्गो वर्गः परिच्छेदो द्योताध्यायाङ्कसंग्रहाः ।उल्लासः परिवर्त्तश्च पटलः काण्डमस्त्रियाम् ॥ ६२ ॥
अनुष्टुप्
genderपुंmasc.
स्याच्छृङ्खलमण्डलयोः पटलार्गलयोरपि ।पूलकन्दलयोरित्थमवहेलस्य तत्पुनः ॥ २०३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 ल (wrong syllable)
genderपुंक्लीm. n.
अङ्गनं प्राङ्गनं क्लीबेऽजिरं चत्वरमङ्गणम् ।छदौ छदिश्छादिषौ स्त्री कुलालं पटलं त्रिषु ॥ ४७ ॥
अनुष्टुप्
genderविadj.
निकुरम्बं वृन्द-जाल-जात-पेटकमन्तिमे ।चक्रमस्त्री चक्रवालं मण्डलं पटलं न ना ॥ २३ ॥
अनुष्टुप्
genderस्त्रीक्लीf. n.
दशा भूम्नि द्वयोश्चाथ वर्तिर्वस्तिर्द्विलिङ्गकः ।दशा तूली जवनिका शाणी सच्छिद्रवाससि ।नक्तकः कर्पटोऽस्त्री स्यात्प्रोतं च पटलं त्रिषु ॥ ८८ ॥
अनुष्टुप्
genderविadj.
यवाग्वां तरला पुष्पे पाटलं [पटलं] गणे ।भिक्षुपात्रे कपालं च विश्वं शुण्ठ्यां मले च विट् ।लक्षं मान उषः संध्या सदो रोदो विषः सरः ॥
अनुष्टुप्
genderस्त्रीक्लीf. n.
तारं तथा प्रतिसरं खलं तु पवनस्थले ।शललं शल्यरोमार्थं कुवलं पटलार्गलौ ॥ ८९ ॥
अनुष्टुप्
genderपुंस्त्रीक्लीm. f. n.
एते शब्दाः पुंसि स्युर्भवेयुरित्यर्थः । शीकरोऽम्बुकणः । तुषारो हिमसन्ततिः । तुषी धान्यबुषः कडङ्गरश्च । बुद्बुदो जलकङ्करः । फेनो जलस्य । समुद्रस्य ओसो अवश्यायः । तण्डुलो धान्यविशेषः । अपूपः पिष्टकस्य । एते शब्दाः स्त्रियामुदिताः कथिताः । इयमालिः पङ्क्तिः । मुक्ता रत्नम् । आजिर्युद्धम् । दर्विर्विभक्तसाधनी । सिकता वालुका ।अजिनाजिरशैवालनलमृणालतुहिनोडुपाज्यसस्यानि । द्वारास्पदकाष्ठानि च नपुंसकान्येव पटलं च ॥ ४७ ॥
metre not recognised
genderक्लीneut.
एते शब्दा नपुंसके भवन्ति । इदमजिनं मृगत्वक् । इदमजिरमङ्गणम् । शैवालं जलसम्भवम् । नलं सुवर्णभाजनम् । मृणालं पद्ममूलम् । तुहिनं तुषारः । उडुपं प्लवः । आज्यं घृतम् । सस्यं व्रीहिः । द्वारं[र] गृहस्य । आस्पदं राज्ञाम् । काष्ठमिन्धनं पटलगृहस्य तिमिरं वा । एवकारोऽवधारणे ।त्रिष्वप्यक्षेष्विन्द्रियसञ्ज्ञका एतान्नपुंसके विद्धि ।शेषाः पुंसि प्रोक्ताः श्रीपिष्टा[ष्ठा]द्याश्च निर्यासाः ॥ ४८ ॥
metre not recognised
genderक्लीneut.
छदिस्तु पटलं तुल्ये वलीकं नीव्रमुच्यते ।इन्द्रकोशस्तमङ्गोऽपि नीव्रप्रान्त उभौ समौ ॥ २८९ ॥
अनुष्टुप्
genderक्लीneut.
कलापः पटलं कूटं स्तोमो व्रातगणावपि ।संहतिः संचयो जातं चयो निवहजालके ॥ ३०४ ॥
अनुष्टुप्
genderक्लीneut.
लक्षं माने मधौ कल्पं [11] चये तु पटलं तथा ।वसन्ततिलकं काव्ये तिन्दुकं फलवाचकम् ॥ १६८ ॥
अनुष्टुप्
genderस्त्रीक्लीf. n.
समुदाये समुदयो व्यूहो वाह(र?)श्चयो गणः ।समवायश्च पटलं निकरश्चक्रवालकम् ॥ ७१ ॥
अनुष्टुप्
genderक्लीneut.
समुदायः समवायो निकुरम्बं च संचयः ।जालः कलापः पटलः संघातः पूगमण्डलौ ॥ ८६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 म (wrong syllable)
genderपुंmasc.
genderपुंmasc.
व्यूहो राशिस्तथा स्तोमः पुञ्जश्च पटलं पुनः ।ओघश्चेति हि नामानि समुदायस्य सन्ति वै ॥ २५६५ ॥
अनुष्टुप्
genderक्लीneut.
पक्षकः पक्षपालिः स्यात् पक्षद्वारं खडक्किका ।पटलः प्रान्तदेशे तु बलीकं नीध्रमित्यपि ॥
अनुष्टुप्
genderपुंmasc.
अथ चाल इति ख्याते कलटं पटलं छदिः ।वडभी छादने वक्रकाष्ठे गोपानसी मता ॥
अनुष्टुप्
genderक्लीneut.
क्लीबे तु वृन्द-पटल-मण्डलानि कदम्बकम् ।गणः समुदयो जालं जातञ्च निकुरम्बकम् ।समवायः संहतिः स्त्री विज्ञेयाः पञ्चविंशति ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
सर्गोद्यतपरिच्छेदपटलाध्यायसंग्रहाः ।उल्लासः परिवर्तश्च वर्गाङ्ककाण्डमस्त्रियाम् ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ङ्क (wrong syllable)
genderक्लीneut.
प्रघानः प्रघनोऽलिन्दे आलिन्दः पटलस्त्रिषु ।पटं छदिः छादिः सान्ते ल्कीत्वालेऽथेन्द्रकोशके ॥ ४९ ॥
अनुष्टुप्
genderविadj.
व्रजपुञ्जौ निकुरुम्बं जालं पटलं कदम्बकं चक्रम् ।वितानं मण्डलं चक्रवालं च वलयं कुलम् ॥ ८२८ ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
कपोतपालिकायां स्याद्विटङ्कं पुंनपुंसके ।नीव्रं वलीकमस्यान्ते चोलो ना पटलं छदिः ॥ ८५७ ॥
अनुष्टुप्
genderक्लीneut.
उच्छ्वासः परिवर्तश्च पटलः काण्डमस्त्रियाम् ।स्थानं प्रकरणं पर्वाह्निकं च ग्रन्थसन्धयः ॥ २५ ॥
अनुष्टुप्
genderपुंmasc.
कुलिशध्वजकार्षापणपिनाकमुस्तान्धकारशृङ्गवलयाः ।पटलप्रवालचषकोपवासकासारकटकसन्तानाः ॥ ११ ॥
गीतिःmetre not read in every line
genderपुंक्लीm. n.
कुड्योऽस्त्री भित्तिका कन्थाप्येडूकं त्वन्तरस्थिकम् ।नीव्रं वलीकं चोलान्ते चोलोऽस्त्री पटलं छदिः ॥ ३७ ॥
अनुष्टुप्
genderक्लीneut.
शुनि मुनिभिदि वह्नौ पुंसि पिङ्गेऽन्यवत्स्या-त्कपिल इह तु योषिच्छिंशपागोभिदोश्च ।अनलदिगिभनार्यां रेणुकायां तथाथत्रिषु पटलमुशन्ति ह्यूर्ध्वभागे गृहाणाम् ॥ ९९ ॥
मालिनी
meaningsगृहोर्ध्वभाग
पिटकतिलकदृग्रुग्बर्हपर्याय ओघेपुनरिह न नरेऽथ च्छागलश्छाग आद्ये ।युगमुगसितवस्त्रे स्त्री भवेद्वृद्धदारौशकृति तु शमलं स्यादंहसि प्राहुरेतत् ॥ ४४० ॥
मालिनी
doubtful
कर्दमे पटलं तु क्ली पुंसि चान्ये प्रचक्षते ।गृहच्छदिषि दृग्रोगविशेषाव्याययोरपि ॥ १०६३ ॥
अनुष्टुप्
नप्स्त्रियोस्तु समूहे स्यात् पटली पिटकान्तरे ।टलं तु बले क्लीबं त्रि तु स्याद्वाग्मिकल्ययोः ॥ १०६४ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
meaningsसमूह
परिच्छदे च तिलके न क्लीबं ग्रन्थवृक्षयोः ।प्रवालोऽस्त्री पल्लवे स्याद् वीणादण्डे च विद्रुमे ॥
अनुष्टुप्
doubtful
पटल as a meaning in nānārtha verses
- नानार्थार्णवसंक्षेप छदिस्अनूहसामग्रन्थेऽथच्छद्म सद्मनि कैतवे । छदिस्तु पटले गेहे जन्म तूत्पत्तितोययोः ॥ २४ ॥ Nānārthārṇavasaṃkṣepa 2.3.24