वर्ति
vartiस्त्री · fem.In 13 kośas: 17 synonym verses, 5 as a nānārtha head word, 5 as a meaning of another word.
कर्पूरागुरुकक्कोलकस्तूरीचन्दनद्रवैः ॥ ६३८ ॥स्याद्यक्षकर्दमो मिश्रैर्वर्तिर्गात्रानुलेपनी ।
अनुष्टुप्
genderस्त्रीfem.
नूपुरं तु तुलाकोटिः पादतः कटकाङ्गदे ॥ ६६५ ॥मञ्जीरं हंसकं शिञ्जिन्यंशुकं वस्त्रमम्बरम् ।सिचयो वसनं चीराच्छादौ सिक्चेलवाससी ॥ ६६६ ॥पटः प्रौतोऽञ्चलोऽस्यान्तो वर्तिर्वस्तिश्च तद्दशाः ।
अनुष्टुप्
genderस्त्रीfem.
गात्रानुलेपनी वर्तिर्वर्णकं स्याद्विलेपनम् ॥ १३३ ॥
अनुष्टुप्
genderस्त्रीfem.
धौतमुद्गमनीयं च वर्तिर्वस्तिर्दशाः सिचः ।एकार्था आविकौरभ्ररल्लकोर्णायुकम्बलाः ॥ ५५१ ॥
अनुष्टुप्
genderस्त्रीfem.
दशा भूम्नि द्वयोश्चाथ वर्तिर्वस्तिर्द्विलिङ्गकः ।दशा तूली जवनिका शाणी सच्छिद्रवाससि ।नक्तकः कर्पटोऽस्त्री स्यात्प्रोतं च पटलं त्रिषु ॥ ८८ ॥
अनुष्टुप्
genderपुंस्त्रीm. f.
विपणिर्भे श्रवणः स्या-त्तरणिस्त्वर्कादिके कफणिः ।गर्तो वर्तिर्वस्तिःस्वातिर्ज्ञातिर्वितस्ति-गव्यूती ॥ २४ ॥
metre not recognised
genderपुंस्त्रीm. f.
चीराम्बरे वस्त्रचेले वासः सिक् सिचयोंऽशुकम् ।पटाच्छादावथ प्रान्ते वस्तिवर्ती दशाः समाः ॥ ३१३ ॥
अनुष्टुप्
genderस्त्रीfem.
वर्तिः कुटिस्त्रुटिर्भल्लदंशगण्डूषलालसाः ।रत्न्यरत्नी अणिः श्रेणिरूर्मिशम्यौ मषी मसी ॥ ११३ ॥
अनुष्टुप्
genderपुंस्त्रीm. f.
अञ्चलं वस्त्रप्रान्तं स्याद् वर्तिर्वस्ति दशाः पुनः ।वस्त्रपेशी च प्रख्याता शोभायाः वर्द्धनी शुभा ॥ १०८५ ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 स्त्र (wrong syllable); pāda 3, syllable 5 च (wrong syllable)
genderस्त्रीfem.
वर्तिर्वर्ती द्वयोर्वस्तिर्बहुत्वे च दशा स्त्रियाम् ।असंख्येकाधिकरणे द्वित्वैकत्वे तदन्यतः (?) ॥
अनुष्टुप्
genderपुंस्त्रीm. f.
गात्रानुसारिणी वर्तिर्वर्ती गात्रानुलेपनी ।विलेपनं वर्णकं स्यात् अनुलेपननामनि ॥
अनुष्टुप्
genderस्त्रीfem.
तूली च तूलिका तूला वर्ती वर्तिश्च वर्तिका ।वर्णको वर्णिका चेति स्यात् चित्रा चित्रकापि च ॥
अनुष्टुप्
genderस्त्रीfem.
कज्ज्वलः कज्ज्वलोऽपि स्यात् लोचकः कज्ज्वलेत्यपि ।वर्ती वर्तिर्दशा चेति त्रितयं दीपवर्तिषु ॥
अनुष्टुप्
genderस्त्रीfem.
आप्लावोऽपि च, गात्रानुलेपन्यां वर्तिरुच्यते ।वर्ती तथा जोङ्गके स्यादगर्वगुरु वंशकम् ॥ १९९ ॥
अनुष्टुप्
genderस्त्रीfem.
पटः पट्याच्छादनं च छादः सिक्-सिचयौ तथा ।वस्त्राञ्चले वर्ति-वस्ती दुकूलमतसीपटे ॥ २१९ ॥
अनुष्टुप्
genderस्त्रीfem.
त्रिषु लाक्षादिना रक्ते युगलं धौतवस्त्रयोः ।यत्तदुद्गमनीयं स्याद्दशा स्त्री भूम्नि वर्तयः ॥ ८८२ ॥
अनुष्टुप्
genderस्त्रीfem.
दीपवृक्षस्तदाधारो दशा वर्तिरथ स्त्रियाम् ।वर्तिर्गृहमणिर्दीपो गिरीयकगुडौ गिरिः ॥ १६१ ॥
अनुष्टुप्
genderस्त्रीfem.
वर्तिरौषधिनिर्माणं गात्रानुलेपने स्मृता ।दीपे दीपदशायां च वर्तिशब्द उदाहृतः ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 नु (wrong syllable)
वर्तिर्द्वयोर्दीपदशासु वस्त्र-दशासु तन्वा अनुलेपिनीषु ।दृगञ्जने भेषजनिर्मितौ स्या-दार्तिर्धनुःकोटिरुजोस्तथार्तिः ॥ ६४ ॥
उपजातिः
वर्तिर्दीपदशायां स्त्री दीपे गात्रानुलेपने ।वस्त्रस्य तु दशायां स्यान्नृस्त्रियोरथ नृस्त्रियोः ॥ ११९५ ॥
अनुष्टुप्
वर्तिर्दीपदशायां स्याद्विधिः कर्तव्यवेधसोः ।वधूः पत्न्यां स्नुषायां च विदा ज्ञानधियोरपि ॥ ३५२ ॥
अनुष्टुप्
meaningsदीपदशा
वर्तिर्गात्रानुलेपन्यां दीपे दीपर्दशासु च ।नेत्राञ्जने च लेखायां निर्माणे भेषजस्य च ॥
अनुष्टुप्
वर्ति as a meaning in nānārtha verses
- धरणिकोश दशादशावस्था [100] दशा वर्तिर्वाससोऽवयवो दशा । निशा रात्रौ हरिद्रायां महापूर्वार्धरात्रके ॥ Dharaṇikośa 29.2.2
- कोषकल्पतरु झिल्लिअंशे प्रदेशे श्रवणाग्रगे च प्रस्थे च यूकाविषये च पङ्क्तौ । सश्मश्रुकायामपि योषिति स्यात् झिल्लिः स्त्रियामातपकान्तिवर्त्योः ॥ ९० ॥ Koṣakalpataru 6.28.90
- नानार्थार्णवसंक्षेप वरत्रास्त्रीमात्रे च वरत्रा तु वर्ध्र्यां वर्तौ च कीर्तिता । वसतिस्तु गृहे रात्राववस्थाने जिनाश्रमे ॥ ८१ ॥ Nānārthārṇavasaṃkṣepa 3.1.81
- नानार्थार्णवसंक्षेप दूषिकादूषिकं त्वक्षिजमले नप्स्त्रियोः स्यात् पुनः स्त्रियाम् । वीणाजातौ च वर्तौ च लतायां चापरः पुनः ॥ ९५५ ॥ Nānārthārṇavasaṃkṣepa 4.955
- त्रिकाण्डशेष वृत्तिवर्तने विवृतौ वृत्तिर्वर्तिदीपदशास्वपि । लाभसम्बन्धयोर्व्याप्तिर्विश्वस्ता विधवापि च ॥ १८३ ॥ Trikāṇḍaśeṣa 3.3.183