जित्या
jityāस्त्री · fem.In 4 kośas: 4 synonym verses.
कुटुम्बी कर्षकः क्षेत्री हली कृषिककार्षिकौ ।कृषीवलोऽपि जित्या तु हलिः सीरस्तु लाङ्गलम् ॥ ८९० ॥गोदारणं हलमीषासीते तद्दण्डपद्धती ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ल (wrong syllable)
genderस्त्रीfem.
गोदारणं चाथ महद्धलं जित्या हलिर्द्वयोः ।अहलस्त्वहलिस्तुल्यौ सुहलः सुहलिः समौ ॥[127a] दुर्हलिर्दुर्हलस्त्रय्यां हल्या तु हलसंहतिः ।हलिं गृह्णाति यस्तस्मिन्हलयत्स्याद्विशेष्यवत् ॥कुशी स्त्री फाल-कृषकौ निरीषं कुटकं फलम् ॥ २३ ॥
अनुष्टुप्
genderस्त्रीfem.
जित्या हलिर्हलं सीरं लाङ्गलं तत्करो बलः ।रेवतीदयितो नीलवसनः केशवाग्रजः ॥ १४२ ॥
अनुष्टुप्
genderस्त्रीfem.
जित्या हलिश्च नामाऽस्ति महाहलं हि मन्यते ।गोदारणं हलं सीरस्तथा लघुश्च लाङ्गलम् ॥ १४९७ ॥
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 ह (wrong syllable); pāda 4, syllable 3 ल (wrong syllable)
genderस्त्रीfem.