कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

क्षेत्रिन्

kṣetrinपुं · masc.

In 8 kośas: 7 synonym verses, 1 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.741 · p. 36
कुटुम्बी कर्षकः क्षेत्री हली कृषिककार्षिकौ ।कृषीवलोऽपि जित्या तु हलिः सीरस्तु लाङ्गलम् ॥ ८९० ॥गोदारणं हलमीषासीते तद्दण्डपद्धती ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ल (wrong syllable)
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव वैश्यादिप्रकाण्डः Kalpadrukośa 1.7.8 · p. 133
मिथ्यापर्यायसाक्षी स्यादसूत्री सूत्रवर्जितः ।कर्षकः कार्षकः क्षेत्री कृषाणश्चापि कुर्षुकः ॥ ८ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.13 · p. 272
क्षेत्राजीवः कार्षकः स्यात्कृषकश्च कृषीवलः ।कर्षकः क्षेत्रि-हलिनौ कुटुम्बी च विशेष्यवत् ॥ १३ ॥
अनुष्टुप्
genderविadj.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.416 · p. 153
आभीरो वल्लवो गोपो गोपालोऽपि निवेदितः ।कृषीवलो हली क्षेत्री कार्षकः कर्षकोऽपि च ॥ ४१६ ॥
अनुष्टुप्
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति शूद्रवर्गः Śāradīyākhyanāmamālā 3.4.56 · p. 40
क्षेत्री जीवश्च कृषिकृत्कर्षकश्च कृषीवलः ।क्षेत्रं वप्रश्च केदारो हलः सीरश्च लाङ्गलम् ॥ ५६ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.1496 · p. 238
कर्षकः कार्षकः क्षेत्री कृषिकः कृषको हली ।कृषीबलः कुटुम्बी च क्षेत्राजीवोऽपि कथ्यते ॥ १४९६ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि तृतीयः काण्डः Śabdaratnākara 3.330 · p. 215
कार्षकः कर्षकस्तद्वत् कृषकः कृषिकोऽपि, च ।क्षेत्राजीवो भवेत् क्षेत्री सीरे हालो हलं हलः ॥ ३३० ॥
अनुष्टुप्
genderपुंmasc.

क्षेत्रिन् as a meaning in nānārtha verses