कृषीवल
kṛṣīvalaपुं · masc.In 12 kośas: 12 synonym verses, 8 as a meaning of another word.
कुटुम्बी कर्षकः क्षेत्री हली कृषिककार्षिकौ ।कृषीवलोऽपि जित्या तु हलिः सीरस्तु लाङ्गलम् ॥ ८९० ॥गोदारणं हलमीषासीते तद्दण्डपद्धती ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ल (wrong syllable)
genderपुंmasc.
genderपुंmasc.
क्षेत्राजीवः कृषिकः कृषीवलः कर्षकः कुटुम्बी च ।सीत्यं सस्यं प्रोक्तं वप्रं क्षेत्रं च केदारम् ॥ ५७४ ॥
आर्या
genderपुंmasc.
कृषीवलः कुटुम्बी स्याद्धली कृषिक इत्यपि ।लोष्टमस्त्र्यस्त्रियां लेष्टुर्दलनी दलिरुभे स्त्रियौ ॥ ९ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 1 र्दल (syllable split)
genderपुंmasc.
क्षेत्राजीवः कार्षकः स्यात्कृषकश्च कृषीवलः ।कर्षकः क्षेत्रि-हलिनौ कुटुम्बी च विशेष्यवत् ॥ १३ ॥
अनुष्टुप्
genderपुंmasc.
आभीरो वल्लवो गोपो गोपालोऽपि निवेदितः ।कृषीवलो हली क्षेत्री कार्षकः कर्षकोऽपि च ॥ ४१६ ॥
अनुष्टुप्
genderपुंmasc.
क्षेत्राजीवे कर्षकः स्यात्कृषिकश्च कृषीवलः ।व्रैहेयं व्रीहिनं यव्यं यवक्यं यावनं तथा ॥ ४१४ ॥
अनुष्टुप्
genderपुंmasc.
सीत्यं हल्यं हलाकृष्टं क्षेत्राजीवः कृषीवलः ।बुसं कडङ्गरः शूकस्तुषो दण्डपलालकः ॥ २६२ ॥
अनुष्टुप्
genderपुंmasc.
क्षेत्री जीवश्च कृषिकृत्कर्षकश्च कृषीवलः ।क्षेत्रं वप्रश्च केदारो हलः सीरश्च लाङ्गलम् ॥ ५६ ॥
अनुष्टुप्
genderपुंmasc.
ते पञ्चधा वणिग्भिक्षुच्छात्रलिङ्गिकृषीवलाः ।आगोऽपराध उद्दानं बन्धनं दण्डनं दमः ॥ १२८७ ॥
अनुष्टुप्
genderपुंmasc.
यथार्हवर्णो मंत्रज्ञो भीमरो गूढपूरुषः ।चारोऽप्यथ वणिग्भिक्षुश्छात्रो लिंगी कृषीवलः ॥ २६ ॥
अनुष्टुप्
genderपुंmasc.
सेवा श्ववृत्तिरेताश्च याजनाद्याश्च वृत्तयः ।त्रिष्वालेखात्कुडुंबी तु क्षेत्राजीवः कृषीवलः ॥ ७ ॥
अनुष्टुप्
genderपुंmasc.
कृषीवल as a meaning in nānārtha verses
- कोषकल्पतरु कृषकयुतकं संशययुगयोर्यौतकमुक्तं वधूवस्त्रे । चलनाग्रेऽपि वियुक्ते कृषकः फाले कृषीवले चोक्तः ॥ २६ ॥ Koṣakalpataru 6.1.26
- नानार्थार्णवसंक्षेप कर्षकक्रियायां स्यात् कल्पयतेरथ स्यात् कर्षकः पुमान् । अङ्गारके क्रष्टरि तु भेद्यवच्च कृषीवले ॥ ३८९ ॥ Nānārthārṇavasaṃkṣepa 4.389
- नानार्थार्णवसंक्षेप कीनाशपीतप्रधाने पुंसि स्याद् राक्षसे तु द्वयोस्त्रि तु । कदर्यानार्यभृतककृतघ्नेषु कृषीवले ॥ ४८७ ॥ Nānārthārṇavasaṃkṣepa 4.487
- नानार्थार्णवसंक्षेप कुडुम्बिन्पुमांस्तु वरुणे प्रोक्तस्त्रि तु कुण्डलवत्यसौ । कृषीवले कुडुम्बी द्वे कुडुम्बवति तु त्रिषु ॥ ५५९ ॥ Nānārthārṇavasaṃkṣepa 4.559
- नानार्थार्णवसंक्षेप कृषककूटसंज्ञे लागलाङ्गे भेद्यवत् तु कृषीवले । कृषिकस्तृणजातौ ना लाङ्गले तु नपुंसकम् ॥ ५७२ ॥ Nānārthārṇavasaṃkṣepa 4.572
- नानार्थार्णवसंक्षेप गृहपतिकृषीवले छद्मवेषस्पशे स्यात् सत्त्रयाजिनाम् । प्रधाने यजमाने च गृहस्य त्वधिपे त्रिषु ॥ २११ ॥ Nānārthārṇavasaṃkṣepa 6.211
- नानार्थार्णवसंक्षेप जैवातृकधने तु क्ली त्रिरायुष्मत्कृषीवलभिषक्षु सः । तपनीयं सुवर्णे क्ली शालिभेदे तु पुंस्ययम् ॥ २४७ ॥ Nānārthārṇavasaṃkṣepa 6.247
- वैजयन्ती जैवातृकजैवातृकश्चन्द्रभिषगायुष्मत्सु कृषीवले । अम्ललोण्यां दन्तशठा त्रिष्वम्लेऽम्लगुणे तु ना ॥ ९ ॥ Vaijayantī 8.5.9