कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

निरीष

nirīṣaक्ली · neut.

In 6 kośas: 6 synonym verses.

कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.23 · p. 273
गोदारणं चाथ महद्धलं जित्या हलिर्द्वयोः ।अहलस्त्वहलिस्तुल्यौ सुहलः सुहलिः समौ ॥[127a] दुर्हलिर्दुर्हलस्त्रय्यां हल्या तु हलसंहतिः ।हलिं गृह्णाति यस्तस्मिन्हलयत्स्याद्विशेष्यवत् ॥कुशी स्त्री फाल-कृषकौ निरीषं कुटकं फलम् ॥ २३ ॥
अनुष्टुप्
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.1499 · p. 238
निरीशं च निरीषं वै कुटकं कूटकं पुनः ।हलदण्डं विना मात्रः फालो यत्र च ध्रियते ॥ १४९९ ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश वैश्यवर्गप्रकाशः Śabdaratnāvalī 3.7.25 · p. 139
आबन्धो योप्रयोक्त्रे द्वे त्रयं योत्रसमाह्वये ।कुटकञ्च निरीषञ्च निरीशं फलमित्यपि ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि तृतीयः काण्डः Śabdaratnākara 3.332 · p. 215
निरीषे तु कुट-कूटौ कुटकं, कुशिकं पुनः ।कृशिकश्च फलं फालः कुद्दालश्च कुदालवत् ॥ ३३२ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ट (wrong syllable)
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण वैश्याध्यायः Śabdaratnākara 3.4.1411 · p. 171
फालो निरीषः कृषकः फलं स्यात् कूटमस्त्रियाम् ।अभ्रिः स्त्री पुंसि कुद्दालो गोदारोऽथ प्रतोदनम् ॥ १४११ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश वैश्याध्यायः Vaijayantī 3.8.28 · p. 125
निरीषः कृषकः फालः शम्या तु युगकीलकम् ।योक्त्रं तु योत्रमाबन्धः खनित्रमवदारणम् ॥ २८ ॥
अनुष्टुप्
genderपुंmasc.