कुटुम्बिन्
kuṭumbinपुं · masc.In 6 kośas: 6 synonym verses.
कुटुम्बी कर्षकः क्षेत्री हली कृषिककार्षिकौ ।कृषीवलोऽपि जित्या तु हलिः सीरस्तु लाङ्गलम् ॥ ८९० ॥गोदारणं हलमीषासीते तद्दण्डपद्धती ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ल (wrong syllable)
genderपुंmasc.
क्षेत्राजीवः कृषिकः कृषीवलः कर्षकः कुटुम्बी च ।सीत्यं सस्यं प्रोक्तं वप्रं क्षेत्रं च केदारम् ॥ ५७४ ॥
आर्या
genderपुंmasc.
सत्प्रधाना महामात्रा हारोहागजवाजिनः ।कुटुम्बी तु क्षेत्रजीवो वृद्धिजीवः कुलिन्दकः ॥ ३४२ ॥
अनुष्टुप्
genderपुंmasc.
कृषीवलः कुटुम्बी स्याद्धली कृषिक इत्यपि ।लोष्टमस्त्र्यस्त्रियां लेष्टुर्दलनी दलिरुभे स्त्रियौ ॥ ९ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 1 र्दल (syllable split)
genderपुंmasc.
क्षेत्राजीवः कार्षकः स्यात्कृषकश्च कृषीवलः ।कर्षकः क्षेत्रि-हलिनौ कुटुम्बी च विशेष्यवत् ॥ १३ ॥
अनुष्टुप्
genderविadj.
कर्षकः कार्षकः क्षेत्री कृषिकः कृषको हली ।कृषीबलः कुटुम्बी च क्षेत्राजीवोऽपि कथ्यते ॥ १४९६ ॥
अनुष्टुप्
genderपुंmasc.