कर्षक
karṣakaपुं · masc.In 16 kośas: 17 synonym verses, 1 as a nānārtha head word, 14 as a meaning of another word.
कुटुम्बी कर्षकः क्षेत्री हली कृषिककार्षिकौ ।कृषीवलोऽपि जित्या तु हलिः सीरस्तु लाङ्गलम् ॥ ८९० ॥गोदारणं हलमीषासीते तद्दण्डपद्धती ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ल (wrong syllable)
genderपुंmasc.
genderपुंmasc.
क्षेत्राजीवः कृषिकः कृषीवलः कर्षकः कुटुम्बी च ।सीत्यं सस्यं प्रोक्तं वप्रं क्षेत्रं च केदारम् ॥ ५७४ ॥
आर्या
genderपुंmasc.
मिथ्यापर्यायसाक्षी स्यादसूत्री सूत्रवर्जितः ।कर्षकः कार्षकः क्षेत्री कृषाणश्चापि कुर्षुकः ॥ ८ ॥
अनुष्टुप्
genderपुंmasc.
क्षेत्राजीवः कार्षकः स्यात्कृषकश्च कृषीवलः ।कर्षकः क्षेत्रि-हलिनौ कुटुम्बी च विशेष्यवत् ॥ १३ ॥
अनुष्टुप्
genderपुंmasc.
आभीरो वल्लवो गोपो गोपालोऽपि निवेदितः ।कृषीवलो हली क्षेत्री कार्षकः कर्षकोऽपि च ॥ ४१६ ॥
अनुष्टुप्
genderपुंmasc.
क्षेत्राजीवे कर्षकः स्यात्कृषिकश्च कृषीवलः ।व्रैहेयं व्रीहिनं यव्यं यवक्यं यावनं तथा ॥ ४१४ ॥
अनुष्टुप्
genderपुंmasc.
क्षेत्री जीवश्च कृषिकृत्कर्षकश्च कृषीवलः ।क्षेत्रं वप्रश्च केदारो हलः सीरश्च लाङ्गलम् ॥ ५६ ॥
अनुष्टुप्
genderपुंmasc.
कर्षकः कार्षकः क्षेत्री कृषिकः कृषको हली ।कृषीबलः कुटुम्बी च क्षेत्राजीवोऽपि कथ्यते ॥ १४९६ ॥
अनुष्टुप्
genderपुंmasc.
ऋणमुक्तिविगणनं ग्रहणं गणनोत्सवम् ।कृषीबलः कृषिकश्च कार्षकः कर्षकोऽपि च ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 4 क्ति (wrong syllable); pāda 3, syllable 6 षि (wrong syllable)
genderपुंmasc.
कार्षकः कर्षकस्तद्वत् कृषकः कृषिकोऽपि, च ।क्षेत्राजीवो भवेत् क्षेत्री सीरे हालो हलं हलः ॥ ३३० ॥
अनुष्टुप्
genderपुंmasc.
अभियुक्तोऽभिशस्तः स्यादाप्तः प्रत्ययितस्त्रिषु ।स्युः क्षेत्राजीवकृषकौ कर्षकश्च कृषीवले ॥ १४०२ ॥
अनुष्टुप्
genderपुंmasc.
ते तु गौरस्त्रयस्ते तु षड्यवस्तच्चतुष्टयम् ।गुञ्जा ताः पञ्च माषस्ते षोडशोऽक्षः स कर्षकः ॥ १४९६ ॥
अनुष्टुप्
genderपुंmasc.
क्षपाकरः सुधासूतिर्निशाकेतुः पुनर्युवा ।समुद्रनवनीतं च भौमे प्रव्यालकर्षकौ ॥ १७५६ ॥
अनुष्टुप्
genderपुंmasc.
कर्षको रुधिरो भौमः प्रव्यालोऽप्यथ र्हषुलः ।बुधः श्यामांग एकांगः सौम्यश्चान्द्रमसायनिः ॥ ३२ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
तैलस्य नालिका सूत्रसंग्रहोऽश्वस्य कर्षकः ।केशकारक्षौरकारौ नलिवाहस्तु घासिकः ॥ ११७ ॥
अनुष्टुप्
genderपुंmasc.
कर्षकोऽथ द्वैगुणिको वृद्ध्याजीवः कुसीदिकः ।वार्धुषी स्याद्वार्धुषिके प्रयोक्तर्युत्तमर्णकः ॥ ८ ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 द्वै (wrong syllable); pāda 3, syllable 5 द्वा (wrong syllable)
genderपुंmasc.
कर्षक as a meaning in nānārtha verses
- नामलिङ्गानुशासनम् कीनाशकृतान्ते पुंसि कीनाशः क्षुद्रकर्षकयोस्त्रिषु । Amarakośa 3.3.412
- धरणिकोश कृषकजम्बुकौ क्रोष्टुवरुणौ कृषकौ फालकर्षकौ । वञ्चको जम्बुके धूर्ते वर्तकोऽश्वखुरे खगे ॥ Dharaṇikośa 1.1.7
- धरणिकोश हलिन्स्वामिनौ गुरुभर्तारौ कृतिनौ योग्यपण्डितौ । वज्री च सुगते शक्रे हलिनौ बलकर्षकौ ॥ Dharaṇikośa 19.1.9
- धरणिकोश कीनाशसुखाशो राजतिमिषे आशा यस्य सुशोभना । कीनाशोऽपांशुर्विख्यातः कदर्ये कर्षके यमे ॥ Dharaṇikośa 29.2.12
- कोषकल्पतरु हलिन्सुरापगायामथ रोहितद्रौ बोधिद्रुमे स्याच्च वटेऽपि रोही । हली प्रलम्बद्विषि कर्षके च भृङ्गे पुनर्वृश्चिक ईरितोऽली ॥ ७८ ॥ Koṣakalpataru 6.21.78
- कोषकल्पतरु कीनाशसंकाश उक्तः सदृशेऽन्तिकेऽथ नीकाश उक्तः समनिर्णयार्थः । हुताश उक्तो दहने त्रयेऽथ कीनाश उक्तो यमकर्षकार्थः ॥ १८ ॥ Koṣakalpataru 6.30.18
- परमानन्दीयनाममाला कीनाशकपर्दोऽपि वराटे स्याज्जटाजूटे पिनाकिनः । कीनाशस्तु दरिद्रेऽपि कर्षके राक्षसे यमे ॥ १२९ ॥ Paramānandīyanāmamālā 5.7.129
- शब्दरत्नावली कृषकस्यात् कपाटाकुले दुग्धविकृतावपि (चेष्यते) । कृषकः फालके पुंसि कर्षके त्वभिधेयवत् ॥ Śabdaratnāvalī 7.1.59
- शब्दरत्नावली हलिन्सेचनं तरणीसेकभाजने सेकरक्षयोः । सेनानी कार्त्तिकेये स्यात्पुमान् सेनापतावपि । हली कर्षके रामे च सेवनं सीवनार्चयोः ॥ Śabdaratnāvalī 7.20.98
- शब्दरत्नावली कीनाशकीनाशः शमने क्षुद्रे कर्षकोपांशुधातिनोः । कुलिशोऽस्त्री वज्रे स्यान्मीनभेदे भवेत्पुमान् ॥ Śabdaratnāvalī 7.30.15
- शब्दरत्नाकर कोलकोलोऽस्त्री चव्यपिप्पल्योः पुमान् खञ्जे प्लवे किटौ । क्लीबे तक्कोलबदरव्योषशुण्ठीषु कर्षके ॥ १८८५ ॥ Śabdaratnākara 4.1.1885
- त्रिकाण्डशेष कृषककुलीने चाथ कनकं धुस्तूरे नागकेशरे । चम्पके किंशुके हेम्नि कृषकौ फालकर्षकौ ॥ ११ ॥ Trikāṇḍaśeṣa 3.3.11
- वैजयन्ती कीनाशकीनाशो रक्षसि यमे कदर्ये कर्षकेऽर्थवत् । कुहनो मूषिके सेर्ष्ये कुहना दंभशीलता ॥ २३ ॥ Vaijayantī 7.5.23
- वैजयन्ती कृषककलिलं गहने बृन्दे सैन्येऽपि कटकोऽस्त्रियाम् । किञ्जल्कः केसरे खे क्ली कृषकौ फालकर्षकौ ॥ ३१ ॥ Vaijayantī 7.5.31