कुशी
kuśīस्त्री · fem.In 12 kośas: 12 synonym verses, 5 as a nānārtha head word, 1 as a meaning of another word.
genderस्त्रीfem.
genderस्त्रीfem.
कुशी कोशी लोहफले तदाधारे तु चर्वढम् ।अस्त्री श्रेणिः खलो धान्यपीडने पशुसन्ततेः ॥ १६ ॥
अनुष्टुप्
genderस्त्रीfem.
आयः कालायसे चास्य विकारे तु कुशी स्त्रियाम् ।सिंहाणधूर्तमण्डूरसारणान्यस्य किट्टके ॥ ५६१ ॥
अनुष्टुप्
genderस्त्रीfem.
गोदारणं चाथ महद्धलं जित्या हलिर्द्वयोः ।अहलस्त्वहलिस्तुल्यौ सुहलः सुहलिः समौ ॥[127a] दुर्हलिर्दुर्हलस्त्रय्यां हल्या तु हलसंहतिः ।हलिं गृह्णाति यस्तस्मिन्हलयत्स्याद्विशेष्यवत् ॥कुशी स्त्री फाल-कृषकौ निरीषं कुटकं फलम् ॥ २३ ॥
अनुष्टुप्
genderस्त्रीfem.
जीवा शिवा-दिवौ विश्वा वशेशा दृक्कशा कुशा ।कुशी पशुर्लोमशाशा पादपाशी च पेशियुक् ॥ ७५ ॥
अनुष्टुप्
genderस्त्रीfem.
मण्डूरसरणे धूर्तसिंहाने विकृतिः कुशी ।ताम्रं शुल्वं मर्कटास्यं रक्तं म्लेच्छमुखं तथा ॥ ३१८ ॥
अनुष्टुप्
genderस्त्रीfem.
genderस्त्रीfem.
सिंहानमपि सिङ्घासां मण्डूरं लौहजे मले ।अयसस्तु विकारः स्यात् फालादिस्तु कुशी स्त्रियाम् ॥
अनुष्टुप्
genderस्त्रीfem.
अयोमणिस्त्वयस्कान्तः स्यादायोविकृतिः कुशी ।पीतलोहः स्त्रियां रीतिरारकूटकमस्त्रियाम् ॥ ४१८ ॥
अनुष्टुप्
genderस्त्रीfem.
वैकृन्तः स्याद्रसवरो रसज्ञो व्योमधारणः ।रसकस्त्वयसस्मारो विकारो लोहजः कुशी ॥ ३५ ॥
अनुष्टुप्
genderस्त्रीfem.
उपचर्या चिकित्सा स्याल्लंघनं त्वपतर्पणम् ।कुशी भग्नास्थिबन्धः स्यादरिष्टो दंशबन्धनम् ॥ १३९ ॥
अनुष्टुप्
genderस्त्रीfem.
कुशा वल्गा कुशी फालः कुशो दर्भः कुशं जलम् ।कुशो रामसुते द्वीपे कुशो यज्ञाङ्गबन्धनम् ॥
अनुष्टुप्
meaningsफाल
कुशी तु फालेऽथ कुशा च लाड्यां ( ? )वल्गाह्णयेऽन्यत्र तु पापमत्ते ।स्पशश्चरे स्यात्समरे शशस्तुस्याल्लोमकर्णे पुरुषान्तरे च ॥ ३ ॥
उपजातिः
meaningsफाल
कुशा रज्वां कुशं नीरे कुशी फाले कुथेऽस्त्रियाम् ।पुमान् रायसुते द्वीपे त्रिषु पापिष्ठमत्तयोः ।केशः सुगन्धिबालायां वरुणे कुन्तले हरौ ॥
अनुष्टुप्
meaningsफाल
कुशा वल्गा कुशी फालः कुशो दर्भः कुशं जलम् ॥ ६७ ॥
meaningsफाल
कुशी as a meaning in nānārtha verses
- धरणिकोश फालमालं क्षेत्रे जने मालो माला पुष्पादिनिर्मिता । फालं स्यात्काशिका दीर्णं वस्त्रे बली तथा कुशी ? ॥ Dharaṇikośa 27.2.14