कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

कुटक

kuṭakaक्ली · neut.

In 8 kośas: 11 synonym verses.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.891 · p. 36
निरीषे कुटकं फाले कृषकः कुशिकः फलम् ॥ ८९१ ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह वैश्यवर्गः Amarakośa 2.9.22
दात्रं लवित्रमाबन्धो योत्रं योक्त्रमथो फलम् ।निरीशं कुटकं फालः कृषको लाङ्गलं हलम् ॥ १३ ॥गोदारणं च शीरोऽथ शम्या स्त्री युगकीलकः ।
अनुष्टुप्
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.23 · p. 273
गोदारणं चाथ महद्धलं जित्या हलिर्द्वयोः ।अहलस्त्वहलिस्तुल्यौ सुहलः सुहलिः समौ ॥[127a] दुर्हलिर्दुर्हलस्त्रय्यां हल्या तु हलसंहतिः ।हलिं गृह्णाति यस्तस्मिन्हलयत्स्याद्विशेष्यवत् ॥कुशी स्त्री फाल-कृषकौ निरीषं कुटकं फलम् ॥ २३ ॥
अनुष्टुप्
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.67 · p. 278
नेत्रं मथिगुणो न स्त्री मन्थनं तु विलोडनम् ।वैशाखः खजको मन्थो मन्थास्तक्राट इत्यपि ।माथः क्षुब्धोऽस्य विष्कम्भो मञ्जीरः कुटकोऽपि सः ॥ ६७ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.312 · p. 43
तटे भृगुः प्रपातोऽथ शिखरे शृङ्गकुटके ।नितम्बमेखले भूध्रमध्ये च कटकस्तथा ॥ ३१२ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 6 कु (wrong syllable)
genderक्लीneut.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट पाताललोकसर्गः Paryāyaśabdaratna 3.51 · p. 129
कर्णधारो नाविकः स्यात्पोतवाहो नियामकः ।दाशे तु धीवरो जाली कैवर्तः कुटकोऽपि च ॥ ५१ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.1499 · p. 238
निरीशं च निरीषं वै कुटकं कूटकं पुनः ।हलदण्डं विना मात्रः फालो यत्र च ध्रियते ॥ १४९९ ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि पृथ्वीकायनामानि Suśīlanāmamālā 5.1.1762 · p. 287
विष्कम्भः कुटकश्चैव कुटरः कुठरस्तथा ।मञ्जीरश्चापि मन्दीरं नामान्यष्टौ भवन्ति वै ॥ १७६२ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश वैश्यवर्गप्रकाशः Śabdaratnāvalī 3.7.25 · p. 139
आबन्धो योप्रयोक्त्रे द्वे त्रयं योत्रसमाह्वये ।कुटकञ्च निरीषञ्च निरीशं फलमित्यपि ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि तृतीयः काण्डः Śabdaratnākara 3.332 · p. 215
निरीषे तु कुट-कूटौ कुटकं, कुशिकं पुनः ।कृशिकश्च फलं फालः कुद्दालश्च कुदालवत् ॥ ३३२ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ट (wrong syllable)
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि चतुर्थः काण्डः Śabdaratnākara 4.67 · p. 223
खजश्च खजको, मन्थविष्कम्भे कुटरस्तथा ।कुटकः शालाजिरे तु दन्त्यतालव्यपूर्वगः ॥ ६७ ॥
अनुष्टुप्
genderपुंmasc.