लाङ्गल
lāṅgalaक्ली · neut.In 17 kośas: 17 synonym verses, 4 as a nānārtha head word, 11 as a meaning of another word.
कुटुम्बी कर्षकः क्षेत्री हली कृषिककार्षिकौ ।कृषीवलोऽपि जित्या तु हलिः सीरस्तु लाङ्गलम् ॥ ८९० ॥गोदारणं हलमीषासीते तद्दण्डपद्धती ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ल (wrong syllable)
genderक्लीneut.
दात्रं लवित्रमाबन्धो योत्रं योक्त्रमथो फलम् ।निरीशं कुटकं फालः कृषको लाङ्गलं हलम् ॥ १३ ॥गोदारणं च शीरोऽथ शम्या स्त्री युगकीलकः ।
अनुष्टुप्
genderक्लीneut.
हलं स्याल्लाङ्गलं सीरः फालः कुशिक उच्यते ।योक्त्रं तु रश्मिराबन्धः शम्या च युगकीलकः ॥ ५७५ ॥
अनुष्टुप्
genderक्लीneut.
बिल्वे मनोरथफलः पलाशे वनराक्षसः ।कनके लक्ष्मिपुत्रः स्यात् तत्फले लाङ्गलं मतम् ॥ २० ॥
अनुष्टुप्
genderक्लीneut.
स्यादङ्कुशो मणिरथ लिङ्गं लाङ्गलमस्त्रियाम् ।शेवशेपौ ध्वजोपस्थौ भगमेढ्रौ च मेहनः ॥ २०८ ॥
अनुष्टुप्
genderपुंक्लीm. n.
कृषिको ना फलं क्लीबे न स्त्रियां हललाङ्गले ।सीरो हालश्च भूम्यर्थदारणोऽथ स्त्रियामिमे ॥ १४ ॥
अनुष्टुप्
genderपुंक्लीm. n.
दीर्घशूको रोध्रशूकस्तूर्णकः शङ्खमौक्तिकौ ।लाङ्गलः कर्दमो लोहवालो महिषमस्तकः ॥ १९ ॥
अनुष्टुप्
genderपुंmasc.
लेष्टुः पुंसि दलिः स्त्री स्यात्स महान्दरणीर्द्वयोः ।न स्त्रियां हल-सीरौ स्तः कृन्तत्रं लाङ्गलं तथा ॥ २२ ॥
अनुष्टुप्
genderक्लीneut.
जित्या हलिर्हलं सीरं लाङ्गलं तत्करो बलः ।रेवतीदयितो नीलवसनः केशवाग्रजः ॥ १४२ ॥
अनुष्टुप्
genderक्लीneut.
सीरस्तु लाङ्गलं प्रोक्तं हलं गोदारणं समे ।दात्रं लवित्रमप्युक्तं खनित्रं त्ववदारणम् ॥ ४१७ ॥
अनुष्टुप्
genderक्लीneut.
एतत्सामग्रिसंयुक्ते लाङ्गलं सीर इत्यपि ।हलं फलकरं चापि गोदारणमितीष्यते ॥ ४२६ ॥
अनुष्टुप्
genderक्लीneut.
क्षेत्री जीवश्च कृषिकृत्कर्षकश्च कृषीवलः ।क्षेत्रं वप्रश्च केदारो हलः सीरश्च लाङ्गलम् ॥ ५६ ॥
अनुष्टुप्
genderक्लीneut.
जित्या हलिश्च नामाऽस्ति महाहलं हि मन्यते ।गोदारणं हलं सीरस्तथा लघुश्च लाङ्गलम् ॥ १४९७ ॥
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 ह (wrong syllable); pāda 4, syllable 3 ल (wrong syllable)
genderक्लीneut.
कृषिकं कृषकं फालं (हलं) फालसमाह्वये ।गोदारणञ्च सीरश्च हलं हालञ्च लाङ्गलम् ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
सीरगोदारणहललाङ्गलेष्वादिमं द्वयोः ।युगकीले स्त्रियां शम्या सीता तु हलपद्धतिः ॥ १४१० ॥
अनुष्टुप्
genderक्लीneut.
पुष्पापत्यपथौ चाथ नितम्बः स्यात्कटीरकः ।लिङ्गं तु लाङ्गलं शेफः साधनं मदनांकुशः ॥ २३ ॥
अनुष्टुप्
genderक्लीneut.
क्षेत्रमध्ये कृता साल्पा स्थाला स्यादथ लांगलम् ।हलं गोदारणं सीरमीषा सीरादिदण्डकः ॥ २७ ॥
अनुष्टुप्
genderक्लीneut.doubtful
क्लीबे तु स्याद्देवदालीफलार्था-ऽथाङ्गुल्युक्ता कर्णि[74a]कायां गजस्य ।अङ्गुल्यां चाथो हले लाङ्गलं स्या-त्पुष्पे ताले गेहदारुप्रभेदे ॥ ६२ ॥
शालिनीmetre not read in every line
लाङ्गली लाङ्गलं चोचे पृष्टिपर्ण्यां तु लाङ्गली ।कण्टके च विशल्यायां वल्कला तु गुडत्वचि ॥ ४७२ ॥
अनुष्टुप्
meaningsचोच
लाङ्गल as a meaning in nānārtha verses
- कोषकल्पतरु सीरसीरो रवौ पुंस्यथ लाङ्गलेऽस्त्री चीरं तु चूडांशु[46a]कगोस्तनेषु । स्यात्सीसके स्त्री त्वपि झिल्लिकायां कच्छाटिकायामपि लेखभेदे ॥ १९ ॥ Koṣakalpataru 6.27.19
- कोषकल्पतरु कुन्तलपित्तला तोयपिप्पल्यां निस्तलं वृत्तलोलयोः । स्यात्कुन्तलः पुंसि यवे लाङ्गले देशकेशयोः ॥ १२ ॥ Koṣakalpataru 6.28.12
- नानार्थार्णवसंक्षेप कुडकुडस्तु ना वैश्रवणे क्ली घटे लाङ्गलेऽपि च । मनुष्यजातिभेदे तु पलिनीसंज्ञयोषिति ॥ २२४ ॥ Nānārthārṇavasaṃkṣepa 2.5.224
- नानार्थार्णवसंक्षेप वृकलाङ्गले त्रिषु तु स्तेने धूर्ते द्वे तु मृगान्तरे । ईहामृगाख्ये शुनि च वृकी तु स्त्री यथोदितम् ॥ १२८४ ॥ Nānārthārṇavasaṃkṣepa 2.5.1284
- नानार्थार्णवसंक्षेप सीरक्षेत्रस्य मर्यादायां च ग्रामगोचरभुव्यपि । अश्वे तु द्वे पुमान् सीर आदित्ये लाङ्गलेऽपि च ॥ १५२३ ॥ Nānārthārṇavasaṃkṣepa 2.5.1523
- नानार्थार्णवसंक्षेप कृन्तत्रअन्तरिक्षे लाङ्गलाग्रे लाङ्गले चापरे विदुः । सुवर्णस्याभिघातार्थसाधने मशके पुनः ॥ ५६४ ॥ Nānārthārṇavasaṃkṣepa 4.564
- नानार्थार्णवसंक्षेप कृषिककूटसंज्ञे लागलाङ्गे भेद्यवत् तु कृषीवले । कृषिकस्तृणजातौ ना लाङ्गले तु नपुंसकम् ॥ ५७२ ॥ Nānārthārṇavasaṃkṣepa 4.572
- नानार्थार्णवसंक्षेप गोदारणकुद्दाले लाङ्गले चाथ चामीकरमिति ध्वनिः । चामरे कनके चाथ च्युतादानमिति ध्वनिः ॥ १६ ॥ Nānārthārṇavasaṃkṣepa 6.16
- नानार्थार्णवसंक्षेप सुविदत्रईशानदिग्गजेऽत्रापि पूर्ववत् साद्यथो नपि । सुविदत्रं कुटुम्बे च धनलाङ्गलयोरपि ॥ ६८० ॥ Nānārthārṇavasaṃkṣepa 6.680
- शिवकोष कलिङ्गकलिङ्गो लाङ्गलो गौरे कुटजे तद्यवे त्रिषु । कालिङ्गी राजकर्कट्यां भूमिकर्कारुकेऽस्त्रियाम् ॥ ८८ ॥ Śivakoṣa 3.2.88
- शब्दरत्नाकर पोत्रपाने स्त्री पीतिरश्वे ना पोत्रं लाङ्गलदंष्ट्रिणोः । मुखाग्रदेशेऽथ पलं मांसे कर्षचतुष्टये ॥ १९६० ॥ Śabdaratnākara 4.1.1960