कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

जेय

jeyaवि · adj.

In 9 kośas: 9 synonym verses.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.793 · p. 32
जय्यो यः शक्यते जेतुं जेयो जेतव्यमात्रके ॥ ७९३ ॥
अनुष्टुप्
genderविadj.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह क्षत्रियवर्गः Amarakośa 2.8.128
जय्यो यः शक्यते जेतुं जेयो जेतव्यमात्रके ।
अनुष्टुप्
genderविadj.
कल्पद्रुकोशः Kalpadrukośa · केशव क्षत्रियप्रकाण्डः Kalpadrukośa 1.6.244 · p. 116
अत्यन्तीनोऽनुकामीनः कामङ्गामीन इत्ययम् ।स्यादुरस्वानुरसिले जेयो जेतव्यमात्रके ॥ २४४ ॥
अनुष्टुप्
genderविadj.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.3 · p. 263
क्षय्यस्तु शक्यः क्षेतुं यो जेयो जेतव्यमात्रके ।जय्यस्तु शक्यो जेतुं यो जिष्णुर्जेता च जित्वरः ॥ ३ ॥
अनुष्टुप्
genderविadj.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.338 · p. 68
अथ जेतरि जैत्रः स्याज्जेतव्ये जेय इष्यते ।शत्रोरभिमुखे तु स्यादभ्यमित्रीण इत्यपि ॥ ३३८ ॥
अनुष्टुप्
genderविadj.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त भूमिभानुः Pañcatattvaprakāśa 2.238 · p. 17
पराजयः परिभवः कश्मलं मोहमूर्च्छने ।जेयः शक्योऽभिगन्तव्यः पराभूतः पराजितः ॥ २३८ ॥
अनुष्टुप्
genderविadj.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.1177 · p. 207
पुनश्च मन्यते लोकैः जेयो जेतव्यमात्रके ।
अनुष्टुप्
genderविadj.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश ब्रह्मवर्गप्रकाशः Śabdaratnāvalī 3.6.305 · p. 131
जङ्घालोऽतिजवोऽत्यर्थे वेगयुक्तजने द्वयम् ।अथ डाकचकी आख्ये जङ्घाकरिक-जाङ्घिकौ ॥वेगी तरस्वी प्रजवी त्वरितो जवनो जवः ।जेतुं शक्यो हि जय्योऽसौ जेतव्ये जेय इत्यपि ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश क्षत्रियाध्यायः Vaijayantī 3.7.148 · p. 116
शक्ये तु जेतुं जय्यः स्याज्जेयो जेतव्यमात्रके ।जैत्रो जेता जितो भग्नः कृतहस्तस्तु शिक्षितः ॥ १४८ ॥
अनुष्टुप्
genderविadj.