जवन
javanaवि · adj.In 18 kośas: 29 synonym verses, 4 as a nānārtha head word, 10 as a meaning of another word.
जङ्घालोऽतिजवो जङ्घाकरिको जाङ्घिको जवी ।जवनस्त्वरिते वेगे रयो रंहस्तरः स्यदः ॥ ४९४ ॥जवो वाजः प्रसरश्च मन्दगामी तु मन्थरः ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 स (wrong syllable)
genderविadj.
genderपुंmasc.
व्योषे त्रिकटुकं जग्धौ जमनं जवनं तथा ॥ २९ ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
वनायुजाः पारसीकाः काम्बोजाः बाह्लिका हयाः ।ययुरश्वोऽश्वमेधीयो जवनस्तु जवाधिकः ॥ ४५ ॥
अनुष्टुप्
genderपुंmasc.
genderविadj.
जङ्घालो जवनो वेगी पाथेयं शम्बलं स्मृतम् ।आवेशिकः प्राघुणक आगन्तुरतिथिः स्मृतः ॥ ३५८ ॥
अनुष्टुप्
genderविadj.
चोलश्चोडोथ यवनो जवनः पारसीककः ।स च पारसिकोपि स्यात् वानायुस्तु वनावुकः ॥ २१ ॥
अनुष्टुप्
genderपुंmasc.
मिश्रैर्मिश्रा विनीतस्तु साधुवाही जवाधिके ।जवनोथाश्वमेधीये ययुर्यायावरोऽपि च ॥ १९८ ॥
अनुष्टुप्
genderपुंmasc.
जवनः प्रजवो वेगी जङ्घिलो जाङ्घ इत्यपि ।अन्वत्यन्तंभृशंकाममेभ्यो गामी क्रमादयम् ॥ २४३ ॥
अनुष्टुप्
genderविadj.
कालपुच्छश्च सीत्कारश्छिंकारो जवनः पुनः ।अपि स्याद्वेगिहरिणः शिखिरूपोऽथ चित्रलः ॥ ३६ ॥
अनुष्टुप्
genderपुंmasc.
जाङ्घिको जवनो जङ्घाकरिको धावको जवी ।जङ्घालस्त्वरितो वेगी तरस्वी जव इत्यपि ॥ ७२ ॥
अनुष्टुप्
genderविadj.
हयः किशोरोऽल्पवया जवनस्तु जवाधिकः ।रथस्य रथ्यो यो वोढा द्विरथ्यो द्विरथीं वहन् ।युग्यो युगस्यान्यलिङ्गाविष्टो * * * * * * ।* * * * * * स्थूरं बलं स्थौरी स कथ्यते ॥ १० ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
शिक्षितः कृतहस्ते तु सांयुगीनो रणेऽपि च ।जवने जवनिमा स्याज्जङ्घालोऽतिजवेति च ॥ १९२ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 नि (wrong syllable)
genderविadj.
नभस्वान् मातरिश्वा च चरण्युर्जवनस्तथा ।प्रभञ्जनः अस्य पर्यायपुत्रौ भीमाञ्जनात्मजौ ॥ ६३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderपुंmasc.
वामी तु वडवा त्वश्वा किशोरो बालको हयः ।जवनस्तु जवोत्कृष्टो रथ्योऽश्वो रथवाहकः ॥ १४७ ॥
अनुष्टुप्
genderपुंmasc.
जङ्घाकरिकनामासौ त्वरितो जवनो जवी ।वेगो जवो रयो वाजस्तरो रंहः स्यदः पुनः ॥ १५९ ॥
अनुष्टुप्
genderविadj.
वानायुजाः पारशिकाः परिकाः कुटमाः समाः ।जवाधिके तु जवनो विनतः सुगुणान्विते ॥ २९६ ॥
अनुष्टुप्
genderपुंmasc.
वेगयुक्ते तु जवनो जवो जवनकोऽपि च ।तरस्वी त्वरितो वेगी प्रजवी च जवीति च ॥ ३३७ ॥
अनुष्टुप्
genderविadj.
अमुष्यायण इत्युक्तो यः प्रख्यातो गुणैः पितुः ।स्वजातिपरयो जैन्यो जवनः पितृसंनिभः ॥ ६४१ ॥
अनुष्टुप्
genderविadj.
भक्षणं जक्षणं जग्धिर्जेमनं जमनं घसिः ।आहारोऽभ्यवहारश्च भोजनं जवनं तथा ॥ ६३८ ॥
अनुष्टुप्
genderक्लीneut.
genderविadj.
अल्पावस्थः किशोरः स्याज्जवनः स जवाधिकः ।रथवोढा स रथ्यः स्यादाऽऽजानेयः कुलीन इति ॥ २२३५ ॥
अनुष्टुप्
genderपुंmasc.
अथ सिन्धुः सिन्धुखेलस्तुरुण्डः पारदण्डकः ।पारसीकः पारसिको यवनो जवनोऽपि च ॥
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 5 पा (wrong syllable)
genderपुंmasc.
जवाधिकस्तु जवनस्तुङ्गवेगतुरङ्गमं ।भारवाहनशीलेऽश्वे पृष्ठ्यः स्थौरी च कीर्तितः ॥
अनुष्टुप्
genderपुंmasc.
जङ्घालोऽतिजवोऽत्यर्थे वेगयुक्तजने द्वयम् ।अथ डाकचकी आख्ये जङ्घाकरिक-जाङ्घिकौ ॥वेगी तरस्वी प्रजवी त्वरितो जवनो जवः ।जेतुं शक्यो हि जय्योऽसौ जेतव्ये जेय इत्यपि ॥
अनुष्टुप्
genderपुंmasc.
पाथेये, जङ्घाकारे तु जङ्घाकरिक-जाङ्घिकौ ।त्वरिते जवी च जवनः सहायेऽभ्यनुतश्चरः ॥ १०६ ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 ङ्घा (wrong syllable)
genderविadj.
निकाय्य-निकायौ स्यातां स्यादागारमगारवत् ।चतुःशाले चातुःसाली जवनं यवनं समः ॥ ३६ ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 का (wrong syllable); pāda 3, syllable 5 चा (wrong syllable)
genderक्लीneut.
कामंगाम्यनुकामीनो जवी तु जवनो जवः ।जंघालोऽतिजवे धीरमन्थरौ मन्दगामिनि ॥ १५० ॥
अनुष्टुप्
genderविadj.
संस्तवः स्यात्परिचय उदजः प्रेषणे पशोः ।पवनं पवनिष्पावौ जूतिस्तु जवनं जवः ॥ ३१ ॥
अनुष्टुप्
genderक्लीneut.
ज्यौतिष्यपि स्याच्चरमेऽथ वेगेवेगाधिकेऽश्वे जवनश्च देशे ।स्यादौषधौ स्त्रीपरवत्सवेगेजीवे सुते जीवन आदिलिङ्गः ॥ ४४ ॥
इन्द्रवज्रा
ग्रावा स्यात्पुंसि पाषाणे दृढे पृथ्वीधरेऽपि च ।गृञ्जनो ना रसोने स्त्री निषाक्तपशुमांसके ॥गोस्तनो ना हारभेदे द्राक्षायां स्त्री च गोस्तनी ।गोमी पुंसि जम्बुके स्याद्गोमत्युपासके त्रिषु ॥चलनं भ्रमणे कम्पे क्लीबं कम्पयुते त्रिषु ।चलनी वस्त्रविधिन्यां वारीभेदे च कुत्रचित् ॥चक्री काककुलालाजग्रामजालिकसूचके ।सर्पे तैलिकभेदे स्याद्वासुदेवे च पुंस्ययम् ॥चर्मी भृङ्गरिटौ भूर्जे मोचाफलकहस्तयोः ।चर्म क्लीबन्तु फलके कृत्तौ त्वचि तु कुत्रचित् ॥चेतनो वाच्यवत् प्राणयुक्ते च संविदि स्त्रियाम् ।छर्दनं वमने क्लीबं पुंसि निम्बेऽप्यलम्बुषे ॥छदनं चलने पक्षे पिधानेऽपि नपुंसकम् ।छेदनन्तु द्विधा कार्ये कर्त्रनेऽपि च न द्वयोः ॥जवनस्तु रये वेगिहये वेगवति त्रिषु ॥
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 4 सि (wrong syllable); pāda 4, syllable 3 त्यु (wrong syllable)nearly अनुष्टुप्: pāda 1, syllable 6 वि (wrong syllable)nearly अनुष्टुप्: pāda 2, syllable 3 च (wrong syllable)
जवन as a meaning in nānārtha verses
- नामलिङ्गानुशासनम् आतञ्चनआतञ्चनं प्रतीवापजवनाप्यायनार्थकम् ॥ ११५ ॥ Amarakośa 3.3.115
- धरणिकोश आतञ्चनआतञ्चनं प्रतीवापजवनाप्यायनार्थकम् । आस्फोटनं स्मृतं मुद्गे आस्फोटनं विकासने ॥ Dharaṇikośa 19.2.82
- कोषकल्पतरु आतञ्चतिसमो द्रविः पलायेऽथाङः श्लेषे लिङ्गतिर्मतः । वारणे स्यात्प्रतेः सेधिस्तद्वन्नेरपि वारणे ॥ आङो विरोधे प्रात्ख्यातावाविर्भाव-विभूषयोः । समः स्वभावसंसिद्ध्योरुदो वृद्धौ समुच्छ्रये ॥ आङस्तञ्चिः प्रतीवापे जवनाप्याययोरपि ॥ ३३ ॥ Koṣakalpataru 3.5.33
- कोषकल्पतरु जूजूर्व्योमनद्यां जवने पिशाच्यां Koṣakalpataru 6.7.2
- कोषकल्पतरु आतञ्चनआतञ्चनं तु जवनाप्यायनयोश्च प्रतीवापे । अभिपन्नस्त्वभिराद्धेऽप्यभिद्रुतेचापदा ग्रस्ते ॥ १० ॥ Koṣakalpataru 6.21.10
- नानार्थार्णवसंक्षेप आतञ्चनआप्यायने च जवने प्रतीवापेऽपि दृश्यते । आस्कन्दनं स्यादास्कन्दे युद्धेऽप्यास्तरणं पुनः ॥ ८ ॥ Nānārthārṇavasaṃkṣepa 6.8
- परमानन्दीयनाममाला जूजूर्व्योमवाचि जवनपिशाच्योः कीटकेऽपि च । झो मञ्जुलसमीरे स्यान्नष्टेऽपि परिकीर्तितः ॥ १८ ॥ Paramānandīyanāmamālā 1.18
- शब्दरत्नावली जूतिअवसाने तु सातिः स्यात् जवने जूतिरित्यपि । ज्वरे जूतिः स्यादुदजः पशूनां प्रेरणे मतः ॥ Śabdaratnāvalī 6.68
- शब्दरत्नावली तुरष्कतुरष्कः जवने देशविशेषे सिद्रूके(?)ऽपि च ॥ Śabdaratnāvalī 7.1.86
- तन्त्राभिधान जजवनो वेगितो वामो मानवाक्षः सदात्मकः । हृन्मारुतेश्वरो वेगी चामोदो मदविह्वलः ॥ ८१ ॥ Tantrābhidhāna 2.25.81