कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

शिक्षित

śikṣitaवि · adj.

In 12 kośas: 15 synonym verses, 7 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.6 · p. 18
विद्वान्सुधीः कविविचक्षणलब्धवर्णा ज्ञः प्राप्तरूपकृतिकृष्ट्यभिरूपधीराः ।मेधाविकोविदविशारदसूरिदोषज्ञाः प्राज्ञपण्डितमनीषिबुधप्रबुद्धाः ॥ ३४१ ॥व्यक्तो विपश्चित्संख्यावान्सन्प्रवीणे तु शिक्षितः ।निष्णातो निपुणो दक्षः कर्महस्तमुखाः कृतात् ॥ ३४२ ॥कुशलश्चतुरोऽभिज्ञविज्ञवैज्ञानिकाः पटुः ।
वसन्ततिलका
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह विशेष्यनिघ्नवर्गः Amarakośa 3.1.4
प्रवीणे निपुणाभिज्ञविज्ञनिष्णातशिक्षिताः ।वैज्ञानिकः कृतमुखः कृती कुशल इत्यपि ॥ ४ ॥
अनुष्टुप्
genderविadj.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.335 · p. 40
चतुरः स्यात्क्षेत्रज्ञः कृतहस्तः कृतमुखश्च कृतकर्मा ।दक्षः कुशलोऽभिज्ञो निष्णातः शिक्षितः प्रवीणश्च ॥ ३३५ ॥
गीतिः
genderविadj.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.471 · p. 54
लघुहस्तः शीघ्रवेधी कृतपुङ्खस्तु शिक्षितः ।स भवेदपराद्धेषुर्यस्य लक्ष्याच्च्युतः खगः ॥ ४७१ ॥
अनुष्टुप्
genderविadj.
कल्पद्रुकोशः Kalpadrukośa · केशव ऋषिगोत्रब्रह्मप्रकाण्डः Kalpadrukośa 1.5.51 · p. 74
वैज्ञानिकः कृतमुखो मेधावी विदुरित्यपि ।कुशाग्रीयमतिर्दक्षो विज्ञो विज्ञातशिक्षितौ ॥ ५१ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव विशेष्यनिघ्नकाण्डः Kalpadrukośa 1.9.4 · p. 214
तदर्थकारश्चापि स्यात्कृतकृत्योऽथ शिक्षितः ।निष्णातश्चतुरो विज्ञः प्रवीणो निपुणः पटुः ॥ ४ ॥
अनुष्टुप्
genderविadj.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ आतङ्कवर्गः Koṣakalpataru 3.3.7 · p. 1
शिक्षितः स्यात्कृतमुखः कृतकर्मा च दक्षवत् ।विशारदः पाटविको भवेद्विज्ञानिकश्च सः ॥ ७ ॥
अनुष्टुप्
genderविadj.
नाममालिका Nāmamālikā · भोज भूम्यादिनामधेयप्रकरणम् Nāmamālikā 3.192 · p. 32
शिक्षितः कृतहस्ते तु सांयुगीनो रणेऽपि च ।जवने जवनिमा स्याज्जङ्घालोऽतिजवेति च ॥ १९२ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 नि (wrong syllable)
genderविadj.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.208 · p. 51
प्रथमाभ्याससंप्राप्तशिष्ये शैक्ष्यः प्रकीर्तितः ।शिक्षावान् शिक्षितः शैक्षी चाटुः प्रथमकल्पिकः ॥ २०८ ॥
अनुष्टुप्
genderपुंmasc.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.637 · p. 109
परीक्षकः कारु(र?)णिके वरदे तु समर्धकः ।हर्षमाणे विकुर्वाणोऽभिज्ञे निष्णातशिक्षितौ ॥ ६३७ ॥
अनुष्टुप्
genderविadj.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.505 · p. 64
प्रवीणः शिक्षितो दक्षो निष्णातो निपुणः पटुः ॥ ५०५ ॥
अनुष्टुप्
genderविadj.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश प्राणिवर्गप्रकाशः Śabdaratnāvalī 4.1.4 · p. 159
हृदयालुः सहृदयो भवेत् सुहृदयोऽपि च ।प्रवीणो विज्ञनिष्णातनिपुनाभिज्ञशिक्षिताः ॥
अनुष्टुप्
genderविadj.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण विशेष्यनिघ्नाध्यायः Śabdaratnākara 3.6.1572 · p. 190
कुशलप्रवीणकृतमुखशिक्षितकृतकर्मनिपुणनिष्णाताः ।पटुचतुरदक्षपेशलवैज्ञानिकविज्ञसुकलसूत्थानाः ॥ १५७२ ॥
गीतिः
genderविadj.
वैजयन्ती Vaijayantī · यादवप्रकाश क्षत्रियाध्यायः Vaijayantī 3.7.148 · p. 116
शक्ये तु जेतुं जय्यः स्याज्जेयो जेतव्यमात्रके ।जैत्रो जेता जितो भग्नः कृतहस्तस्तु शिक्षितः ॥ १४८ ॥
अनुष्टुप्
genderविadj.
वैजयन्ती Vaijayantī · यादवप्रकाश अर्थवल्लिङ्गाध्यायः Vaijayantī 5.4.19 · p. 202
प्रवीणोऽभिजनोऽभिज्ञो विज्ञो वैज्ञानिकः कृती ।कृतकृत्यः कृतमुखो निष्णातो दक्षशिक्षितौ ॥ १९ ॥
अनुष्टुप्
genderविadj.

शिक्षित as a meaning in nānārtha verses

  • नामलिङ्गानुशासनम् कुशलपर्याप्तिक्षेमपुण्येषु कुशलं शिक्षिते त्रिषु ॥ २०४ ॥ Amarakośa 3.3.204
  • धरणिकोश क्षेत्रज्ञसर्वज्ञः शंकरे बुद्धे क्षेत्रज्ञः शिक्षितात्मनोः । Dharaṇikośa 9.1.1
  • धरणिकोश कुशलकुशलं सुकृतौ क्षेमे कुशलौ शक्त[91]शिक्षितौ । धवलः सुन्दरे श्वेते महोक्षे धवला च गौः ॥ Dharaṇikośa 27.2.17
  • कोषकल्पतरु विनताजामाता दुहितुर्धवे प्रियतमेऽर्कावर्तरोगेऽथ वि- धाता वेधसि मन्मथेऽथ नरपादेष्ट्रोर्विनेता भवेत् । तार्क्ष्याम्बापिटिकाभिदोश्च विनतारुग्णे नते शिक्षिते त्रय्यां स्यादथ पञ्चता च निधने स्यात्पञ्चभावे तथा ॥ २७ ॥ Koṣakalpataru 6.16.27
  • कोषकल्पतरु कुशलपर्याप्तिक्षेमपुण्येषु कुशलं शिक्षितेऽन्यवत् । दन्ततालव्यमूर्धन्यमध्यं मुसलमस्त्रियाम् ॥ ४ ॥ Koṣakalpataru 6.28.4
  • शब्दरत्नावली कुशलकिहालस्ताम्रकलसे तथा लोहमलेऽस्त्रियाम् । कीलालं रुधिरे तोये पीयूषे च मधुन्यपि ॥ कुशलं शिक्षिते क्षेमे पर्याप्तौ सुकृते त्रिषु । कुवलं तूत्पले मुक्ताफले च बदरीफले ॥ Śabdaratnāvalī 7.28.53
  • वैजयन्ती क्षेत्रज्ञकातरः पण्डके त्रस्नौ क्षेत्रज्ञावात्मशिक्षितौ । कुसीदमृणवृद्धौ क्ली वाच्यवद्वृद्धिजीविनि ॥ ३२ ॥ Vaijayantī 7.5.32