कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

जेतृ

jetṛवि · adj.

In 14 kośas: 13 synonym verses, 6 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.600 · p. 32
सांयुगीनो रणे साधुर्जेता जिष्णुश्च जित्वरः ।
अनुष्टुप्
genderविadj.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह क्षत्रियवर्गः Amarakośa 2.8.74
जैत्रस्तु जेता यो गच्छत्यलं विद्विषतः प्रति ॥ ७४ ॥
अनुष्टुप्
genderविadj.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह क्षत्रियवर्गः Amarakośa 2.8.134
शूरो वीरश्च विक्रान्तो जेता जिष्णुश्च जित्वरः ।
अनुष्टुप्
genderविadj.
कल्पद्रुकोशः Kalpadrukośa · केशव क्षत्रियप्रकाण्डः Kalpadrukośa 1.6.246 · p. 116
ऊर्जस्व्यूर्जस्वलोत्यन्तबलपर्यायवत्यपि ।विक्रान्तो जित्वरो जेता शूरो वीरश्च जिष्णुकः ॥ २४६ ॥
अनुष्टुप्
genderविadj.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.3 · p. 263
क्षय्यस्तु शक्यः क्षेतुं यो जेयो जेतव्यमात्रके ।जय्यस्तु शक्यो जेतुं यो जिष्णुर्जेता च जित्वरः ॥ ३ ॥
अनुष्टुप्
genderविadj.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.392 · p. 150
खुरली तु श्रमः प्रोक्तस्तद्भूमिः स्यात्खलूरिका ।जित्वरो जेतृजिष्णू तु सांयुगीनो रणे क्षमः ॥ ३९२ ॥
अनुष्टुप्
genderविadj.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.342 · p. 68
शूरे वी(धी?)रश्च विक्रान्तो वीरवीर(?)ण्यवीरकाः ।जयैकशीले जिष्णुः स्याज्जेता जित्वर इत्यपि ॥ ३४२ ॥
अनुष्टुप्
genderविadj.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.1316 · p. 207
जेता च जित्वरो जिष्णुः जैत्रश्च विजयी पुनः ॥ १३१६ ॥
अनुष्टुप्
genderविadj.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश ब्रह्मवर्गप्रकाशः Śabdaratnāvalī 3.6.306 · p. 131
जेता जैत्रो जेतृमात्रे जयशीले तु कुत्रचित् ।अत्यर्थं यो व्रजेत् शत्रुं प्रति निःशङ्कमानसः ॥सोऽभ्यमित्रोऽभ्यमित्रीयोऽभ्यमित्रीण इत्यपि ।स्यादूर्जस्वल ऊर्जस्वी पराक्रमबलाधिके ॥अथोरस्वानुरसिलः बृहद्वक्षःस्थले जने ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश ब्रह्मवर्गप्रकाशः Śabdaratnāvalī 3.6.308 · p. 131
अत्यर्थगतिशीलस्तु जनोऽत्यन्तीन उच्यते ।वीरे विक्रान्तशूरौ च जिष्णुर्जेता च जित्वरः ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि तृतीयः काण्डः Śabdaratnākara 3.286 · p. 212
उरस्वान् स्यादुरसिलोऽप्यतिबले ऊर्जस्वलः ।ऊर्जस्वप्यूर्जस्वांश्च जिष्णौ जेता च जैत्रवत् ॥ २८६ ॥
metre not recognised
genderविadj.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण क्षत्रियाध्यायः Śabdaratnākara 3.3.1372 · p. 166
अभिषेणयिता सैन्यैः सपत्नेष्वभियातरि ।जिष्णुजित्वारजेतारो जयी जैत्रः समा इमे ॥ १३७२ ॥
अनुष्टुप्
genderविadj.
वैजयन्ती Vaijayantī · यादवप्रकाश क्षत्रियाध्यायः Vaijayantī 3.7.148 · p. 116
शक्ये तु जेतुं जय्यः स्याज्जेयो जेतव्यमात्रके ।जैत्रो जेता जितो भग्नः कृतहस्तस्तु शिक्षितः ॥ १४८ ॥
अनुष्टुप्
genderविadj.

जेतृ as a meaning in nānārtha verses

  • कोषकल्पतरु जिष्णुकृष्णो विष्णुपराशरात्मजसुभद्रेशेषु काके पिके स्त्री द्राक्षाद्रुपदात्मजामगधजानीलीषु षण्ढे पुनः । लोहे स्यान्मरिचे च मेचकवति त्रय्यां च जिष्णुः पुनः कृष्णे भास्वति वासवे च विजये जेतर्यसौ वाच्यवत् ॥ १३ ॥ Koṣakalpataru 6.15.13
  • नानार्थार्णवसंक्षेप जयन्तकात्यायन्यामिन्द्रपुत्र्यां तर्कार्यां तिथिभेदके । त्रिस्तु जेतर्यथो जीर्णे जरणं क्ली च हिङ्गुनि ॥ ७७१ ॥ Nānārthārṇavasaṃkṣepa 4.771
  • शब्दरत्नावली जजो विषे वेगिते भुक्तौ तेजः पिशाचजेतृषु । जूः स्याद्वियतिभारत्यां पिशाच्यां यवने स्त्रियाम् ॥ Śabdaratnāvalī 7.8.1
  • तन्त्राभिधान जजः शवो वानरः शूली भोगदा विजया स्थिरा । ललदेवो जयो जेता धातकी सुमुखी विभुः ॥ ७९ ॥ Tantrābhidhāna 2.25.79
  • तन्त्राभिधान जवेगिते जः समाख्यातो जघने जः प्रकीर्त्तितः । जेता च जः समाख्यातः प्रसिद्धैः शब्दकोविदैः ॥ १४ ॥ Tantrābhidhāna 3.14
  • त्रिकाण्डशेष जिष्णुजेतरीन्द्रेऽर्जुने जिष्णुर्झूणिः कठिनपूगयोः । तरुणः कुब्जपुष्पेऽपि त्राणं रक्षितरक्षयोः ॥ १२८ ॥ Trikāṇḍaśeṣa 3.3.128