कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

पराभूत

parābhūtaवि · adj.

In 12 kośas: 12 synonym verses.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.617 · p. 33
परापर्यभितो भूतो जितो भग्नः पराजितः ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 त (wrong syllable)
genderविadj.doubtful
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह क्षत्रियवर्गः Amarakośa 2.8.186
पराजितपराभूतौ त्रिषु नष्टतिरोहितौ ।
अनुष्टुप्metre not read in every line
genderविadj.
कल्पद्रुकोशः Kalpadrukośa · केशव क्षत्रियप्रकाण्डः Kalpadrukośa 1.6.365 · p. 129
परापर्यभितो भूतो गतो भग्नः पलायितः ।पराजितेऽपि नष्टः स्याद् गृहीतदिक् तिरोहितः ॥ ३६५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 त (wrong syllable)
genderविadj.doubtful
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.66 · p. 269
अपक्रमोऽप्यथ त्रय्यां पराभूत-पराजितौ ।परिभूतोऽभिभूतः स्यादात्तगन्धोऽपि भग्नवत् ॥उत्पिञ्जलः समुत्पिञ्ज-पिञ्जलौ लुपिताकुलौ ।कान्दिशीकस्तु यो भीत्या व्याकुलः प्रपलायितः ॥पलायितस्तु नष्टः स्यादपक्रान्तस्तिरोहितः ॥ ६६ ॥
अनुष्टुप्
genderविadj.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.399 · p. 151
जितः पराजितो भग्नः पराभूतोऽपि कथ्यते ।नष्टः पलायितोऽप्यात्तदिक्तिरोहित इत्यपि ॥ ३९९ ॥
अनुष्टुप्
genderविadj.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.394 · p. 75
प्रदावोद्रावसंद्रावा अपयानमपक्रमः ।पराजिते पराभूतः परिभावे पराजयः ॥ ३९४ ॥
अनुष्टुप्
genderविadj.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त भूमिभानुः Pañcatattvaprakāśa 2.238 · p. 17
पराजयः परिभवः कश्मलं मोहमूर्च्छने ।जेयः शक्योऽभिगन्तव्यः पराभूतः पराजितः ॥ २३८ ॥
अनुष्टुप्
genderविadj.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.1340 · p. 212
अभिभूतः पराभूतः परिभूतः पराजितः ।जितो भग्नश्च नामानि पराभवस्य मन्यताम् ॥ १३४० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 भ (wrong syllable)
genderविadj.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश ब्रह्मवर्गप्रकाशः Śabdaratnāvalī 3.6.392 · p. 136
लुण्टा लुण्ठा च लुण्टी च लुण्ठी लुण्ठनमित्यपि ।पराजिते पराभूतो विजितो निर्जितो जितः ॥
अनुष्टुप्
genderविadj.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि तृतीयः काण्डः Śabdaratnākara 3.294 · p. 212
भूतः परापर्यभितो, गुप्तौ तु चार-चारकौ ।बन्द्यां ग्रहश्च ग्रहकः प्रोपतो ग्रह इष्यते ॥ २९४ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 तु (wrong syllable)
genderविadj.doubtful
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण विशेष्यनिघ्नाध्यायः Śabdaratnākara 3.6.1585 · p. 191
परिभूतः पराभूतो रीढितोऽवमतो धुतः ।अधिक्षिप्तः प्रतिक्षिप्तोऽवरीणो धिक्कृतः समाः ॥ १५८५ ॥
अनुष्टुप्
genderविadj.
वैजयन्ती Vaijayantī · यादवप्रकाश क्षत्रियाध्यायः Vaijayantī 3.7.219 · p. 122
पराजितः पराभूतः प्रणष्टस्त्वगृहीतदिक् ।प्रस्कन्नपतितौ ध्वस्ते मूढे मूर्च्छालमूर्छितौ ॥ २१९ ॥
अनुष्टुप्
genderविadj.