कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

थ

tha

In 3 kośas: 0 synonym verses, 9 as a nānārtha head word.

कोषकल्पतरु Koṣakalpataru · विश्वनाथ थान्ताः Koṣakalpataru 6.18.1 · p. 229
थः पर्वते स्यान्नरि तस्करे च
उपजातिः
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास प्रथमः परिच्छेदः Paramānandīyanāmamālā 1.24 · p. 4
अव्ययं तु समाहारसाकल्यकरणेष्वपि ।थो भयाद्रक्षणे भूध्रे दम्पत्यां दा प्रदेशने ॥ २४ ॥
अनुष्टुप्
तन्त्राभिधान Tantrābhidhāna · अज्ञात मन्त्राभिधान Tantrābhidhāna 1.20 · p. 3
त-कारो हरिराख्यात आपटी च वरानने! ।थ-कारो देवदेवेशि! कुष्ठो दण्डी च कीर्त्तितः ॥ २० ॥
अनुष्टुप्
थः स्थिरामो महाग्रन्थिर्ग्रन्थिग्राहो भयानकः ।शिली शिरसिजो दण्डी भद्रकाली शिलोच्चयः ॥ १०६ ॥
अनुष्टुप्
कृष्णो बुद्धिर्विकर्मा(र्णा) च दक्षनासाधिपोऽमरः ।वरदा भोगदा केशो वामजानू रसो(पो)ऽनलः ॥ १०७ ॥
अनुष्टुप्
लोलाप्यु(लो)ज्जयिनी(पूः) गुह्यः शरच्चन्द्रो दिवाकरः ॥ १०८ ॥
तन्त्राभिधान Tantrābhidhāna · अज्ञात एकाक्षरकोषः Tantrābhidhāna 3.19 · p. 25
त-कारः कथितश्चौरः क्रोडे पुच्छे प्रकीर्त्तितः ।शिलोच्चये थ-कारः स्यात् थ-कारो भयरक्षणे ॥ १९ ॥
अनुष्टुप्
तन्त्राभिधान Tantrābhidhāna · अज्ञात बीजनिघण्टु Tantrābhidhāna 4.1 · p. 27
अ विद्युज्जिह्वा, आ कालवज्री, इ गर्जिनी,ई धूम्रभैरवी, उ कालरात्रिः, ऊ विदारी, ऋ महारौद्री,ॠ भयङ्करी, ऌ संहारिणी, ॡ करालिनी, ए ऊर्ध्वकेशी,ऐ उग्रभैरवी, ओ भीमाक्षी, औ डाकिनी, अं रुद्रराकिणी,अः चण्डिका, क क्रोधीशः, ख वामनः, ग चण्डः,घ विकारी, ङ उन्मत्तभैरवः, च ज्वालामुखः, छ रक्तदंष्ट्रः,ज असिताङ्गः, झ वडवामुखः, ञ विद्युन्मुखः, ट महाज्वालः,ठ कपाली, ड भीषणः, ढ रुरुः, ण संहारी, त भैरवः,थ दण्डी, द बलिभुक्, ध उग्रशूलधृक्, न सिंहनादी,प कपर्दी, फ करालाग्निः, ब भयङ्करः, भ बहुरूपी,म महाकालः, य जीवात्मा, र क्षतजोक्षितः, ल बलभेदी,व रक्तपटः, श चण्डीशः, ष ज्वलनध्वजः, स धूमध्वजः,ह व्योमवक्त्रः, क्ष त्र्यैलोक्यग्रसनात्मकः ॥
metre not recognised
तन्त्राभिधान Tantrābhidhāna · अज्ञात मध्वाचार्यविरचितमातृकानिघण्टु Tantrābhidhāna 6.34 · p. 44
वामजानुर्विशालाक्षी शौरी दृग्वै कमण्डलुः ।सूचीपूरस्थिरस्थायी स्थविरः था-र्णको मतः ॥ ३४ ॥
अनुष्टुप्