कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

गुह्य

guhyaक्ली · neut.

In 16 kośas: 18 synonym verses, 5 as a nānārtha head word, 33 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.350 · p. 26
पूतौ स्फिजौ कटिप्रोथौ वराङ्गं तु च्युतिर्बुलिः ।भगोऽपत्यपथो योनिः स्मरान्मन्दिरकूपिके ॥ ६०९ ॥स्त्रीचिह्नमथ पुंश्चिह्नं मेहनं शेपशेपसी ।शिश्नं मेढ्रः कामलता लिङ्गं च द्वयमप्यदः ॥ ६१० ॥गुह्यप्रजननोपस्था गुह्यमध्यं गुलो मणिः ।
अनुष्टुप्
genderक्लीneut.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध सामान्यकाण्डम् Abhidhānaratnamālā (Halāyudha) 4.708 · p. 82
रहः प्रच्छन्नमेकान्तं निःशलाकमुपह्वरम् ।उपांशु विजनं प्रोक्तं रहस्यं गुह्यमुच्यते ॥ ७०८ ॥
अनुष्टुप्
genderविadj.
कल्पद्रुकोशः Kalpadrukośa · केशव नरादिप्रकाण्डः Kalpadrukośa 1.4.205 · p. 43
अधस्तादव्ययं चापि क्लीबे रतगृहार्थकम् ।कलत्रं स्मरपर्यायगृहं गुह्यं वराङ्गकम् ॥ २०५ ॥
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव नरादिप्रकाण्डः Kalpadrukośa 1.4.210 · p. 43
शिश्नः क्लीबे व्यञ्जनं स्यान्नरपर्यायलक्ष्म च ।अजः प्रजननं गुह्यं मोहनं पुंस्युपस्थकः ॥ २१० ॥
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव सरभादिप्रकाण्डः Kalpadrukośa 1.12.89 · p. 327
क्षेमङ्करीप्रभृतयः पुनर्गोष्ठचरादयः ।पक्षिशक्रश्च भासश्च गुह्यो विसर इत्यपि ॥ ८९ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव नभःस्थदेवप्रकाण्डः Kalpadrukośa 2.3.81 · p. 388
ईश्वरो हः शर्वगुह्यौ चन्द्रपर्यायशेखरः ।स्यान्नीलात्कालतः कण्ठपर्यायस्त्र्यम्बकार्थकः ॥ ८१ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वारिवर्गः Koṣakalpataru 1.7.94 · p. 109
षोडशाङ्घ्रिश्चाथ कूर्मः क्रोड[70a]पादश्चतुर्गतिः ।पञ्चाङ्गगुप्तो दौलेयो गुह्यः पारीरणस्तथा ॥ ९४ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.62 · p. 213
कर्कटोऽपत्यमार्गश्च जत्रुर्ना भगमस्त्रियाम् ।स्त्रीपुंसयोस्तु करणे गुह्यं प्रजननं च तत् ॥ ६२ ॥
अनुष्टुप्
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ आतङ्कवर्गः Koṣakalpataru 3.3.50 · p. 27
वृष्यं वर्ष्यं शस्यं शस्यं मृज्यं तु मार्ग्यं स्यात् ।मृग्यं गवेषणीयं गुह्यं गोह्यं च गोप्यं च ॥ ५० ॥
उपगीतिः
genderविadj.
प्राग्वंशशब्दः पुंसि भवति । अयं प्राग्वंशो यज्ञकुटी । शृङ्खलं त्रिषु लिङ्गेषु जानीहि । अयं शृङ्खलः इयं शृङ्खला इदं शृङ्खलम् । एते पुंसि कथिताः । अयं चमसः सोमपात्रम् । अयं स्तम्भः । निदाघो घर्मः । पशुर्गवादिः ।शूको धान्यादीनाम् । विटकः पिण्डकृतपरिमाणद्रव्यं शौण्डो वा ।वल्कलकुण्डलहिमचिह्नखलीनककुदगुह्यशुल्कशकलानि ।तीरोलूखलकवचानि च विद्यादितरजातौ ॥ ७७ ॥
metre not recognised
genderक्लीneut.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.361 · p. 146
स मन्त्रस्त्वषडक्षीणो यत्तृतीयाद्यगोचरः ।एकान्तालोचनं मन्त्रो रहस्यं गुह्यमुच्यते ॥ ३६१ ॥
अनुष्टुप्
genderक्लीneut.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त मनुष्यमरीचिः Pañcatattvaprakāśa 1.1.96 · p. 7
चरणोऽङ्घ्रिः पदः पादः पादाग्रं प्रपदं कुधम् ।शङ्खावर्त्तं गुदं पायुरपानं गुह्यगोपने ॥ ९६ ॥
अनुष्टुप्
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.985 · p. 151
गुह्यं प्रजननोपस्थां कथ्यते द्वयमप्यदः ॥ ९८५ ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.1033 · p. 189
रहस्यं चापि गुह्यं वै गुप्तयोग्यं हि मन्यते ।
अनुष्टुप्
genderक्लीneut.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश सिंहादिवर्गप्रकाशः Śabdaratnāvalī 3.5.277 · p. 101
संसारमार्गो गुह्यञ्च स्मरागारं स्मरध्वजम् ।रत्यङ्गं रतिकूहरञ्च कलत्रमध इत्यपि ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderक्लीneut.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव मनुष्यवर्गः Trikāṇḍaśeṣa 2.6.21 · p. 52
भगं गुह्यं वराङ्गं च कलत्रं जन्मवर्त्म च ।स्मरागारं रतिगृहमधोधस्थादिमेऽव्यये ॥ २१ ॥
अनुष्टुप्
genderक्लीneut.
वैजयन्ती Vaijayantī · यादवप्रकाश भूताध्यायः Vaijayantī 4.4.62 · p. 178
उक्तद्वयमुपस्थोऽस्त्री गुह्यप्रजनने नपुम् ।सीवन्यस्मादधः सूत्रं गुह्यमध्यं गुडो मणिः ॥ ६२ ॥
अनुष्टुप्
genderक्लीneut.
वैजयन्ती Vaijayantī · यादवप्रकाश अर्थवल्लिङ्गाध्यायः Vaijayantī 5.4.120 · p. 211
छन्नं गुह्यं निश्शलाकं रहः क्लीबोऽथवाव्ययम् ।गुह्यं रहस्यमित्येतावप्रकाश्येऽपि वस्तुनि ॥ १२० ॥
अनुष्टुप्
genderक्लीneut.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह नानार्थवर्गः Amarakośa 3.3.154
रहस्योपस्थयोर्गुह्यं सत्यं शपथतथ्ययोः ॥ १५४ ॥
अनुष्टुप्
धरणिकोश Dharaṇikośa · धरणिदास यपादः Dharaṇikośa 25.1.4 · p. 148
दस्युः पाटच्चरद्विषोर्मूल्यं वेतनव[71]स्नयोः ।गुह्यं रहस्युपस्थे च सव्यं दक्षिणवामयोः ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 द्वि (wrong syllable)
कोषकल्पतरु Koṣakalpataru · विश्वनाथ यान्ताः Koṣakalpataru 6.26.16 · p. 288
तथार[36a]भट्यां मदने तु वर्यःपतिंवरायां तु भवेत्स्त्रियां सः ।त्रय्यां वरेण्ये कमठे तु दम्भेगुह्योऽप्युपस्थे रहसि द्वयोनः ॥ १६ ॥
इन्द्रवज्राmetre not read in every linenearly इन्द्रवज्रा: pāda 1, syllable 1 त (wrong syllable); pāda 2, syllable 1 प (wrong syllable)
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.356 · p. 73
शृङ्गिबेरपुरस्थाननिषादाधिपतावथ ।गुह्यं शिश्ने भगे क्ली त्रि गोपनीये रहस्यपि ॥ ३५६ ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश यान्ताः Śabdaratnāvalī 7.26.12 · p. 257
ग्राम्यं क्लीबं स्त्रीकरणे प्राकृताश्लीलयोस्त्रिषु ।गुह्यं रहस्युपस्थे च गुह्यो ना दम्भकूर्मयोः ।गृह्यं क्लीबं ग्रन्थभेदे स्त्री शाखानगरेऽपि च ॥
अनुष्टुप्metre not read in every line

गुह्य as a meaning in nānārtha verses