पूर
pūraपुं · masc.In 13 kośas: 9 synonym verses, 4 as a nānārtha head word, 7 as a meaning of another word.
genderपुंmasc.
पात्रं तु कूलयोर्मध्यमावर्तः पयसां भ्रमः ।पूरः स्यादम्भसो वृद्धिः फेनो डिण्डीर उच्यते ॥ ६६८ ॥
अनुष्टुप्
genderपुंmasc.
पुंसि पानीयवृद्धिः स्यात्प्लवः पूरोऽपि चाप्यथ ।देविकासरयूद्भूते त्रिषु दाबिकसारवौ ॥ ५७ ॥
अनुष्टुप्
genderपुंmasc.
झरा झरिर्झरी स्त्रीत्वे प्रवाहो वाहसो रयः ।ओघो धारा-वेणि-वेण्यः पूरो*वर्धनं प्लवः ॥ २४ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 वे (syllables merged)
genderपुंmasc.
घट्टस्तीर्थोऽवतारोऽम्बुवृद्धौ पूरः प्लवोऽपि च ।वक्राणि पुटभेदाः स्युर्भ्रमास्तु जलनिर्गमाः ॥ ३६७ ॥
अनुष्टुप्
genderपुंmasc.
अम्बुवृद्धिः प्लवः पूरश्चेति नामानि मन्यते ॥ १८९९ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
शाकं साकं हरितके करम्भो दधिसक्तुषु ।करम्बोऽपि घार्तिके तु पूरः स्याद्घृत-पिष्टतः ॥ ४३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 पि (wrong syllable)
genderपुंmasc.
पूरः स्यादम्भसां वृद्धिरोघः स्रोतोऽम्भसां स्रुतिः ।स्फूर्जथुर्वीचिविक्षेपे पुलिनं सैकतं समे ॥ ३२१ ॥
अनुष्टुप्
genderपुंmasc.
वेणिर्धारा प्रवाहौघौ पूरस्तु जलबृंहणम् ।चक्राणि पुटभेदाः स्युरावर्तः पयसां भ्रमः ॥ ३० ॥
अनुष्टुप्
genderपुंmasc.
द्वारं पुनर्निर्गमनेऽभ्युपायेपूरोऽम्बुवृद्धौ व्रणशोधने च ।खाद्यान्तरे स्त्री, कठिने तु घोरेक्रूरो नृशंसेऽपि च वाच्यलिङ्गः ॥ १७ ॥
इन्द्रवज्रा
पूजनीयेऽथ पूरो ना नद्याः सलिलबृंहणे ।पुनर्नवायां नृस्त्री तु पूर्तौ पूरी तु सा स्त्रियाम् ॥ ८०० ॥
अनुष्टुप्
पूरो ना व्रणसंशुद्धौ खाद्यभिज्जलवृन्दयोः ।पोत्रं वराहहलयोर्मुखाग्रे रसनेऽपि च ॥
अनुष्टुप्
पूर as a meaning in nānārtha verses
- परमानन्दीयनाममाला चक्रवाडचक्रवाटः शिखावृक्षे क्रियारोहेऽपि सम्मतः । चक्रवाडश्चकवालः पर्वतान्तरपूरयोः ॥ १८४ ॥ Paramānandīyanāmamālā 5.11.184
- परमानन्दीयनाममाला पुरुगुग्गुलेऽपि पुरः प्रोक्तः पुरुः स्वाद्रागपूरयोः । स्वर्लोके प्रचुरे चाथ पारी पूरपरागयोः ॥ २९२ ॥ Paramānandīyanāmamālā 5.19.292
- परमानन्दीयनाममाला राशिरसस्तु पारदे वीर्ये घृते शृङ्गारिके तथा । रथ्या प्रतोल्यां मार्गे च राशिर्मेषादिपूरयोः ॥ ३४६ ॥ Paramānandīyanāmamālā 5.22.346
- शब्दरत्नावली पूरणआगामिवर्तमानाहर्युक्तायां रजनावपि । प्रवेणी च कुथावेण्योः पूरणं पूरपिण्डयोः ॥ Śabdaratnāvalī 7.15.48
- शब्दरत्नावली पारीपत्रं पर्णे वाहने स्याद्बाणे पक्षे च पक्षिणः । पारी गजाङ्घ्रिरज्वाञ्च कर्करीपूरयोः स्त्रियाम् ॥ पात्रं योग्यस्रुवादौ च पृथिवीपालमन्त्रिणि । तीरयुग्मान्तरे क्लीबलिङ्गं स्याद्भाजने त्रिषु ॥ Śabdaratnāvalī 7.27.23
- तन्त्राभिधान दहरिद्रा पूरमद्रिश्च दक्षपाणिस्त्रिरेखकः ॥ ११२ ॥ Tantrābhidhāna 2.35.112
- तन्त्राभिधान थवामजानुर्विशालाक्षी शौरी दृग्वै कमण्डलुः । सूचीपूरस्थिरस्थायी स्थविरः था-र्णको मतः ॥ ३४ ॥ Tantrābhidhāna 6.34