कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

स्थविर

sthaviraपुं · masc.

In 15 kośas: 20 synonym verses, 8 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य देवकाण्डः Abhidhānacintāmaṇi 2.213 · p. 13
द्रुहिणो विरिञ्चिर्द्रुघणो विरिञ्चः परमेष्ठ्यजोऽष्टश्रवणः स्वयंभूः ।कमनः कविः सात्त्विकवेदगर्भौ स्थविरः शतानन्दपितामहौ कः ॥ २११ ॥धाता विधाता विधिवेधसौ ध्रुवः पुराणगो हंसगविश्वरेतसौ ।प्रजापतिर्ब्रह्मचतुर्मुखौ भवान्तकृज्जगत्कर्तृसरोरुहासनौ ॥ २१२ ॥शंभुः शतधृतिः स्रष्टा सुरज्येष्ठो विरिञ्चनः ।हिरण्यगर्भो लोकेशो नाभिपद्मात्मभूरपि ॥ २१३ ॥
metre not recognised
genderपुंmasc.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.4 · p. 17
तारुण्यं यौवनं वृद्धः प्रवयाः स्थविरो जरन् ॥ ३३९ ॥जरी जीर्णो यातयामो जीनोऽथ विस्रसा जरा ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 थ (wrong syllable)
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह मनुष्यवर्गः Amarakośa 2.6.42
प्रवयाः स्थविरो वृद्धो जीनो जीर्णो जरन्नपि ॥ ४२ ॥
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.503 · p. 57
प्रवयाः स्थविरो वृद्धो यातयामश्च कथ्यते ।जरा तु विस्रसा प्रोक्ता दारकस्तरुणो युवा ॥ ५०३ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव नरादिप्रकाण्डः Kalpadrukośa 1.4.96 · p. 31
तरुणस्तु वयस्थः स्याद्युवोत्पन्नवया अथ ।प्रवयाः स्थविरो वृद्धो जीनो जीर्णो जरन्नपि ॥ ९६ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव ब्रह्मप्रकाण्डः Kalpadrukośa 3.2.7 · p. 439
कुशकेतुर्भाववृत्तो नाभिर्ना शाश्वतः कविः ।पुराणगीतः स्थविरः प्रपूज्यः कस्ततः पुनः ॥ ७ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ स्वर्गवर्गः Koṣakalpataru 1.2.57 · p. 13
कमनः स्थविरः पितामहोद्रुहिणोऽष्टश्रवणः पुराणगः ।द्रुघणो भवहृद्विरञ्चनःस विरिञ्चः श्रुतिगर्भ-वेधसौ ॥ ५७ ॥
वियोगिनी
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.15 · p. 210
भवेत्तरुणिमा पुंसि तारुण्यं यौवनेऽस्त्रियाम् ।प्रवयाः स्थविरो वृद्धो जीनो जीर्णो जरन्नपि ।जरी जर्णो * * (यात)यामो वृद्धत्वं स्थाविरं समे ॥ १५ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
नाममाला Nāmamālā (Dhanañjaya) · धनञ्जय Nāmamālā (Dhanañjaya) 124 · p. 62
तारुण्यं यौवनं चान्त्यो वार्द्धीनः स्थविरो मतः ।वंशोऽन्वयोऽन्ववायः स्यादाम्नायः संततिः कुलम् ॥ १२४ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.23 · p. 8
ब्रह्मा प्रजापतिर्धाता विधाता विधिवेधसौ ।द्रुघणाजौ शतानन्दस्थविरौ कमनः कविः ॥ २३ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.4 · p. 101
शैशवं शिशुता बाल्यं युवा स्यात्तरुणः समः ।वयःस्थोऽप्यथ वृद्धे तु स्थविरः प्रवया जरन् ॥ ४ ॥
अनुष्टुप्
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति संकीर्णवर्गः Śāradīyākhyanāmamālā 3.5.71 · p. 41
युवा वयःस्थस्तरुणस्तारुण्यं यौवनं वयः ।जरीयान्स्थविरो वृद्धो वार्धक्यं विस्रसा जरा ॥ ७१ ॥
अनुष्टुप्
genderविadj.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवविभागः Suśīlanāmamālā 3.272 · p. 36
स्थविरश्च शतानन्दः सात्त्विकः कमनः कविः ।द्रुहिणो द्रुधणो धाता नाभिजन्मा विरिञ्चनः ॥ २७२ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश सिंहादिवर्गप्रकाशः Śabdaratnāvalī 3.5.199 · p. 96
अथ बृद्धत्वं वार्धक्य-वार्धक-स्थविराण्यपि ।वृद्धवृन्दे वार्धकं स्यात् विभ्रमा विस्रसा जवा ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 त्वं (wrong syllable)
genderक्लीneut.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश सिंहादिवर्गप्रकाशः Śabdaratnāvalī 3.5.202 · p. 96
वयस्थश्च वयःस्थोपि तरुणस्तलुनो युवा ।स्थविरः प्रवया वृद्धो जीर्णो जीनो जरन्नपि ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण मनुष्याध्यायः Śabdaratnākara 3.1.1142 · p. 141
केशादौ जरया शौक्ल्यं पलितं विस्रसा जरा ।जरठः स्थविरो वृद्धः प्रवया दशमी जरन् ॥ ११४२ ॥
अनुष्टुप्
genderपुंmasc.
तन्त्राभिधान Tantrābhidhāna · अज्ञात मातृकानिघण्टु Tantrābhidhāna 5.30 · p. 37
लाङ्गलीशो नदज्ञ(न्दज)श्च पालिनी च कमण्डलुः ।दक्षजानुर(ग)तः स्थायी ठ-कारः स्थविरः स्मृतः ॥ ३० ॥
अनुष्टुप्
genderपुंmasc.
पालिनी नन्दजः स्थायी लाङ्गलीशः कमण्डलुः ।प्रमोदः स्थविरो वामजानुगश्चन्द्रमण्डलम् ॥ ३० ॥
अनुष्टुप्
genderपुंmasc.
वामजानुगतः सौरिर्विशालाक्षश्च षण्मुखः ।कृष्णश्च वरदो दण्डी स्थविरः था-र्णको मतः ॥ ३५ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश अर्थवल्लिङ्गाध्यायः Vaijayantī 5.4.3 · p. 201
वटुर्माणवकोऽथ स्याद्वयः स्थस्तरुणो युवा ।जीनो जीर्णो वृद्धवयाः प्रवयाः स्थविरो जरन् ॥ ३ ॥
अनुष्टुप्
genderविadj.

स्थविर as a meaning in nānārtha verses