कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

अनल

analaपुं · masc.

In 19 kośas: 22 synonym verses, 6 as a nānārtha head word, 43 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य तेजस्कायः Abhidhānacintāmaṇi 4.3.1 · p. 43
वह्निर्बृहद्भानुहिरण्यरेतसौ धनंजयो हव्यहविर्हुताशनः ।कृपीटयोनिर्दमुना विरोचनाशुशुक्षणी छागरथस्तनूनपात् ॥ १०९७ ॥कृशानुवैश्वानरवीतिहोत्रा वृषाकपिः पावकचित्रभानू ।अप्पित्तधूमध्वजकृष्णवर्त्मार्चिष्मच्छमीगर्भतमोघ्नशुक्राः ॥ १०९८ ॥शोचिष्केशः शुचिहुतवहोषर्बुधाः सप्तमन्त्र-ज्वालाजिह्वो ज्वलनशिखिनौ जागृविर्जातवेदाः ।बर्हिःशुष्मानिलसखवसू रोहिताश्वाश्रयाशौबर्हिर्ज्योतिर्दहनबहुलौ हव्यवाहोऽनलोऽग्निः ॥ १०९९ ॥विभावसुः सप्तोदर्चिः स्वाहाग्नेयी प्रियास्य च ।
upajati 12
वह्निपुंबृहद्भानुपुंहिरण्यरेतस्पुंधनंजयपुंहव्यहविस्पुंहुताशनपुंकृपीटयोनिपुंदमुनस्पुंविरोचनपुंआशुशुक्षणिपुंछागरथपुंतनूनपात्पुंकृशानुपुंवैश्वानरपुंवीतिहोत्रपुंवृषाकपिपुंपावकपुंचित्रभानुपुंअप्पित्तपुंधूमध्वजपुंकृष्णवर्त्मन्पुंअर्चिष्मत्पुंशमीगर्भपुंतमोघ्नपुंशुक्रपुंशोचिष्केसपुंशुचिपुंहुतवहपुंउषर्बुधपुंसप्तमन्त्रज्वालाजिह्वपुंज्वलनपुंशिखिन्पुंजागृविपुंजातवेदस्पुंबर्हिःशुष्मन्पुंअनिलसखपुंवसुपुंरोहिताश्वपुंआश्रयाशपुंबर्हिस्पुंज्योतिस्क्लीदहनपुंबहुलपुंहव्यवाहपुंअनलपुंअग्निपुंविभावसुपुंसप्तोदर्चिस्पुंस्वाहास्त्रीआग्नेयीस्त्री
genderपुंmasc.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य वनस्पतिकायः Abhidhānacintāmaṇi 4.5.1178 · p. 46
चीनकस्तु काककङ्गुर्यवनालस्तु योऽनलः ।जूर्णाह्वयो देवधान्यं जोन्नाला बीजपुष्पिका ॥ ११७८ ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 4 स्तु (wrong syllable)
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह स्वर्गवर्गः Amarakośa 1.1.56
अग्निर्वैश्वानरो वह्निर्वीतिहोत्रो धनञ्जयः ।कृपीटयोनिर्ज्वलनो जातवेदास्तनूनपात् ॥ ५३ ॥बर्हिः शुष्मा कृष्णवर्त्मा शोचिष्केश उषर्बुधः ।आश्रयाशो बृहद्भानुः कृशानुः पावकोऽनलः ॥ ५४ ॥रोहिताश्वो वायुसखः शिखावानाशुशुक्षणिः ।हिरण्यरेता हुतभुग्दहनो हव्यवाहनः ॥ ५५ ॥सप्तार्चिर्दमुनाः शुक्रश्चित्रभानुर्विभावसुः ।शुचिरप्पित्तमौर्वस्तु वाडवो वडवानलः ॥ ५६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 वा (wrong syllable)
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध स्वर्गकाण्डम् Abhidhānaratnamālā (Halāyudha) 1.62 · p. 8
सप्तार्चिर्बहुलः शिखी हुतवहो वैश्वानरोऽग्निर्वसु-र्वह्निर्वायुसखः सितेतरगतिः स्वाहाप्रियः पावकः ।अर्चिष्मान् ज्वलनः कृशानुरनलो धूमध्वजो हव्यवाट्,बर्हिर्ज्योतिरुषर्बुधश्च दहनः स्याच्चित्रभानुः शुचिः ॥ ६२ ॥
शार्दूलविक्रीडितम्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध स्वर्गकाण्डम् Abhidhānaratnamālā (Halāyudha) 1.100 · p. 13
आशाः ककुभः काष्ठा हरितश्च दिशः समाख्याताः ।इन्द्रानलयमनैर्ऋतवरुणमरुद्धनदरुद्रदिक्पालाः ॥ १०० ॥
उद्गीतिः
genderपुंmasc.
गणितनाममाला Gaṇitanāmamālā · हरदत्त नक्षत्रनामानि Gaṇitanāmamālā 1.3 · p. 1
कृत्तिकाग्निभमाग्नेयं कृशानं हव्यवाहनम् ।अनलं दहनर्क्षं च वह्निभं च हुताशनम् ॥ ३ ॥
अनुष्टुप्
genderक्लीneut.
गणितनाममाला Gaṇitanāmamālā · हरदत्त एकाद्यङ्कानां सञ्ज्ञा Gaṇitanāmamālā 3.21 · p. 2
कृशानुगुणरामाग्निपावकानलवह्नयः ।हुताशनास्त्रयास्तिस्रः प्रोक्ताश्च शिखिना बुधैः ॥ २१ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव साधारणप्रकाण्डः Kalpadrukośa 2.1.10 · p. 370
मनुजो रोचमानश्च स्यात्पुरूरव आर्द्धवः ।दशकोऽयं गणोऽथायस्त्वनलश्चानिलो ध्रुवः ॥ १० ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव भूस्थदेवप्रकाण्डः Kalpadrukośa 2.2.6 · p. 377
क्लीबेऽपां पित्तमप्पित्तं ज्योतिर्बर्हिर्हविश्च षण् ।अपि वायुसखाऽनन्तः पाचनः पावनोऽनलः ॥ ६ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ स्वर्गवर्गः Koṣakalpataru 1.2.123 · p. 20
वह्निर्वैश्वानरो* ज्वलन-हुतभुजौ वीतिहोत्रोऽप्सुयोनिःशोचिष्केशः शिखावान्पवि-पचन-शुचि-ज्वाल-जिह्वानलाः स्युः ।सप्तार्च्चिः शुन्ध्यु-शुक्राद्यनि-वनि-दहनोदर्चिरर्चिष्मदग्नि-स्वाहानाथाश्रयाशानिलसख-शिखिनश्चित्रभानुः कृशानुः ॥ १२३ ॥
स्रग्धराmetre not read in every linenearly स्रग्धरा
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ व्योमवर्गः Koṣakalpataru 1.3.21 · p. 28
इन्द्रानल-यम-नैर्ऋत-वरुण-मरुद्वित्तपेशानाः ।धर्णसि-भरथ-दृशाना दिक्पतयो लोकपालाश्च ॥ २१ ॥
उपगीतिः
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ पुंलिङ्गाधिकारः Koṣakalpataru 4.1.25 · p. 96
आवेल उल्लोल-गलौ निचोलःकण्डोल-कुद्दाल-गडोल-गल्लाः ।स्यात्पत्रपालोऽपि च हेमलोऽपिकपोल-वेतालपुलानलोऽपि ॥
उपजातिः
genderपुंmasc.
नाममाला Nāmamālā (Dhanañjaya) · धनञ्जय Nāmamālā (Dhanañjaya) 65 · p. 33
स्वाहापतिर्हुताशश्च ज्वलनो दहनोऽनलः ।वैश्वानरः कृशानुश्च रोहिताश्वो विभावसुः ॥ ६५ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.5 · p. 52
ज्वलनो जागृविर्बर्हिः कृष्णवर्त्मानलौ शुचिः ।शुष्मदस्मौ तथा वीतिहोत्रानिलसखौ वसुः ॥ ५ ॥
अनुष्टुप्
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति धरावर्गः Śāradīyākhyanāmamālā 1.3.166 · p. 18
अग्निर्वह्निर्बृहद्भानुर्दहनो ज्वलनोऽनलः ।वैश्वानरः कृष्णवर्त्मा चित्रभानुर्धनंजयः ॥ १६६ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि तेजस्कायनामानि Suśīlanāmamālā 5.3.1922 · p. 315
बर्हिकत्को बर्हिर्ज्योतिः बर्हिरुत्थस्तथाऽनलः ।बर्हिःशुष्मा च हिरण्यरेताः पवनवाहनः ॥ १९२२ ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 ब (wrong syllable); pāda 3, syllable 6 हि (wrong syllable)
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.132 · p. 10
उदर्चिरपि सप्तार्चिः पावनः पावकोऽनलः ।हिरण्यरेताः हव्याशो हुताशो हुतभुक् शिखी ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि चतुर्थः काण्डः Śabdaratnākara 4.117 · p. 227
आकालिकी चाकालिका, वायौ मरुत-मारुतौ ।मरुत् समीर-समरौ सृमरोऽप्यनलानिलौ ॥ ११७ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 का (wrong syllable)
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण दिक्पालाध्यायः Śabdaratnākara 1.3.79 · p. 11
अनलो वसवोऽष्टैत एतन्मुख्या मरुद्गणाः ।स्युर्महाराजिका रुद्रास्तुषिता वसवोऽनिलाः ॥ ७९ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण दिक्पालाध्यायः Śabdaratnākara 1.3.96 · p. 13
अग्निर्हव्यवहः कृशानुरनलो वैश्वानरः पावकःशोचिष्केश उषर्बुधो हुतवहः स्वाहासहायः शुचिः ।सप्तार्चिर्दहनः समीरणसखो वह्निस्त्रिधामा शिखीशुक्रः शुष्मकृपीडयोनिहुतभुग्बर्हिर्बृहद्भानवः ॥ ९६ ॥
शार्दूलविक्रीडितम्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण दिक्पालाध्यायः Śabdaratnākara 1.3.116 · p. 16
भेदाः स्युरस्य तपनानलतप्तकुम्भ-संदीपनक्रिमिशरौरवतप्तलोहाः ।संघातपूयवहसूकरलो हशङ्कु-संदंशतालमलभोजनकालसूत्राः ॥ ११६ ॥
वसन्ततिलका
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश लोकपालाध्यायः Vaijayantī 1.2.15 · p. 10
दहनो ज्वलनः शुष्मा रोहिताश्व उषर्बुधः ।शोचिष्केशस्त्रिधामाग्निरुदर्चिः पावकोऽनलः ॥ १५ ॥
अनुष्टुप्
genderपुंmasc.
धरणिकोश Dharaṇikośa · धरणिदास लार्धश्लोकः Dharaṇikośa 27.2.19 · p. 193
कुवलं स्यात्कुवलयं कुवलं बदरीफलम् ।अनलो वायुदेवः स्यादनलः स्याद्विभावसुः ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ लान्ताः Koṣakalpataru 6.28.95 · p. 344
स्त्री शर्करायामथ मांसशून्येस्यादुत्पलं वाच्यसमं न तु स्त्री ।इन्दीवरे स्याच्चरमे तु कुष्ठौ-[69a]षधेऽनलः स्याद्वसुदेववह्नयोः ॥ ९५ ॥
इन्द्रवज्राmetre not read in every linenearly इन्द्रवज्रा: pāda 2, syllable 1 ष (wrong syllable)
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् पुंल्लिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 3.2.4 · p. 11
एवमाद्यौपनिषद्प्रयोगेषु मनीषिभिः ।अनलश्चित्रके वह्नावनयस्तु विपद्यपि ॥ ४ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
शिवकोष Śivakoṣa · शिवदत्तमिश्र लत्रिः Śivakoṣa 23.2.448 · p. 41
अनलोऽरुष्करे चित्रेऽप्युद्दाले वनकोद्रवे ॥ ४४८ ॥
शिवकोष Śivakoṣa · शिवदत्तमिश्र लत्रिः Śivakoṣa 23.2.449 · p. 41
व्रीहिभेदे कोविदारे मधुभेदे च न द्वयोः ।उत्पलं पुष्करे कुष्ठे कमलं जलजे जले ॥ ४४९ ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश लान्ताः Śabdaratnāvalī 7.28.40 · p. 279
अनलो वसुभिद्वह्न्योरनिलो वाजिवातयोः ।अर्गलस्त्रिषु कल्लोले चान्तर्दण्डकपाटयोः ॥
अनुष्टुप्

अनल as a meaning in nānārtha verses

  • नामलिङ्गानुशासनम् वसुदेवभेदेऽनले रश्मौ वसू रत्ने धने वसु । Amarakośa 3.3.444
  • धरणिकोश वसुवसवो देवभेदाः स्यू रश्मौ योक्त्रेऽनले वसुः । कुबेरे वकपुष्पे च वसु रत्नं धनं वसु ॥ Dharaṇikośa 31.3.1
  • कोषकल्पतरु ककः स्याद्विधा[247a]तर्यनलेऽनिलेऽर्के सख्यौ तथा चात्मनि धर्मराजे । दक्षे मयूरे नरि कं तु मौलौ नीरे सुखेऽथ त्रिषु सर्वनामा ॥ २ ॥ Koṣakalpataru 6.1.2
  • कोषकल्पतरु कर्क[247b]कर्कस्तु शुक्लाश्वघटानलेषु राशौ तथा दर्पण ईरितोऽयम् । तर्को वितर्केच्छययोः(?)क्रियाया भेदे च शल्कं शकले च वल्के ॥ ८ ॥ Koṣakalpataru 6.1.8
  • कोषकल्पतरु मलिनमुखमलिनमुखस्तु प्रेते गोलाङ्गूलेऽनले च खले ॥ ८८ ॥ Koṣakalpataru 6.2.88
  • कोषकल्पतरु शुचिउरुबूके चञ्चुर्ना पक्ष्यङ्गे स्त्री शुचिस्तु रागे स्यात् । नाषाढे शृङ्गारे मन्त्रिणि शुद्धेऽनले ग्रीष्मे ॥ ४ ॥ Koṣakalpataru 6.5.4
  • कोषकल्पतरु मुष्णमुष्णस्तु सूर्येऽप्यनले च दिष्टो वेणुर्नदे देशविशेषके च । सृणिः पुमान्वायुरवीन्दुवाची स्त्री[280b]पुंसयोरङ्कुशवाचकश्च ॥ Koṣakalpataru 6.15.17
  • कोषकल्पतरु धूमकेतुपुरस्कृतं शत्रुगृहीत ऊरी- कृतेऽर्चितेऽग्रे च कृतेऽन्यवत्स्यात् । स्यान्निन्दितत्यक्तविचूर्णितेषु त्रयेऽप्यवध्वस्तमथानले स्यात् । उत्पातके च ग्रहभेदके च ना धूमकेतुः कथितः प्रवीणैः ॥ ६६ ॥ Koṣakalpataru 6.17.66
  • कोषकल्पतरु हिमारातिसदागतिः स्यात्पवने सदीशे खगे हिमारातिरिहानलेऽर्के । पदाप्तिवार्तागुरुताप्रबोध- प्रागल्भ्यकेषु प्रतिपत्तिरुक्ता ॥ ७३ ॥ Koṣakalpataru 6.17.73
  • कोषकल्पतरु तिथतिथोऽनले स्यान्मदनेऽथ नीथं स्तोत्रे गुदे नेतरि वाच्यलिङ्गम् । पाथो रवौ नाम्बु हविर्गतोऽन्त्ये कोथोऽक्षिरोगे शटिते च मन्थे ॥ ९३ ॥ Koṣakalpataru 6.18.93
  • कोषकल्पतरु उषपअर्केऽनले स्यादुषपोऽथ मान- भेदे मुनौ ना कुटपस्तथैव । स्यान्निष्कुटेऽथो कुतपः स्त्रियां न दिनाष्टमांशे च[26b]कुशे च वाद्ये । स्यात्कम्बलेऽजस्य पुमांस्तु सूर्ये स्वसुश्च पुत्रेऽ प्युलपस्तु न स्त्री । वीरुद्गतो ना तु मृदौ तृणे स्या- च्चन्द्रे पुमान्स्यादुडुपः प्लवेऽस्त्री । विटाधिपे ना विटपोऽस्त्रियां तु स्कन्धोर्ध्वशाखासु तरोस्ततौ च । स्यात्पल्लवे चाथ निशाचरे ना स्याद्रक्तपः स्त्री नुवि( ? )पादपस्तु । स्यात्पादपीठे च तरौ च पुंसि स्त्री पादुकायां महिषे त्वनूपो ऽम्बुप्रायदेशे तु विशेष्यलिङ्गः । स्यात्पूतिगन्धे कुणपः शवेऽस्त्री न स्त्री तथावाप इहालवाले ॥ १३ ॥ Koṣakalpataru 6.22.13
  • कोषकल्पतरु दस्मवक्रे च मन्दे परवच्च सूक्ष्मं त्वध्यात्मके कैतवके च षण्ढे । अणौ पुमान्स्यात्त्रिषु चाल्पवाचि दस्मस्तु चौरानलयष्टृषु स्यात् ॥ ६९ ॥ Koṣakalpataru 6.25.69
  • कोषकल्पतरु धिष्र्यपुण्यं मनोज्ञे सुकृ[37a]ते च पूते ऽन्यवद्भवेद्धिष्ण्यमुडौ च [गे] हे । स्थाने च शक्तावनले तु पुंसि शल्यं तु न स्त्री किल शङ्कुवाचि ॥ २८ ॥ Koṣakalpataru 6.26.28
  • कोषकल्पतरु पिङ्गलस्त्रियां मृगद्रुभेदे स्यान्नागभेदे तु पिङ्गलः । मुनौ रुद्रेऽर्कानुचरे निधिभेदेऽनले कपौ ॥ १५ ॥ Koṣakalpataru 6.28.15
  • कोषकल्पतरु गुडाकेशव्याजे निमित्तेऽप्यथ जीवितेशो जीवातुजीवाधिपयोः कृतान्ते । कान्तेऽथ शंभौ हरिसारथौ च भवेद्गुडाकेश इहानले तु ॥ २७ ॥ Koṣakalpataru 6.30.27
  • कोषकल्पतरु दक्षऋक्षोऽद्रिभेदे कृतवेधने च तथाच्छभल्ले नरि शोणके च । भे तु स्त्रियामेष न गुह्यके स्यात् यक्षः कुबेरेऽथ मुनिप्रभेदे । दक्षो विधौ नन्दिनि ताम्रचूडे द्रुमेऽनले भेद्यसमः पटौ सः । भुवि स्त्रियां पक्ष इहार्धमासे पार्श्वे ग्रहे साध्यविरोधयो[85a]श्च ॥ ४८ ॥ Koṣakalpataru 6.30.48
  • नानार्थार्णवसंक्षेप तेजस्विस्तारे च शरीरे च तेजस्तु बलतोययोः । नवनीतेऽनले धर्मे ज्योतिष्यर्चिषि रेतसि ॥ २९ ॥ Nānārthārṇavasaṃkṣepa 2.3.29
  • नानार्थार्णवसंक्षेप रुद्रचतुष्पाज्जातिभेदे च स्यादश्वावेसरोद्भवे । रुद्राणी त्वद्रिजायां स्त्री ना तु रुद्रः शिवेऽनले ॥ १११४ ॥ Nānārthārṇavasaṃkṣepa 2.5.1114
  • नानार्थार्णवसंक्षेप वीध्रविगतौ त्रिस्तु विगते शान्ते कान्तगतादिषु । वीध्रं पुंस्यनले वायौ मेघे क्ली तु नभस्यथ ॥ १२६६ ॥ Nānārthārṇavasaṃkṣepa 2.5.1266
  • नानार्थार्णवसंक्षेप सव्यशरीरभागे वामे च सोतव्यसवितव्ययोः । तथा प्रेरयितव्ये च मृतके त्वनले पुमान् ॥ १४४७ ॥ Nānārthārṇavasaṃkṣepa 2.5.1447
  • नानार्थार्णवसंक्षेप नाराशंसधूमकेतुस्तु विज्ञेय उत्पाते पावकेऽप्यथ । यज्ञे मन्त्रविशेषे च नाराशंसोऽनलेऽप्यथ ॥ ६८ ॥ Nānārthārṇavasaṃkṣepa 6.68
  • नानार्थार्णवसंक्षेप मर्मरीकशिरःस्नेहे नपि त्वेतद् दधिमण्डेऽथ पुंसि सः । मर्मरीकोऽनले शूरे द्वे तु श्येनेऽथ सा स्त्रियाम् ॥ ४८५ ॥ Nānārthārṇavasaṃkṣepa 6.485
  • परमानन्दीयनाममाला शुचिशङ्खोऽसुरे निधौ कम्बौ शुचिर्ग्रीष्मेऽनले सिते । शृङ्गारे मासभेदे च शोणो रक्ते हये नदे ॥ ३५४ ॥ Paramānandīyanāmamālā 5.25.354
  • शब्दरत्नावली तमोनुदतमोनुदनले सूर्ये दीपे हिमकरे पुमान् । प्रतिपत्तिथिभेदे स्याच्चेतनायामपि स्त्रियाम् ॥ Śabdaratnāvalī 7.18.26
  • शब्दरत्नावली प्रभाकरप्रभाकरोऽनले सूर्ये शीतभावुसमुद्रयोः । परिवारः परिजने खड्गकोषे परिच्छदे ॥ Śabdaratnāvalī 7.27.136
  • शब्दरत्नाकर कृष्णकचः केशे जीवपुत्रे कृष्णो नीलेऽनले हरौ । व्यासेऽर्जुने च कृष्णा तु पिप्पली द्रुपदात्मजा ॥ १९०० ॥ Śabdaratnākara 4.1.1900
  • शब्दरत्नाकर शुक्रमालाक्षतादिदाने स्त्री शेषा शुक्रोऽनले कवौ । दक्षिणाग्नौ ज्येष्ठमासे क्लीबे रुक्मेऽप्सु रेतसि ॥ २०११ ॥ Śabdaratnākara 4.1.2011
  • शब्दरत्नाकर निषधआज्ञायामपि निर्देशो निषधोऽनलभूभृतोः । निकारस्तु तिरस्कारे धान्योत्क्षेपणशाठ्ययोः ॥ २१११ ॥ Śabdaratnākara 4.1.2111
  • शब्दरत्नाकर चित्रभानुअर्कानलौ चित्रभानू चक्रपादो रथेभयोः । जने देशे जनपदः चन्द्रेऽक्रेऽग्नौ तमोनुदः ॥ २२०९ ॥ Śabdaratnākara 4.1.2209
  • शब्दरत्नाकर तेजोनिधितारकारिर्गुहे भानौ तेजोनिधिरिनेऽनले । दिवाभीत उलूके स्यात्तस्करे कुमुदाकरे ॥ २२१० ॥ Śabdaratnākara 4.1.2210
  • तन्त्राभिधान ककः क्रोधीशो महाकाली कामदेवः प्रकाशकः । कपाली तै(ते)जसः शान्तिर्वासुदेवो जयाऽनलः ॥ ५६ ॥ Tantrābhidhāna 2.18.56
  • तन्त्राभिधान थकृष्णो बुद्धिर्विकर्मा(र्णा) च दक्षनासाधिपोऽमरः । वरदा भोगदा केशो वामजानू रसो(पो)ऽनलः ॥ १०७ ॥ Tantrābhidhāna 2.34.107
  • तन्त्राभिधान क्षक्षेत्रपालो महाक्षोभो मातृकान्तोऽनल-क्षयौ । मुखं कव्यं महानन्ता कालजिह्वा गणेश्वरः ॥ १७२ ॥ Tantrābhidhāna 2.52.172
  • तन्त्राभिधान फवामपार्श्वोऽथ वैकुण्ठः शिवोऽनलस्त्रिपत्रकः । कान्तोरगौ सरित् फुल्लः फट्कारः फा-र्णको मतः ॥ ३९ ॥ Tantrābhidhāna 6.39
  • त्रिकाण्डशेष शुचिस्वल्पेऽपि सारिकायां च वचा ग्रीष्मानलौ शुचिः । सूची नृत्यप्रभेदे च व्यधनीशिखयोरपि ॥ ७९ ॥ Trikāṇḍaśeṣa 3.3.79
  • वैजयन्ती वहिनासोर्ध्वास्थ्नीक्षुभेदे च वहिरुक्ष्णि हयेऽनले । वलो धान्येऽसुरे काके गवां श्वासेऽनिले वहः ॥ ५३ ॥ Vaijayantī 6.1.53
  • वैजयन्ती तेजस्नवनीतेऽनले धर्मे दानं हस्तिमदेऽपि च । द्रव्यं गुणानामाधारे भेषजे योगवित्तयोः ॥ १५ ॥ Vaijayantī 6.3.15
  • वैजयन्ती धिष्ण्यन्यायाचारयमाहिंसास्वस्त्री मेढ्रांकयोर्ध्वजः । धिष्ण्यौ शुक्रानलौ धिष्ण्यमृक्षे स्थाने बले गृहे ॥ ४३ ॥ Vaijayantī 6.5.43
  • वैजयन्ती शुक्रशुक्रः सिते कवौ चन्द्रे मासभेदेऽनले द्विजे । शुक्रं मेध्येऽप्सु पुण्येऽर्थे रुक्मेऽक्षिरुजि रेतसि ॥ ८६ ॥ Vaijayantī 6.5.86
  • वैजयन्ती त्रिधामन्तपनो भास्करे ग्रीष्मे त्रिदिवो व्योम्नि दिव्यपि । त्रिशंकू तार्क्ष्यमार्जारौ त्रिधामा केशवेऽनले ॥ २९ ॥ Vaijayantī 7.1.29
  • वैजयन्ती प्रचेतस्वरुणेऽनले प्रचेताः प्रतापमाहात्म्ययोः प्रभावः स्यात् । भेदसमते प्रकारौ विपर्यये विस्तरे प्रपञ्चः स्यात् ॥ ५६ ॥ Vaijayantī 7.1.56
  • वैजयन्ती चित्रभानुघनाघनो मत्तगजे वासवे वार्षुकांबुदे । चक्रपादौ रथगजौ चित्त्रभानू इनानलौ ॥ २२ ॥ Vaijayantī 8.1.22
  • वैजयन्ती दर्दुरीकदिवाभीतो दिवाकीर्ती पुनश्चण्डालनापितौ । दर्दुरीकोऽनले वाद्ये पार्थाग्नीन्द्रा धनञ्जयाः ॥ २४ ॥ Vaijayantī 8.1.24