कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

दृष्टान्त

dṛṣṭāntaपुं · masc.

In 7 kośas: 1 synonym verse, 6 as a nānārtha head word, 1 as a meaning of another word.

शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण संकीर्णाध्यायः Śabdaratnākara 3.7.1706 · p. 206
प्रदाने स्पर्शनं क्षारे कर्शनं दर्शनं दृशि ।निदर्शनं तु दृष्टान्ते विचारे तु विमर्शनम् ॥ १७०६ ॥
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह नानार्थवर्गः Amarakośa 3.3.62
व्यक्तः प्राज्ञेऽपि दृष्टान्तावुभौ शास्त्रनिदर्शने ॥ ६२ ॥
अनुष्टुप्
धरणिकोश Dharaṇikośa · धरणिदास तार्धश्लोकः Dharaṇikośa 15.2.57 · p. 76
वृत्तान्तः स्यात्प्रकरणे कार्त्स्न्यवार्ताप्रकारयोः ।दृष्टान्तः कथितो धीरैरुदाहरणशास्त्रयोः ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ तान्ताः Koṣakalpataru 6.16.19 · p. 221
दृष्टान्तस्तु निदर्शने च मरणे शास्त्रे कृतान्तः पुनःसिद्धान्तान्तकदैवनिःशुभकृतिष्वाख्यायते पण्डितैः ।क्लीबे धाम्नि निशान्तके तु कलिते शान्ते निशान्तोऽन्यव-द्वृत्तान्तस्तु रहोऽर्थके प्रकरणे कार्त्स्न्ये प्रवृत्तावपि ॥ १९ ॥
शार्दूलविक्रीडितम्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.956 · p. 131
लूतायामित्यभाषिष्ट दृष्टान्तस्तु पुमानयम् ।शास्त्रे तथोदाहरणे बहुव्रीहौ तु भेद्यवत् ॥ ९५६ ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश तान्ताः Śabdaratnāvalī 7.16.108 · p. 220
दृष्टान्तो मरणे शास्त्रे स्यादुदाहरणेऽपि च ।निर्ऋतिः पुंसि दिक्पालभेदेऽलक्ष्म्यामपि स्त्रियाम् ॥
अनुष्टुप्
वैजयन्ती Vaijayantī · यादवप्रकाश पुंलिङ्गाध्यायः Vaijayantī 7.1.32 · p. 241
द्रुहिणौ हरिधातारौ शास्त्रोदाहरणयोस्तु दृष्टान्तः ।दोषज्ञौ बुधभिषजौ धरुणाः स्तनधातृलोकार्काः ॥ ३२ ॥
आर्या

दृष्टान्त as a meaning in nānārtha verses

  • कोषकल्पतरु इतिइति प्रकारादिसमाप्तिहेतु- प्रकाशदृष्टान्तविनिर्णयेषु । स्वरूपसांनिध्यपरानुकर्षे तथैवमर्थेऽपि समामनन्ति ॥ ९५ ॥ Koṣakalpataru 5.1.95