शास्त्र
śāstraक्ली · neut.In 15 kośas: 7 synonym verses, 6 as a nānārtha head word, 79 as a meaning of another word.
ऋषिः शास्त्रकृदाचार्यः शास्त्रं तु स्मृतिरागमः ।रामेण रावणवधो रामायणमथोच्चयः ॥ ३६ ॥
अनुष्टुप्
genderक्लीneut.
यावानिति समुच्चयो कश्चिद्यस्त्रान्तः शब्दः स नपुंसके बोद्धव्यः । पुत्रमन्त्रश्वित्रशब्दान् वर्जयित्वेत्यर्थः । यथा । सूत्रं शस्त्रं शास्त्रं मित्रं पत्रं पवित्रं च । गात्रं पोत्रं पात्रं दात्रं सत्रं परित्रं चेत्यादि । अयं पुत्रः सुतः । अयं मन्त्रो होमवाच्यो वेदश्च । हि शब्दोऽनुक्तसमुच्चयार्थः ।तेन छत्रछात्रविष्णुमित्रादीनां पुंस्त्वप्राप्तेः सिद्धिः । अयं छत्रो नर्त्तकः आतपवारणवाचकस्य छत्रशब्दस्य नपुंसकतैव । इदं छत्रं वर्षातपवारणम् । अयं छत्रोऽध्येता । अयं विष्णुमित्रः कश्चित्पुरुषः ।यात्रामात्राभस्त्रादंष्ट्रा विद्यात् स्त्रियां वरत्रा च ।इदूदन्तं यच्चैकाच् शरद्दरद्दृषत्प्रावृषश्चैव ॥ १२ ॥
metre not recognised
genderक्लीneut.
दीक्षितं मौण्ड्यं शिष्यं तमन्तेवासिनं विदुः ।कृतान्तागमसिद्धान्ताः ग्रन्थः शास्त्रमतः परम् ॥ ४ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 मौ (syllables merged)
genderक्लीneut.
शुम्बं तुम्बं कांस्यजालस्थलानिस्थाली गोला छर्द्यलाबूडवोऽथ ।शास्त्रं गात्रं काहलं मन्दिरं चवीर्यं नासीरापरे पित्तलापि ॥ १७२ ॥
शालिनी
genderस्त्रीक्लीf. n.
सिद्धान्तागमराद्धान्तकृतान्ताः प्रोक्तयः श्रुतम् ।समयः प्रवचनं सूत्रं ग्रन्थः शास्त्रं च पुस्तकम् ॥ १३८ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderक्लीneut.
शपने दुःषमं गालिः शास्त्रे तु स्मृतिरागमः ।झलज्झला स्यादास्फाले वसनग्रन्थिरुच्चयः ॥
अनुष्टुप्
genderक्लीneut.
ऋषिः शास्त्रकृदाचार्यः शास्त्रं तु स्मृतिरागमः ।साङ्ख्यं समीक्षं स्याद्दिव्यदोहदं तूपयाचितम् ॥ १३ ॥
अनुष्टुप्
genderक्लीneut.
शास्त्र as a meaning in nānārtha verses
- नामलिङ्गानुशासनम् प्रमाणप्रमाणं हेतुमर्यादाशास्त्रेयत्ताप्रमातृषु । Amarakośa 3.3.106
- नामलिङ्गानुशासनम् दृष्टान्तव्यक्तः प्राज्ञेऽपि दृष्टान्तावुभौ शास्त्रनिदर्शने ॥ ६२ ॥ Amarakośa 3.3.62
- नामलिङ्गानुशासनम् श्रुतश्रुतं शास्त्रावधृतयोर्युगपर्याप्तयोः कृतम् । Amarakośa 3.3.150
- नामलिङ्गानुशासनम् ग्रन्थशास्त्रद्रविणयोर्ग्रन्थः संस्थाधारे स्थितौ मृतौ । Amarakośa 3.3.170
- हलायुधकोशः (अभिधानरत्नमाला) ग्रन्थदानविशेषे लब्धौ दायो भागार्हपित्र्यरिक्थे च । लिपिसंख्यायां शास्त्रे द्रव्ये च ग्रन्थशब्दमिच्छन्ति ॥ ८४४ ॥ Abhidhānaratnamālā (Halāyudha) 5.844
- धरणिकोश प्रमाणप्रमाणमनुमानादौ हेतुमर्यादयोरपि । सम्यक्प्रवक्तृपुरुषे प्रमाणं मानशास्त्रयोः ॥ Dharaṇikośa 14.3.13
- धरणिकोश श्रुतसातिर्मूर्खकृतं सातिः? प्रोतं गुम्फितवाससोः । व्यक्तं स्फुटं बुधो व्यक्तः श्रुतं शास्त्रेऽवधारिते ॥ Dharaṇikośa 15.1.6
- धरणिकोश दृष्टान्तवृत्तान्तः स्यात्प्रकरणे कार्त्स्न्यवार्ताप्रकारयोः । दृष्टान्तः कथितो धीरैरुदाहरणशास्त्रयोः ॥ Dharaṇikośa 15.2.57
- धरणिकोश ग्रन्थग्रन्थः शास्त्रे धने चैव पार्थौ ककुभपाण्डवौ । यूथौ जातकुरुण्टौ च गाथा वाग्भेदवृत्तयोः ॥ Dharaṇikośa 16.1.2
- धरणिकोश तीर्थतीर्थः स्यादवतारे च पात्रोपाध्यायमन्त्रिषु । स्त्रीणां रजसि शास्त्रे च क्षेत्रोपायाध्वरेषु च ॥ Dharaṇikośa 16.3.2
- धरणिकोश शासनशासनं नृपदत्तोर्व्यां लेखाज्ञाशास्त्रशान्तिषु । सेचनं रक्षणे सेके नौकासेचनभाजने ॥ Dharaṇikośa 19.2.52
- धरणिकोश दर्शनकर्तनं छेदनं प्रोक्तं स्त्रीणां च सूत्रकर्शने । दर्शनं लोचने स्वप्ने बुद्धिशास्त्रोपलब्धिषु । रञ्जनं रागजननं रञ्जनं रक्तचन्दनम् ॥ Dharaṇikośa 19.2.53
- धरणिकोश कल्पकल्पः शास्त्रे विधौ न्याये संवर्ते ब्रह्मणो दिने । कूपो नौगुणवृक्षे स्याद्गर्तोदपानयोरपि ॥ Dharaṇikośa 20.2.1
- धरणिकोश ककुभ्जृम्भे जृम्भणविकासे रम्भा वारयोषाप्सराः । सनाभिः सदृशे ज्ञातावात्मभूः स्मरवेधसोः । ककुभ् शास्त्रे दिशि ज्ञेया अनुष्टुब्वाचि छन्दसि ॥ Dharaṇikośa 23.1.3
- धरणिकोश तन्त्रतन्त्रं कारणशास्त्रयोश्च शपथे भैषज्यसिद्धान्तयो- र्मुख्यार्थेऽपि परिच्छदेऽपि च तथा तन्त्रं कुटुम्बात्मनि । तन्त्रं शाकटसूत्रछन्दमुभयार्थप्रयोजकस्तु सः तन्त्रीः स्यात्तु विपञ्चिकादिकगुणे स्याद्देह[85]नाडीषु च ॥ Dharaṇikośa 26.3.3
- कोषकल्पतरु श्रुतफले च पर्याप्तगतं च षण्ढे त्रिषु प्रणीतेऽपि च हिंसिते च । धुतं भवे******* धूतं तथा भर्त्सितकम्पितार्थम् । पूतं पवित्रे बहुलीकृते च तोयेऽथ शास्त्रेऽवधृते श्रुतं स्यात् ॥ ५ ॥ Koṣakalpataru 6.16.5
- कोषकल्पतरु शास्तिपत्तिर्गतौ सैन्यविशेषके स्त्री पुमांस्तु शू[290b]रे पदगेऽन्यवत्स्यात् । दृतिर्द्वयोश्चर्मपरे तु मत्स्ये शास्तिस्तु शास्त्रे युजि शासनेऽपि ॥ ५९ ॥ Koṣakalpataru 6.16.59
- कोषकल्पतरु दृष्टान्तदृष्टान्तस्तु निदर्शने च मरणे शास्त्रे कृतान्तः पुनः सिद्धान्तान्तकदैवनिःशुभकृतिष्वाख्यायते पण्डितैः । क्लीबे धाम्नि निशान्तके तु कलिते शान्ते निशान्तोऽन्यव- द्वृत्तान्तस्तु रहोऽर्थके प्रकरणे कार्त्स्न्ये प्रवृत्तावपि ॥ १९ ॥ Koṣakalpataru 6.16.19
- कोषकल्पतरु दर्शनस्याद्दर्शनं लोचनबुद्धिधर्मे स्वप्नोपलब्ध्योर्मुकुरे च शास्त्रे । कश्मीरजे स्यात्पिशुनं त्रये तु क्रूरे खले पुंसि तु मर्कटास्ये ॥ २५ ॥ Koṣakalpataru 6.21.25
- कोषकल्पतरु अध्वन्क्लेदा सुधांशौ नरि चौषधौ[18b]च स्नेहा च मित्रे नरि शीतरश्मौ । आत्मा नरि स्याद्धृतिबुद्धिशील- ब्रह्मप्रयत्नेषु वपुर्हृदोश्च । व्यावर्तने स्यात्परतश्च काले- ऽथाध्वा तु संस्थानपथोश्च शास्त्रे ॥ ८५ ॥ Koṣakalpataru 6.21.85
- कोषकल्पतरु कल्पकल्पस्तु शास्त्रे प्रलये च युक्ते विधेर्दिने पुष्पवतोः पपीः स्यात् । कस्तूरिकायां तु तथाभिमाने दर्पोऽथ कोपे च हठे च खष्पः ॥ ६ ॥ Koṣakalpataru 6.22.6
- कोषकल्पतरु आगमसंक्राम एवं मतिसंपदि स्यात् ना निष्क्रमो निर्गति-दुष्कुलार्थः । स्यादागमोऽथागतिशास्त्रवाची स्याद्विभ्रमो भ्रान्तिविलासभेदे ॥ ८२ ॥ Koṣakalpataru 6.25.82
- कोषकल्पतरु तन्त्रइतिक्रियायां परिवारशास्त्रे प्रधानसिद्धान्त * भेषजेषु । स्याद्वेदशाखाभिदि तन्तुवाये स्यात्साध[47b]कोपायवशित्वसैन्ये ॥ ३७ ॥ Koṣakalpataru 6.27.37
- नानार्थार्णवसंक्षेप विद्यास्पृक्कानद्योश्च विद्या तु शास्त्रविज्ञानयोरपि । शैवागमप्रसिद्धेषु तत्त्वभेदेषु केषुचित् ॥ ९६ ॥ Nānārthārṇavasaṃkṣepa 2.1.96
- नानार्थार्णवसंक्षेप अर्थमुस्तेऽभ्रकेऽम्बुदस्याथ शैलेये धरणीभृतः । अर्थः फले धने शास्त्रे वस्तुमात्रे प्रयोजने ॥ ४ ॥ Nānārthārṇavasaṃkṣepa 2.2.4
- नानार्थार्णवसंक्षेप ग्रन्थग्रन्थस्तु शास्त्रे द्रविणे द्वात्रिंशद्वर्णसञ्चये । वचस्यथ ग्रन्थिरिक्षुवेण्वादेः काण्डयोर्द्वयोः ॥ ४४ ॥ Nānārthārṇavasaṃkṣepa 2.2.44
- नानार्थार्णवसंक्षेप तन्त्रशास्त्रौषधान्त्रमुख्येषु प्रयोगेऽध्वरकर्मणाम् । एकस्यैवोभयार्थत्वे कुटुम्बव्यापृतावपि ॥ २६ ॥ Nānārthārṇavasaṃkṣepa 2.3.26
- नानार्थार्णवसंक्षेप कोशशास्त्रे प्रजनने पेश्यां वृषणेऽपि च केचन । कृमिभेदस्य नीडे चे कौशेयप्रकृतौ तथा ॥ २८६ ॥ Nānārthārṇavasaṃkṣepa 2.5.286
- नानार्थार्णवसंक्षेप तीर्थशास्त्रे निदाने योग्ये च स्त्रीपुष्पे दर्शनेष्वपि । उपाध्यायेऽप्युपाये च प्राहाचार्यकुलेऽपरः ॥ ५४३ ॥ Nānārthārṇavasaṃkṣepa 2.5.543
- नानार्थार्णवसंक्षेप श्रुततत्राथ क्ली श्रुतं शास्त्रे श्रवणाख्ये च कर्मणि । त्रिषु त्वाकर्णितेऽस्मात्तु वैजयन्त्यां पृथम् जगौ ॥ १३९० ॥ Nānārthārṇavasaṃkṣepa 2.5.1390
- नानार्थार्णवसंक्षेप मीमांसाशास्त्रे विचारणायां च सूरिभिः परिभाषिता । मुरली वशवाद्ये च काहलायाश्च भेदके ॥ ७० ॥ Nānārthārṇavasaṃkṣepa 3.1.70
- नानार्थार्णवसंक्षेप आगमआम्नायस्तु भवेद्वेदे सम्प्रदायान्ववाययोः । पाठाभ्यासे चागमस्तु शास्त्रेऽप्यागमनेऽपि च ॥ १२ ॥ Nānārthārṇavasaṃkṣepa 3.2.12
- नानार्थार्णवसंक्षेप प्रमाणप्रमाणं हेतुमर्यादाशास्त्रेयत्ताप्रमातृषु । सम्यग्वक्तरि नित्ये स्यादेकताबोधयोरपि ॥ ४५ ॥ Nānārthārṇavasaṃkṣepa 3.3.45
- नानार्थार्णवसंक्षेप शासनशासनं निग्रहे लेख्ये वेदवाक्येषु कर्मणि । वाङ्नियोगे प्रहरणे शास्त्रे ग्रामे च निष्करे ॥ ७८ ॥ Nānārthārṇavasaṃkṣepa 3.3.78
- नानार्थार्णवसंक्षेप दर्शनवैश्यपूर्वक्षत्रियायां व्रात्याज्जाते प्रयुज्यते । द्रमिलो दर्शनं तु क्ली नेत्रे शास्त्रे मते धियाम् ॥ ९०९ ॥ Nānārthārṇavasaṃkṣepa 4.909
- नानार्थार्णवसंक्षेप दृष्टान्तलूतायामित्यभाषिष्ट दृष्टान्तस्तु पुमानयम् । शास्त्रे तथोदाहरणे बहुव्रीहौ तु भेद्यवत् ॥ ९५६ ॥ Nānārthārṇavasaṃkṣepa 4.956
- नानार्थार्णवसंक्षेप प्रवचनकार्ये हेतौ प्रवचनं पुनर्व्याख्यानवेदयोः । प्रशस्तवचने च स्याच्छास्त्र इत्याह सज्जनः ॥ २६ ॥ Nānārthārṇavasaṃkṣepa 6.26
- नानार्थार्णवसंक्षेप एकायनशास्त्रे भागवतानां तत् कश्मीरेष्वेव विश्रुतम् । अथो एणीकृतः पुंसि वर्णदोषे त्रि तद्वति ॥ १२६ ॥ Nānārthārṇavasaṃkṣepa 6.126
- परमानन्दीयनाममाला कल्पकल्पः शास्त्रे विधौ पापे संवर्ते ब्रह्मणो दिने । प्रकर्षे दिशि काष्ठा च कालमानदिशोरपि ॥ १०३ ॥ Paramānandīyanāmamālā 5.7.103
- परमानन्दीयनाममाला तीर्थतीर्थं तोये गुरौ यज्ञे शास्त्रे स्त्रीपुष्पपात्रयोः ॥ २१४ ॥ Paramānandīyanāmamālā 5.15.214
- परमानन्दीयनाममाला तन्त्रनक्षत्रेऽथ मतस्तारः स्वरभेदे च मौक्तिके । तन्त्रं शास्त्रे वशे वायसाधने सिद्धभेषजे ॥ २१९ ॥ Paramānandīyanāmamālā 5.15.219
- परमानन्दीयनाममाला शक्तिशक्तिः श्रियामुमायां च बले शास्त्रेऽपि कथ्यते । Paramānandīyanāmamālā 5.25.8
- शब्दरत्नावली तर्कतर्को वितर्काकाङ्क्षोहहेतुशास्त्रेषु दृश्यते ॥ Śabdaratnāvalī 7.1.10
- शब्दरत्नावली प्रमाणप्रघाणस्ताम्रकलसे चालिन्दे लोहमुद्गरे । प्रमाणं नित्यमर्यादाशास्त्रहेतुप्रमातृषु ॥ Śabdaratnāvalī 7.15.46
- शब्दरत्नावली श्रुतकपालखण्डदुर्नामव्याद्यश्चावर्त्रकेषु च । श्रुतं स्यात्क्लीबलिङ्गन्तु शास्त्रे श्रवणगोचरे ॥ Śabdaratnāvalī 7.16.61
- शब्दरत्नावली दृष्टान्तदृष्टान्तो मरणे शास्त्रे स्यादुदाहरणेऽपि च । निर्ऋतिः पुंसि दिक्पालभेदेऽलक्ष्म्यामपि स्त्रियाम् ॥ Śabdaratnāvalī 7.16.108
- शब्दरत्नावली ग्रन्थगन्थः शास्त्रे धने वर्णसंख्याते ग्रथनेऽपि च । ग्रन्थिर्ना पर्वरुग्भेदग्रन्थिपर्णेषु वल्कले ॥ गाथा श्लोकगेपवृत्तसंस्कृतेतरभाषिते । तीर्थं शास्त्रे कृतौ(?) क्षेत्रे पात्रे नारीरजस्यपि ॥ उपाध्यायोपायमन्त्रितटषिजुष्टजलेष्वपि । तुत्थं क्लीबमञ्जने स्यान्नीलीसूक्ष्मैलयोः स्त्रियाम् ॥ दुःस्थो मूर्खे दुर्गते स्यात्पुंसि दुःखस्थिते त्रिषु । प्रस्थोऽस्त्रियां मितद्रव्ये सानुमानभिदोरपि ॥ Śabdaratnāvalī 7.17.3
- शब्दरत्नावली दर्शनतोदनं व्यथने तोत्रे दंशनं वर्मदंशयोः । दर्शनं दर्पणे शास्त्रे नयनस्वप्नबुद्धिषु ॥ दमनः कुसुमे वीरे उपशान्तेऽपि कुत्रचित् । दशनः शिखरे दन्ते कवचे तु नपुंसकम् ॥ दहनो दुष्टचेष्टाग्निभल्लाते चित्रकेऽपि च । दृशानं तेजसि क्लीबं स्यात्पुमांस्तु विरोचने ॥ देवनन्तु जिगीषायां स्यात्क्रीडाव्यवहारयोः । अक्षेषु देवनः पुंसि सेवायामपि देवना ॥ ध्वजी रथे च भूदेवे भये सर्पे धराधरे । धन्वी ककुभवृक्षे स्यादर्जुने च धनुर्धरे ॥ धन्व क्लीबे स्थले चापे धन्वा ना मरुदेशके । धमनो नालभेदे भस्त्राध्मापकक्रूरयोस्त्रिषु ॥ धमनी च शिराहट्टविलासिन्योरपि स्त्रियाम् । धावनन्तु गतौ शुद्धै पृश्नीपर्ण्यान्तु धावनी ॥ धाम गेहे तनौ रश्मौ स्थाने प्रभावजन्मनोः । नन्दनं वासवोद्यानं पुमानात्यजहर्षयोः ॥ नन्दी हरद्वारपाले कन्दवाले वटद्रुमे । नन्दिन्युमाधेनुभेदगङ्गाननान्दृषु स्त्रियाम् ॥ नलिन्याकाशगङ्गायां पद्मिन्यां कमलाकरे । अम्भोरुहे तु न पुमान् नीलिकायां नपुंसकम् ॥ निदानं वत्सदामादिकारणे क्षयकारणे । निधनं नाशकुलयोः प्रधनं युधि दारुणे ॥ पवनं स्यात्कुम्भकारपाकस्थाने नपुंसकम् । स्यात्पुमांस्तु जगत्प्राणे निष्पावे प्रयतेऽपि च ॥ प्रधानं प्रकृतिप्रज्ञामहामात्यपरात्मसु । एकत्वे चोत्तमे क्लीबं वाच्यलिङ्गन्तु कुत्रचित् ॥ पद्मिनी स्त्रीविशेषे स्यात्पद्मसङ्घे सरोऽम्बुजे । प्रसन्ना स्त्री सुरायां स्यात्सन्तुष्टामलयोस्त्रिषु ॥ प्रसूनं पुष्पफलयोः क्लीबं जाते तु वाच्यवत् । पत्री पत्ररथे श्येनेऽत्रिकाण्डे रथिके त्रिषु ॥ पर्व स्यादुत्सवे ग्रन्थौ प्रस्तावचिह्नभेदयोः । स्याद्दर्शप्रतिपत्सन्धौ विषुवत्प्रभृतिष्वपि ॥ पक्ष्मसूत्रांशमुद्रादिकिञ्जल्कनेत्ररोमसु । पाठीनः पाठके मीनभेदे च गुग्गुलुद्रुमे ॥ Śabdaratnāvalī 7.20.57
- शब्दरत्नावली शासनशतघ्नी शस्त्रभेदे स्याद्वृश्चिकाल्यां करञ्जके । शासनं लेखशास्त्राज्ञाराजदण्डाङ्कशास्त्रेषु ॥ Śabdaratnāvalī 7.20.85
- शब्दरत्नावली कल्पकल्पो ब्रह्मदिने न्याये विधौ शास्त्रे क्षयेऽपि च ॥ Śabdaratnāvalī 7.21.2
- शब्दरत्नावली आगमअधमो गर्ह्यन्यूने स्यादागमः शास्त्र आगतौः ॥ Śabdaratnāvalī 7.25.31
- शब्दरत्नावली केवलिन्केवली ज्ञानभेदे स्त्री केवली शास्त्रहोरयोः । कोमलं मृदुले नीरे मनोज्ञेऽपि च न द्वयोः ॥ Śabdaratnāvalī 7.28.57
- शब्दरत्नावली शम्किमु सम्भावनायाञ्च विमर्षविदितार्थयोः । तात्मकोपे स्मृतौ विस्मयकुत्सयोः । प्राकाम्ये च विकल्पे च सम्भावनाप्रसिद्धयोः । शं कल्याणे सुखे शस्ते शास्त्रेऽपि च निगद्यते ॥ सं समार्थे प्रकृष्टार्थे सङ्गतेशोभयेऽपि च । हं कोपोक्त्यामनुनये सामित्वर्द्धार्थनिन्दयोः ॥ हुं दूरीकरणे स्मृत्यामसूयाप्रश्नयोरपि । हूं प्रश्ने च वितर्के च त्वसकृत्क्राधतर्जने ॥ एवमङ्गीकृते वार्थप्रकारेष्वषधारणे । अलं निष्कारणे शक्तौ भूषणे च निरर्थके ॥ अङ्गीकारे च पर्याप्तौ प्रश्ने परकृतावपि । कथं प्रश्ने प्रकारार्थे सम्भ्रमे हर्षगर्हयोः ॥ कामं प्रकामेऽनुगतौ क्रोधानुगमयोरपि । नूनं तर्के स्मृतौ वाक्यपूरणे निश्चितेऽपि च ॥ परं नियोगे क्षेपे च प्राध्वं नम्रानुकूलयोः । सत्यं प्रश्नेऽभ्युपगमेऽवश्यन्तु नित्ययत्नयोः ॥ अभीक्ष्णं वारवारार्थे शीघ्रप्रकर्षयोरपि । इदानीं सम्प्रतीत्यर्थवाक्यभूषणयोरपि ॥ तद्दिनं दिनमध्येतु प्रतिवासर इत्यपि । साम्प्रतञ्चापि योग्यार्थे सम्प्रतीत्यर्थ इत्यपि ॥ भृशं प्रकर्षे चार्थे च मुहुरर्थे च शोभने । Śabdaratnāvalī 8.1.50
- शब्दरत्नाकर अर्थअजः पितामहे विष्णौ हरे छागे रघोः सुते । अर्थो धने शब्दवाच्ये शास्त्रे हेतौ प्रयोजने ॥ १८६२ ॥ Śabdaratnākara 4.1.1862
- शब्दरत्नाकर ग्रन्थशास्त्रे श्लोके श्रुतौ ग्रन्थो ग्रन्थिः परुषि बन्धने । गर्भस्तु कुक्षौ कुक्षिस्थजन्तौ पनसकण्टके ॥ १९०९ ॥ Śabdaratnākara 4.1.1909
- शब्दरत्नाकर ग्रन्थद्वात्रिंशदक्षरश्लोके ग्रन्थः शास्त्रे श्रुतावपि । भोजने कबले ग्रासो गन्धो यशसि सौरभे ॥ १९१२ ॥ Śabdaratnākara 4.1.1912
- शब्दरत्नाकर तन्त्रदृङ्मध्यरज्जुसुग्रीवजायासु स्त्री त्रिषूज्ज्वले । तन्त्रं स्यादौषधे शास्त्रराष्ट्रचिन्तानवाम्बरे ॥ १९३० ॥ Śabdaratnākara 4.1.1930
- शब्दरत्नाकर तीर्थपरिच्छदे तन्तुवाये प्रयोगे क्रतुकर्मणाम् । तीर्थं मन्त्राद्युपाध्यायशास्त्रेष्वम्भसि पावने ॥ १९३१ ॥ Śabdaratnākara 4.1.1931
- शब्दरत्नाकर श्रुतस्यात् त्रिष्वाकर्णिते क्लीबे शास्त्रावधृतयोः श्रुतम् । सर्गस्तु निश्चयेऽध्याये स्वभावोत्साहसृष्टिषु ॥ २०१८ ॥ Śabdaratnākara 4.1.2018
- शब्दरत्नाकर आगमआम्नायः संप्रदायेऽपि वेदाध्ययनयोरपि । आकार इङ्गिताकृत्योरागमः श्रुतिशास्त्रयोः ॥ २०४४ ॥ Śabdaratnākara 4.1.2044
- शब्दरत्नाकर दर्शनतोरणोऽस्त्री बहिर्द्वारदारुयन्त्रविशेषयोः । तूलिका कूर्चिकासूच्योर्दिग्वासा श्रमणे हरे शास्त्रोपलब्धिधीदृष्टिसमयेषु तु दर्शनम् ॥ २१०१ ॥ Śabdaratnākara 4.1.2101
- शब्दरत्नाकर प्रमाणप्रमाणं हेतुविश्वासशास्त्रेयत्तासु शासने । मर्यादायां प्रपञ्चस्तु विपर्यासे सुविस्तरे ॥ २१२८ ॥ Śabdaratnākara 4.1.2128
- शब्दरत्नाकर शासनशयनं मञ्चरतयोः शमनोऽजगरे यमे । शासनं निग्रहे शास्त्रे वेदवाक्येषु रक्षणे ॥ २१७४ ॥ Śabdaratnākara 4.1.2174
- शब्दार्णव दर्शनदर्शनं समये शास्त्रे दृष्टौ स्वप्नेऽक्ष्णि संविदि ॥ २०९ ॥ Śabdārṇava 209
- त्रिकाण्डशेष दर्शनदर्शनं वर्णमुकुरचक्षुःशास्त्रोपलब्धिषु । स्त्री दीर्घकोष्यां दुर्नामाऽर्शसि द्युम्नं बले धने ॥ २४३ ॥ Trikāṇḍaśeṣa 3.3.243
- त्रिकाण्डशेष कल्पकल्पः शास्त्रे विधौ न्याये संवर्ते ब्रह्मणो दिने । धान्ये कुशेऽष्टमांशेऽह्नः कुतपश्छागकम्बले ॥ २७५ ॥ Trikāṇḍaśeṣa 3.3.275
- त्रिकाण्डशेष आगमअभ्यागमो विरोधे च शास्त्रमायातमागमः ॥ २९१ ॥ Trikāṇḍaśeṣa 3.3.291
- वैजयन्ती अर्थअर्थः स्याद्विषये मोक्षे शब्दवाच्ये प्रयोजने । व्यवहारे धने शास्त्रे वस्तुहेतुनिवृत्तिषु ॥ ३ ॥ Vaijayantī 6.1.3
- वैजयन्ती ग्रन्थग्रंथो द्रव्यं वचः शास्त्रं द्वात्रिंशद्वर्णसंचयः । गर्भोऽपवरकेऽन्नेऽग्नौ सुते पनसकंटके ॥ २१ ॥ Vaijayantī 6.1.21
- वैजयन्ती तन्त्रतंत्रं स्वराष्ट्रव्यापारे तन्तुवाने परिच्छदे । शास्त्रौषधान्त्रमुख्येषु प्रयोगेऽध्वरकर्मणां ॥ ११ ॥ Vaijayantī 6.3.11
- वैजयन्ती तीर्थत्रपु सीसे च रंगे च तरसी बलरंहसी । तीर्थं मंत्राद्युपाध्यायशास्त्रेष्वंभसि पावने ॥ १३ ॥ Vaijayantī 6.3.13
- वैजयन्ती कोशशूद्रे काके पिके व्यासे ध्वान्तपक्षेऽर्जुने हरौ । कोशोऽस्त्री कुड्मले दिव्ये शास्त्रेऽर्थौघे गृहे तनौ ॥ १५ ॥ Vaijayantī 6.5.15
- वैजयन्ती श्रुतपथि देये शुल्कमस्त्री जामात्रा यच्च दीयते । श्रुतं शास्त्रावधृतयोर्नपुमाकर्णितेऽर्थवत् ॥ ८९ ॥ Vaijayantī 6.5.89
- वैजयन्ती आगमआघातौ घातसीमानावाहारौ भक्षणान्धसी । आलोकौ दर्शनोद्योतावागमौ शास्त्रमागतिः ॥ ८ ॥ Vaijayantī 7.1.8
- वैजयन्ती दृष्टान्तद्रुहिणौ हरिधातारौ शास्त्रोदाहरणयोस्तु दृष्टान्तः । दोषज्ञौ बुधभिषजौ धरुणाः स्तनधातृलोकार्काः ॥ ३२ ॥ Vaijayantī 7.1.32
- वैजयन्ती संहितासन्ततिस्त्वन्ववाये स्यात् पारंपर्ये सुतेऽपि च । संहिता वर्णसंयोगे शास्त्रवेदैकदेशयोः ॥ २८ ॥ Vaijayantī 7.2.28
- वैजयन्ती दर्शनतेमनं व्यञ्जने क्लेदे तोत्रे तोदे च तोदनम् । दर्शनं चक्षुषि स्वप्ने बुद्धिशास्त्रोपलब्धिषु ॥ १७ ॥ Vaijayantī 7.3.17
- वैजयन्ती प्रमाणनवसूतगवीदुग्धे पीयूषममृतेऽपि च । प्रमाणं बोधनेयत्तामर्यादाशास्त्रहेतुषु ॥ २३ ॥ Vaijayantī 7.3.23
- वैजयन्ती शासनशासनं निग्रहे लेख्ये वेदवाक्येषु कर्मणि । वाङ्नियोगे प्रहरणे शास्त्रे ग्रामे च निष्करे ॥ ३५ ॥ Vaijayantī 7.3.35